________________
२२०
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
एवम्-आदिना · अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाशे आकाश इति वा प्रदेश आ काशः' इति द्रष्टव्यम् ॥ ५९ ॥
जीवे स्कन्धेऽप्यनन्ते, नोशब्दाद् देशावधारणम् ।
इति शब्दनयः प्राह, समासद्वयशुद्धिमान् ॥ ६० ॥ नयामृत०-जीव इति । जीवे स्कन्धेऽपि- अपिश्चार्थः, जीवे स्कन्धे चानन्ते नोशब्दाद् देशावधारणं कर्तव्यम् , जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्ध इति वा प्रदेशो नोस्कन्ध इत्यभिलापः कर्तव्य इत्यर्थः, धर्मास्तिकायादेरैक्यात् तत्तत्प्रदेशस्य धर्मास्तिकायादिरूपता अनतिप्रसक्तेति तथोक्तिः, जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानास्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेश विवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्व-नोस्कन्धत्वोक्तिरिति कर्तव्य इत्यन्वयः । धर्म इति मूलस्य विवरणम्-धर्मास्तिकाय इति- अत्र धर्मास्तिकायपदस्य प्रदेशपदेन सप्तमी. तत्पुरुष कर्मधारये वा समासे धर्मास्तिकायप्रदेश इति भवितुमर्हति, तत्र यद् 'धर्मास्तिकाय' इत्येवाभिधीयते तेनाभिलापेन धर्मास्तिकायस्यैकत्वात् तत्सम्बन्धी तदात्मको वा प्रदेशोऽप्येक एव तद्रूप इति ज्ञापयति, तथा च धर्मास्तिकायप्रदेशस्य धर्मास्तिकायत्वेन रूपेण निर्णयः साम्प्रताख्य शन्दनये इत्याशयः । एवम् उक्तरीत्या । मादिना 'इत्यादि' इत्यत्रादिपदेन । अधर्म इति- अधर्मास्तिकाये प्रदेशोऽधर्मास्ति काय इति सप्तमीतत्पुरुषेण, अधर्मास्तिकायश्चासौ प्रदेशोऽ. धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः, आकाशास्तिकाये प्रदेश आकाशास्तिकाय इति सप्तमीतत्पुरुषेण, आकाशास्तिकायश्चासौ प्रदेश आकाशास्तिकाय इति कर्मधारयेण वा निर्णयः कार्य इत्यर्थः ॥ ५९ ॥
धर्मास्तिकायस्याधर्मास्तिकायस्याकाशास्तिकायस्य चैकैकव्यक्तिरूपत्वात् तत्तत्प्रदेशस्याप्येकस्य तदात्मकत्वसम्भवेन धर्मास्तिकायप्रदेशो धर्मास्तिकायः अधर्मास्ति कायप्रदेशोऽधर्मास्तिकायः, आकाशास्तिकायप्रदेश आकाशास्तिकाय इत्येवं वदितुं शक्यम् , जीव-पुद्गलस्कन्धयोश्चानन्तत्वादेकस्य कस्यचित् तत्प्रदेशस्य विवक्षितस्य सकलजीवात्मकत्वं सकलपुद्गलस्कन्धात्मकत्वं न सम्भवतीति जीवप्रदेशो जीव इत्येवं वदितुं न शक्यो नवा पुद्गलस्कन्धप्रदेशः पुद्गलस्कन्ध इति वक्तुं शक्यः, किन्तु जीवप्रदेशो नोजोवः स्कन्धप्रदेशो नोस्कन्ध इत्येवं वक्तव्य इत्यस्योपदर्शक पष्टितमपद्यं विवृणोति-जीव इतीति । अपिश्चार्थ इति-'स्कन्धेऽपि' इत्यत्र योऽयमपिशब्दः स चशब्दस्थ समुचयरूपेऽये वर्तते इत्यर्थः । अपिशब्दस्य चार्थकत्वे 'जीवे स्कन्धेऽपि' इति 'जावे स्कन्धे च' इति पर्यवसितमुट्टङ्कितम् । कीदृशमवधारणमित्यपेक्षायामाहजीवे जीव इति वेति- जीवे प्रदेशो नोजीब इति सप्तमीतत्पुरुषेण, जीवश्चासौ प्रदेशो नोजीव इति कर्मधारयेण वाऽभिलापः कर्तव्यः, स्कन्धप्रदेशस्यापि स्कन्धे प्रदेशो नोस्कन्ध इति सप्तमीतत्पुरुषेण, स्कन्धश्चासौ प्रदेशो नोस्कन्ध इति कर्मधारयेण वाऽभिलापः कर्तव्य इत्येवं पद्यपूर्वार्द्धस्यार्थोऽभिप्रेतार्थो ज्ञेय इत्यर्थः । “स्कन्ध इति वा" इत्यस्य स्थाने "स्कन्धे स्कन्ध इति वा" इति पाठो युक्तः । ननु धर्मास्तिकायप्रदेशादेर्धर्मास्तिकायादिशब्देनाभिलपन जीवस्कन्ध-प्रदेशयोश्च नोजीव-नोस्कन्धशब्देनाभिलपनमित्येवमभिलापवैचित्र्यं कथमित्यपेक्षायामाह- घर्मास्तिकायादे. रिति-आदिपदादधर्मास्तिकाया-SSकाशास्तिकाययोः परिग्रहः । अनतिप्रसक्ता विवक्षितप्रदेशव्यतिरिक्तप्रदेश न वर्तते । इति एतस्मात् कारणात् । तथोक्तिः धर्मास्तिकायप्रदेशस्य धर्मास्तिकाय इति. अधर्मास्तिकायप्रदेशस्याधर्मास्तिकाय इति, आकाशास्तिकायप्रदेशस्याकाशास्तिकाय इत्येवमुक्तिः । प्रतिस्वमनन्तत्वात् जीवा अध्यनन्तसलयकाः स्कन्धा अप्यनन्ता इत्येवं प्रत्येकमनन्तत्वात् । कथमिति- एकस्य जीवात्मक सन्तानस्य यः प्रदेशस्तस्य तजोवात्मकत्वमेव नान्यजीवात्मकत्वमिति न विवक्षितकजीवप्रदेशस्य सकल जीवसन्तानात्मकत्वसम्भवः, एवमेकपुद्गलस्कन्धस्य यः प्रदेशः स तत्पु. दलस्कन्धात्मक एवेति न तस्य सकलपुद्गलस्कन्धात्मकत्वसम्भव इत्येतस्मात् कारणात् ‘जीवप्रदेशो जीवः' इत्युक्तिर्न सम्भवति, एवं 'स्कन्धप्रदेशः स्कन्धः' इत्युक्तिन सम्भवति, किन्तु विवक्षितो य एकजीवसन्तानस्य प्रदेशस्तस्मिन् सकलजीवसन्तानस्यैकदेशो यो विवक्षितकजीवात्मकसन्तानस्तदायकत्वप्रतिपादनाय नोजोव इत्युक्तिः, एवं विवक्षितो य एकपुद्गलस्कन्धस्य प्रदेशस्तस्मिन् सकलपुद्गलस्कन्धानामेकदेश एकपुद्गलस्कन्धस्तदात्मकत्वस्य प्रतिपादनाय नोस्कन्ध इत्येव.