SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । - - - - - - - नयामृत-छिनप्रीति । किं भवान् छिनत्तीति प्रश्ने प्रस्थकं छिनमीत्युत्तरे प्रस्थकपदस्य छेदयोग्ये काष्ठे उपचारः, स पूर्वस्मात् शुद्धः; एवं क्रमेण किं भवान् तक्ष्णोति १ उत्किरति २ उल्लिखति ३ करोतीति ४ प्रश्रेषु प्रस्थकं तक्ष्णोमि १ उत्किरामि २ उल्लिखामि ३ करोमीत्युत्तरेषु ४ प्रस्थकपदस्य तक्षणादिक्रियायोग्यकाष्ठेषूपचारा यथोत्तरं भवन्तः क्रमेण शुद्धताभृतो भवन्ति । ननु सर्वत्र प्रस्थकपदस्य प्रस्थकयोग्यकाष्ठ एक एवोपचारस्तत्तक्रियाविशेषितार्थधीश्च तत्तक्रियावाचकपदसमभिव्याहारादेव भवि. ध्यतीति कथमेतावन्त उपचारा यथाक्रमं शुद्धा उच्यन्ते इति चेत् ? सत्यम्-'दुग्धमायुर्दध्यायुधृतमायुः, इत्यादौ दुग्धादिकारणे आयुःकार्योपचारस्यातिशयविशेषेण तारतम्यवत् प्रकृतेऽपि छेदनादिक्रिया. व्यापारावेशेन तज्जन्या अवयवसंयोगादिविशेषजन्यतया वा विलक्षणेषु काष्ठद्रव्येषु काष्ठ-प्रस्थकपर्यायो. त्पत्तिव्यवधानाभ्यां प्रस्थकपदोपचारतारतम्यस्यानुभवसिद्धत्वात् ।। ६४ ॥ तमेतावतिशुद्धौ तूत्कीर्णनामानमाहतुः। चितं मितं तथा मेयारूढमेवाह सङ्ग्रहः ॥ ६५॥ आदिम उपचार इत्युक्त्या तदनन्तरमन्येऽप्युपचाराः प्रस्थकदृष्टान्ते नैगम व्यवहारयोः सम्भवन्तीत्यवगम्यते, ते के ? इत्यकासानिवर्तकं चतुःषष्टितमं पद्यं विवृणोति-छिनमोतीति । सः प्रस्थकं छिनमीत्यत्र प्रस्थकपदस्य छेदयोग्ये काष्ठे उपचारः । पूर्वस्मात् प्रस्थकार्थ व्रजामीत्यत्र प्रस्थ कपदस्य प्रस्थकदलयोग्यवृक्षप्राप्तिक्रियाविष्टवने य उपचारस्तस्मादुप चारात् । एवं क्रमेण अव्यवहितपूर्वपूर्वोपचारादव्यवहितोत्तरोत्तरोषचारः शुद्ध इति रीत्या ! 'तक्षणादि इत्यादिपदादुरिकरणोल्लेखन-करणक्रियापरिग्रहः, तथा च प्रस्थकं तक्ष्णोमीत्यत्र प्रस्थकपदस्य तक्षणयोग्यकाष्ठे य उपचारः स प्रस्थक छिनोति वाक्यघटकप्रस्थकपदस्य च्छेदनयोग्यकाष्ठे उपचाराच्छुद्धः, तथा प्रस्थकं तक्ष्णोमीति वाक्यघटकप्रस्थकपदस्य तक्षणयोग्य काष्ठे उपचारतः प्रस्थकमुस्किरामीति वाक्य घटकप्रस्थकपदस्योत्कीर्णयोग्य काष्ठे उपचारः शुद्धः, एवं प्रस्थकमुस्किरामीति वाक्यघटकप्रस्थकपदस्योतिकरणयोग्यकाठे उपचारात् प्रस्थकमुल्लिखामीति वाक्यघटकप्रस्थकपदस्योल्लेखनयोग्यकाष्ठे उपचारः शुद्धः, तथा प्रस्थकमुल्लिखा नीति वाक्यघटकपदस्योल्लेखनयोग्यकाष्ठे उपचारात प्रस्थकं करोमीति वाक्यघटकप्रस्थकपदस्य प्रस्थककरणयोग्यकाष्ठे उपचारः शुद्ध इत्यर्थः । ननु प्रस्थकं छिनमीत्यत्र छेदनक्रियानिरूपककर्मत्वस्य प्रस्थक तक्ष्योमीत्यत्र तक्षणक्रियानिरूपककर्मत्वस्थ प्रस्थ कमुत्किरामीत्यत्रोत्किरणक्रियानिरूपककर्मत्वस्य प्रस्थकमुल्लिखामीत्यत्रोल्लेखनक्रियानिरूपककर्मत्वस्थ प्रस्थकं करोमीत्यत्र करणक्रियानिरूपककर्मत्वस्य च छिन्नमीत्यादितत्तरिक्रयाबोधकवाक्यसाकाङ्ककर्मत्वबोधकद्वितीयाविभक्तित एव बोधसम्भवात् सर्वेक्तवाक्येषु प्रस्थकपदस्य प्रस्थकयोग्यकाष्ठे एक एवोपचार इति दर्शितदिशोपदर्शिता अनेके उपचारा न सन्त्येवेति तेषां कमेण शुद्धत्वाभिधानमसङ्गतमेवेति शङ्कते-नन्वित्यादिना । तसक्रियेति-छेदनादिक्रियेत्यर्थः, एवमग्रेऽपि यद्यपि छेदनादितत्तक्रियायोग्यकाष्टपर्यायेषु प्रस्थकयोग्य काष्ठत्वं समानमेव तथापि अवान्तरतारतम्यस्य तत्तत्कियाकर्मीभूतेषु तत्तत्काष्ठपर्यायेषु सद्भावात् तथाविधविभिन्नतत्तत्पर्यायावगतये उपवर्णिता उपचारा आवश्यका एवेति समाधत्ते-सत्यमिति । 'दुग्धादि' इत्यादिपदादु दधि-घृतयोः परिग्रहः, समासश्च कर्मधारयः, आयुःकार्यत्यत्रापि कर्मधारयः । प्रकृतेऽपि प्रस्थक छिनमीत्यादावपि । 'छदनादि' इत्यादिपदात् तक्षणोत्किरणोल्लेखन करणक्रियाणामुपग्रहः । 'व्यापारावेशेन' इत्यस्य विलक्षणेष्वित्यत्रान्वयः। 'तजन्या अवयव' इत्यस्य स्थाने 'तजन्यावयव' इति पाठो युक्तः, तज्जन्यछेदनादिक्रियाव्यापारजन्यो यः काव्यस्यावयवसंयोगादिविशेषरतज्जन्यसयेत्यर्थः । काष्ठप्रस्थति-काष्ठच्छेदनानन्तरमेव न भवति काष्ठप्रस्थकपर्यायोत्पत्तिः, किन्वधिकच्यवधानेन काष्ठप्रस्थकपर्यायोत्पत्तिः, काष्ठच्छेदनापेक्षया किञ्चिन्न्यूनव्यवधानेन तक्षणक्रियाव्यापारानन्तरं काष्ठप्रस्थकपर्यायोत्पत्तिः, तदपेक्षयाऽपि किञ्चिन्यून व्यवधानेनोकिरणक्रियाव्यापारानन्तरं काष्टप्रस्थकपर्यायोत्पत्तिरित्येवं व्यवधानतारतम्येन तथा करणक्रियानन्तर. मव्यवधानेनैव काष्ठप्रस्थकपर्यायोत्पत्तिः, तत्पूर्व क्रियापेक्षया न्यूनाव्यवधानेन काष्ठप्रस्थकपर्यायोत्पत्तिरित्यवमव्यवधानतारतम्येन च प्रस्थकपदोपचारतारतम्यस्य विलक्षणेषु काष्ठद्रव्येध्वनुभवसिद्धत्वादित्यर्थः ॥ ६४ ॥
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy