SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपरजानवर, विन-38200m७ --- - --- - - --- - 'गेहेषु शतमश्वाः' इत्यत्रेव प्रत्येकवृत्तित्वान्वयः प्रकृते स्वीक्रियते, तदा प्रापक्ष:-पञ्चानां प्रदेश इति साहनयपक्ष एव परिष्कृतः स्यात् , तथा च स्वप्रतिज्ञासंन्यासो निग्रहस्थानम् ॥ ५७ ॥ प्रत्येकवृत्तिः साकाङ्क्षा, बहुत्वेनेति सोऽप्यसत् । ऋजुसूत्रस्ततो ब्रूते, प्रदेशभजनीयताम् ॥ ५८ ॥ नयामृत-प्रत्येकेति । किञ्च — गेहेषु शतमश्वाः' इत्यत्र गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्त्यवच्छेदकैकत्व[ वत् ]पञ्चकवान् प्रदेश इति बोधो वाच्यः, स च न सम्भवति, पञ्चपद. विशेषपरित्यागेनेत्यर्थः । तदसिद्धः सामान्यासिद्धेः । नन्वेकस्मिन् गेहे एकोऽश्वो द्वितीयेऽस्मिन् गेहे द्वितीयोऽश्व इत्येवं गृहाणां शतेऽश्वानां शतस्य वृत्तित्वमुपादाय गेहेषु शतमश्वा इति प्रयोगो यथा निर्वहति तथा एकस्मिन् धर्मास्तिकाये एकः प्रदेशोऽधर्मास्तिकाये द्वितीयः प्रदेश इत्येव प्रत्येक धर्मास्तिकायादिवृत्तित्वं प्रदेशगतमादाय धर्मास्तिकायादीनां पञ्चविधः प्रदेश इति प्रयोग उपपद्यत इत्यत आह- यदि चेति । प्रत्येक वृत्तित्वान्वयः धर्मास्तिकायादिप्रत्येकनिरूपितवृत्तित्वस्य प्रदेशेऽन्वयः । प्रकृत धर्मास्तिकायादीनां पञ्चविधः प्रदेश इत्यत्र । 'प्राकृपक्षः' इति मूलस्य विवरणम् - पञ्चानां प्रदेश इति सङ्कहनयपक्ष एव परिष्कृत इति- परिष्कारश्च धर्मास्तिकायादीनां सम्बन्धिनां पञ्चत्वसङख्याकलित. स्वात् प्रदेशानामपि पञ्चविधत्वमिति । भवतु सङ्ग्रहनयपक्षपरिष्कार एव, कोऽत्र दोष इत्यत आह-तथा चेति - एव सतीत्यर्थः । स्वप्रतिज्ञालन्यासः स्वस्य व्यवहारन यस्य या प्रतिज्ञा पञ्चानां प्रदेशान्वयित्वासम्भवात् पखाना प्रदेश इति न सम्भवति किन्तु पञ्चविधः प्रदेश इत्येव युज्यते' इत्येवरूपा तस्या संन्यासः परित्यागः, यतः प्रत्येकवृत्तित्वान्वयाश्रीकारे पश्चानां प्रदेश इति सम्भवत्येवेति । निग्रहस्थानं निग्रहस्थानविशेषः, येन दोषेण वादिनो निग्रहो भवति स दोषो निग्रहस्थानमिति गीयते ॥ ५७ ॥ अपि च, पश्चानां प्रदेश इत्यत्र धर्मास्तिकायादिप्रत्येकवृत्तित्वस्य प्रदेशेऽन्वयो निराकाक्षत्वाम्न सम्भवति, बहुवचनात्तपदोपस्थितार्थ एव प्रत्येकवृत्तित्वाम्ययो भवतीत्यतो बहुवचनान्तविशेष्यवाचकपदघटितवाक्यस्यैव तथाऽन्वयबोधने साकाक्षत्वात् सामथ्र्यम् , गेहेषु शतमश्वा इत्यत्र प्रत्येकगृहवृत्तित्वस्य प्रत्येकाश्वान्वयो युज्यतेऽश्वपदस्य बहुवचनात्तत्वेन साकाङ्कत्वात् , प्रकृतऽपि पञ्चानां प्रदेशा इत्येवं यदि वाक्यस्वरूपं भवेदू, भवेत् तदा साकाक्षत्वात् तस्योकान्वयबोधनसामर्थ्य, न तु पञ्चानां प्रदेश इत्यत्र विशेष्यवाचकप्रदेशपरस्य बहुवचनान्तत्वं समस्तीत्यत: 'स्याधर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः, स्यादाकाशास्तिकायस्य प्रदेश: स्यात् पुद्रलास्तिकायस्य प्रदेशः, स्याज्जीवास्तिकायस्य प्रदेशः' इत्येवं विकल्पनीय इति ऋजुसूत्रे ब्रवीतीत्येतदुपदर्शकमष्टपञ्चाशत्तमपद्यं विवृणोति-- प्रत्येकेतीति । प्रत्येकवृत्तिः साकाङ्क्षति व्यारव्यातुं तदवतारणोपायोपोद्धातावष्टमाश्रयति-किञ्चेति । “गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्यवच्छेदकैकत्व(वत्) पञ्चकवान् प्रदेश इति बोधो वाच्यः" इत्यस्य स्थाने " गेहवृत्तिबहुल व्यापकैकत्वावच्छिन्न पर्याप्तवृत्त्यवच्छेदकैकत्ववन्तः शातत्वसहयावन्तोऽश्वा इति बोधवत् , धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिवृत्तिपञ्चत्वव्यापकैकत्वावच्छिन्नपर्याप्तत्यवच्छेदकैकत्ववन्तः प्रदेशा इति बोधो वाच्यः" इति पाठः समीचीनः, तस्य चायमर्थः- गेहवृत्ति यद् बहुत्वं निरूपकत्वसम्बन्धेन तव्यापिका या एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्ना वृत्तयस्तासामवच्छेदकानि यान्येकत्वानि तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा इत्याकारको बोधो यथा गेहेषु शतमश्वा इत्यत्र भवति तथा धर्मास्तिकायादिवृत्ति यत् पञ्चत्वं निरूपकत्वसम्बन्धेन तस्यापिका या एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्ना वृत्तयस्तदबच्छेदकानि यान्यकत्वानि तद्वन्तः प्रदशा इत्याकारकबोधो धर्मास्तिकायादीनां पश्चानां प्रदेश इत्यत्र व्यवहारनयमतेन वाच्य इति, एतत्सङ्गमनं चेत्थम्- 'गेहेषु शतमश्वाः' इत्यत्र बहुवचनार्थस्य बहुत्वस्य प्रकृत्यर्थे गेहे पर्याप्तिसम्बन्धेन विशेषणीभूतस्य प्रकृते गेहवृत्तिबहुत्वशब्देन ग्रहणम् . तच गेहेषु वर्तते, तत्राश्वगता याः पर्याप्तिसम्बन्धावच्छिन्ना वृत्तितास्ता निरूपकतासम्बन्धेन वर्तन्त इति ताः पर्याप्तिसम्बन्धावच्छिन्नवृत्तितात्वेन रूपेण व्यापिका तावच्छेदकपर्याप्तिसम्बन्धश्च तत्तदेहगतैकत्वावच्छेदेनेति भवम्ति ता मेहवृत्तिबहुत्वव्यापिकाः, तत्तदेहगतैकत्वावच्छिन् २८
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy