SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । समभिव्याहृतबहुवचनान्तप्रदेशपदोपादान एव तथाबोधसम्भवात् यदि च गृहशतेऽश्वा इतिवदत्र तात्पर्य विशेषेणोक्तबोध सम्भव इतीष्यते तथापि प्रत्येक वृत्ति बहुत्वेन - बहुवचनेन साङ्काक्षेति सोऽपि पक्षोऽसन्, नह्युक्तबोधार्थं ' गृहशतेऽश्वाः इतिवद् ' गृहशतेऽश्वः' इति कश्चित् प्रयुङ्क्ते, तद्वत् पञ्चानां प्रदेश इत्युपदर्शितदिशाऽपि न युक्तः प्रयोगः, इति निर्गलितार्थः । तृतीयस्तु पक्षो न युक्तःउक्तातिरिक्तभेदासिद्धेः । तत ऋजुसूत्रनयः प्रदेशभजनीयतां ब्रूते - स्याद्धर्मास्तिकायस्य प्रदेशः स्यादधर्मास्तिकायस्येत्यादि विकल्पयतीत्यर्थः ॥ ५८ ॥ २१८ भजनाया विकल्पत्वाद्, व्यवस्थैवमपैति तत् । धर्मे धर्मः प्रदेशो वा धर्म इत्यादिनिर्णयः ॥ ५९ ॥ पर्याप्तिसम्बन्धार्वाच्छन्नास्ताः पुनस्तत्तदश्वगतैकत्वावच्छेदेनाश्वेषु वर्तन्त इति तदवच्छेदकानि तत्तद्देहगततत्तदवगतान्येकत्वानि, तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा भवन्तीति तद्विषयको बोधो निरुक्तवाक्यादुपपद्यते प्रत्येक गेहे प्रत्येकमश्वस्य वृत्तित्वमुपादायेति एवं धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिगतं यत् पञ्चत्वं पर्याप्तिसम्बन्धेन तदधिकरणे धर्मास्तिकायादौ पर्याप्तिसम्बन्धावच्छिन्नाः प्रदेशगता वृत्तिता निरूपकतासम्बन्धेन वर्तन्त इति ता धर्मास्तिकायादिगतपञ्चत्वव्यापिका भवन्ति, तदवच्छेदकी भूत पर्याप्तिसम्बन्धस्यावच्छेदकं च धर्मास्तिकायादिगतमेकत्वमिति भवन्ति ता धर्मास्तिकायादिपञ्चत्वव्यापिकाः एकत्वावच्छिन्नपर्याप्ति सम्बन्धावच्छिन्नास्ताश्च तत्तत्प्रदेशगतैकत्वावच्छेदेन तत्तत् प्रदेशेषु वर्तन्त इति तादृरावृत्त्यवच्छेदकानि यान्येकत्वानि तद्वन्तः प्रदेशा इति तद्विषयको बोध इति । स च धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यप्रभवत्वाऽनन्तरमुपदर्शितो बोधश्च । न सम्भवति धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यतो न सम्भवति । निषेधे हेतुमाह-- पञ्चेति- निरुक्तवाक्ये यद् बहुवचनान्तं पञ्चपदं तत्समभिव्याहृतं यद् बहुवचनान्तं प्रदेशपदं ' प्रदेशा:' इत्येवंस्वरूपं तदुपादाने एव धर्मास्तिकायादीनां पञ्चानां प्रदेश। इत्येवंरूपेणोच्चारणे सत्येव, एवकारेणैकवचनान्त प्रदेशपदोपादानस्य व्यवच्छेदः । तथाबोधसम्भवात् प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येकं प्रदेशानां वृत्तित्वमाश्रित्य दर्शितो यो बोधस्तस्त्रोपपत्तेः । ननु ' गृहशतेऽश्वाः ' इत्यत्र गृहृपदं न बहुवचनान्तं तथापि प्रत्येकं गृहशत. वृत्तित्वं प्रत्येकमश्वेषुररीकृत्य 'गेहेषु शतमश्वाः' इति वाक्यप्रभवोपपदर्शितबोधसमानाकारो बोधस्तात्पर्यबलाद् यथा भवति तथा तात्पर्यविशेषबलादत्रापि निरुतबोध: स्यादित्यत आह-यदि चेति । अत्र धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्ये । तथापि ' गृहशतेऽश्वा:' इत्यत्र 'गेहेषु शतमश्वाः' इति वाक्यप्रभवबोधसमानाकारबोधस्य तात्पर्यविशेषबलात् सम्भवेऽपि । प्रत्येक वृत्ति बहुत्वेन " इत्यस्य स्थाने ' प्रत्येक वृत्तिर्बहुत्वेन इति पाठो युक्तः । प्रत्येक वृत्तिः प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येकं या प्रदेशस्य वृत्तिः सा । ' बहुत्वेन ' इत्यस्य मूलस्य विवरणम्- बहुवचनेनेति, प्रदेशपदोत्तरबहुवचनेनेत्यर्थः । साङ्काक्षेति स्थाने साकाङ्क्षति पाठो युक्तः, धर्मास्तिकायानां पञ्चानामित्यस्य प्रदेशा इति बहुवचनान्त प्रदेशपदसमभिव्याहाररूपाकाङ्क्षार्या सत्यामेव निरुक्तप्रत्येकवृत्तित्वान्वयबोधः, न हि निराकाङ्क्षावाक्यात् तात्पर्यविशेषसहकारेणाप्यन्वयबोधः सम्भवतीत्याशयः । इति एतस्मात् कारणात् । सोऽपि पक्षः ' गृहशतेऽश्वाः' इति वत् तात्पर्यविशेषेण धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यपि प्रत्येकवृत्तित्वान्वयबोधं जनयतीति पक्षोऽपि । असन् अयुक्तः, सोऽप्यसदिति पद्यघटकस्थाने 'सोऽप्यसन्' इति पाठ: सम्यक् । उक्तपक्षस्यायुक्तत्वमुपपादयति- नहीति - अस्य 'प्रयुङ्क्ते ' इत्यनेनान्चयः । उक्तबोधार्थ प्रत्येकमश्वानां प्रत्येकं गृहेऽन्वयबोधार्थम् । तद्वदिति यथा गृहशतेऽश्वः' इति न प्रयोगस्तथेत्यर्थः । तृतीयस्तु पक्ष इति पञ्चविधत्वं पञ्चप्रकारत्वमित्यत्र प्रकारो भेद इति तृतीयविकल्पस्त्वित्यर्थः । उक्तातिरिकेति सङ्ख्या - बुद्धिविशेषविषयत्वाभ्यामतिरिक्तस्य भेदस्यासिद्धेरित्यर्थः । ततः धर्मास्तिकायादीनां पचविधः प्रदेश इति व्यवहारनयाभिमतस्यायुक्तत्वात् । 'प्रदेशभजनीयतां ब्रूते' इति मूलस्यार्थमुपदर्शयति- स्याद्धर्मास्तिकायस्येति । — स्यादधर्मास्तिकायस्य ' इत्यनन्तरमपि ' प्रदेश: ' इत्यनुवर्तते, ' इत्यादि इत्यादिपदात् स्यादाकाशास्तिकायस्य प्रदेशः, स्यात् पुद्गलास्तिकायस्य प्रदेशः स्याज्जीवास्तिकायस्य प्रदेश इत्येतत्रितयस्य परिग्रहः ॥ ५८ ॥ •
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy