SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । उभयप्रकारं रूपमित्याकारस्यैव व्यवहारनयजन्यबोधस्य तत्रोपपत्तेः ।। ५६ ॥ पञ्चप्रकारः प्रत्येकं, पञ्चविंशतिधा भवेत्। प्रत्येकवृत्तौ प्रापक्षः, स्याद गेहेष्विव वाजिनाम् ॥ ५७॥ नयामृत-पञ्चप्रकार इति । पञ्चविधः प्रदेश इति यद् व्यवहारनयेन स्वीक्रियते, तत्र किं पञ्चविधत्वं ? पञ्चप्रकारत्वमिति चेत् ? कः प्रकारः ?, सङ्ख्या वा १, बुद्धिविशेषविषयत्वं वा २, भेदो वा ३ ? । नाद्यः-अनन्तेषु प्रदेशेषु पञ्चसाङ्ख्यावधारणाऽसिद्धेः, न द्वितीयः पञ्चत्वप्रकारकबुद्धि विषयत्वस्य प्रत्येकमभाविनः पञ्चस्वप्यभावात् , प्रत्येक भावे चैकैकः प्रदेश पञ्चविध इति पञ्चविंशतिधा भवेत् । न च सामान्यतस्तदन्वयान्न बाध इति वाच्यम्, विशेषविनिर्मोकेण तदसिद्धेः, यदि च न प्रयुज्यत इत्यर्थः । यदि घट-पटयो रूपमिति न प्रयुज्यते तहि कीडम्व्यवहारस्तत्र भवतीत्यपेक्षायामाह- घट-पटोभयसम्बन्धिनेति- रूपस्यैकस्य घटात्मकं यत् सम्बन्धि यच्चापरस्य रूपस्य पटात्मकं सम्बन्धि तदूपोमयसम्बन्धिना घटस्य रूपं पटस्य रूपमित्येवमुभयप्रकारं रूपमित्याकारकस्यैव बोधस्य व्यवहारनयजन्यस्य घट-पटयो रूसमिति वाक्यस्थले उपपत्तेरित्यर्थः ॥ ५६ ॥ पञ्चानां प्रदेश इति सङ्ग्रहनयमतं दूषयित्वा पञ्चविधः प्रदेश इत्येव तत्र वाच्य इति स्वमतं यद् व्यवहारनयेन समर्थितं तद् विकल्पकवलितत्वान्न परीक्षकपरीक्षाक्षेत्रमिति ऋजुसूत्रवक्तव्योपदर्शक सप्तपञ्चाशत्तमपथं विवृणोति-पश्चप्रकार इतीति । तत्र प्रदेशे। पञ्चविधः प्रदेश इति वाक्येन पञ्चप्रकारत्वलक्षणं पञ्चविधत्वं प्रतिपादयितुमिष्टमित्याशङ्कतेपञ्चप्रकारत्वमिति चेदिति । तत्र किं पञ्चविधत्व मिति पृच्छायां तदुत्तरमाशङ्कितं तद् विकल्प्य दूषयति-का प्रकार इति-पञ्चप्रकारत्वमित्यत्र प्रकारशब्दवाच्यः क इत्यर्थः । प्रकारपदवाच्या सङ्ख्याऽभिमता, तथा च पञ्चप्रकारः प्रदेश इत्यनेन पञ्चसख्यकः प्रदेश इत्युक्तं स्यात् , तदपि न युक्तमित्याह- नाद्य इति । सर्व हि वाक्यं सावधारणमिति नियमेन पञ्चसङ्ख्यक एवं प्रदेश इत्युकवाक्यस्वरूपं भवेत् , ततश्च तेन वाक्येन प्रदेशे यत् पञ्चसंख्याऽवधारणं तन युज्यते प्रदेशानामनन्तसङ्ख्यकत्वादिति निषेधहेतुमुपदर्शयति -अनन्तेष्विति । पञ्चप्रकारत्वमित्यनेन पञ्चत्वप्रकारकबुद्धिविशेषविषयत्वं प्रतिपादयितुमभिलषितमित्यपि न युकमित्याह-न द्वितीय इति । प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वमिति नियमेन पञ्चत्वस्य प्रत्येक प्रदेशेऽभावेन प्रदेशपञ्चकेऽप्यभावादिति पञ्चत्वप्रकारकबुद्धिविशेषत्वस्यापि प्रत्येक प्रदेशेऽसतस्तत्पश्चकेऽप्यसत्त्वादिति न पञ्चत्वप्रकारकबुद्धिविशेषविषयः प्रदेश इति सम्भवति, यदि च प्रत्येकमपि प्रदेशे पञ्चत्वप्रकारकवुद्धिविशेषविषयत्वलक्षणं पञ्चविधत्वमिष्टं तदा धर्मास्तिकायस्य प्रदेशः पञ्चविधोऽधर्मास्तिकायस्य प्रदेशः पञ्चविधस्तथाऽऽकाशास्ति काय-पुद्गलास्तिकायजीवास्तिकायानां प्रदेशा अपि प्रत्येकमुक्तपञ्चविधत्वाकान्ता इति पञ्चविंशतिविधः प्रदेश इति प्रसज्यत इति निषेधहेतुमुपदर्शयति-पञ्चत्वप्रकारकेति । प्रत्येकमभाविनः एकैकधर्मास्तिकायादिप्रदेशव्यक्तावसतः । पञ्चस्वपि धर्मास्तिकायादिप्रदेशपञ्चकेष्वपि । प्रत्येक भावे च एकैकधर्मास्तिकायादिप्रदेशव्यक्तौ पश्यत्वप्रकारकबुद्धिविषयत्वस्य सत्त्वे तु । पकैक इति-- धर्मास्तिकायप्रदेशः पञ्चविधः, अधर्मास्तिकायप्रदेशः पञ्चविध इत्येवं प्रत्येक धर्मास्तिकायादिप्रदेशपञ्चकानां पञ्चविधत्वे पञ्चसङ्ख्यावतां प्रत्येकं पञ्चाख्या गुणितानां पञ्चविंशतिविधत्वं स्यादित्यर्थः। ननु प्रत्येक प्रदेशव्यक्तिगणनयाऽ. नन्तसडल्यावत्सु प्रदेशेषु पञ्चत्वसङ्ख्याया बाधादन्वयासम्भवेऽपि धर्मास्तिकायप्रदेशत्वेन धर्मास्तिकायप्रदेश एकः, अध. मास्तिकायप्रदेशत्वेनाधर्मास्तिकायप्रदेशस्तदन्यो द्वितीयः, आकाशास्तिकायप्रदेशत्वेनाकाशास्तिकायप्रदेश स्ताभ्यामन्यस्तृतीयः, पुनलास्तिकायप्रदेशत्वेन पुद्गलास्तिकायप्रदेशस्तेभ्योऽन्यश्चतुर्थः, जीवास्तिकायप्रदेशत्वेन जीवास्तिकायप्रदेशस्तेभ्योऽन्यः पञ्चम इति कृत्वा प्रदेशेषु पञ्चविधत्वस्यान्वयसम्भवान्न बाध इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यने नान्वयः । धर्मास्तिकायस्य यावत्यः प्रदेशव्यक्तयस्ताभ्योऽन्यद् धर्मास्ति कायप्रदेशसामान्य नास्त्येव, एवमधर्मास्तिकायादि. प्रदेशसामान्यमप्यधर्मास्तिकायादिप्रदेशव्यक्तिभ्यो भिन्नं नास्त्येवेत्यनन्ता एवं प्रदेशव्यक्तयो न सामान्यतोऽपि पञ्चत्वसङ्ख्यापरिकलिता इति नोक्तदिशा निरुक्तपञ्चविधत्वस्यान्वयसम्भव इति निषेधहेतुमुपदर्शयति-विशेषविनिर्मोकेणेति--
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy