________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
२१५
न्वयस्य निराकासत्वात् सङ्ग्रहनयमतेन षण्णां प्रदेश इत्यन्ये ॥ ५५ ॥
व्यवहारस्तु पञ्चानां, साधारण्यं न वित्तवत् ।
इति पञ्चविधो वाच्यः, प्रदेश इति मन्यते ॥ ५६ ॥ नयामृत-व्यवहारस्त्विति । व्यवहारनयस्त्विति मन्यते-यथा पञ्चानां वित्ते साधारण्यं स्वामित्वं, तथा प्रदेशेन साधारण्यं पञ्चवृत्तित्वमिति, पञ्चानां प्रदेश इति न वाच्यम्, किन्तु पञ्चविधः प्रदेश इति वाच्यमिति । पश्चानां प्रदेश इति यदि पश्चत्वपर्याप्तिमद्वृत्तित्वमादाय प्रयुज्यते, तदा न तत्र कुत्रापि प्रदेश इत्ययोग्यत्वम् । यदि च पञ्चत्वाश्रयवृत्तित्वमादाय प्रयुज्यते, तदा पञ्चानां धर्मास्ति. कायप्रदेश इत्यपि स्यादित्येवं सङ्ग्रहमतं दूषणीयमित्येतत्तात्पर्यम् । नन्वेवं घट-पटयो रूपमित्यपि न स्यादिति चेत् ? न स्यादेव, समुदितवृत्तित्वबोधायैव व्यवहारसामात् , घटपटोभयसम्बन्धिना इत्यत्र 'सङ्ग्रहनयमते न' इत्येवं छेदः । यदि देश-देशिनोन भेदः किन्तु भेद एव, तथा सति वृक्षाणां परस्पर विभिन्नाना छायाऽपि विभिन्नैव, अथापि छायात्वेनैकरूपेणकीकृता छाया सर्वेषामन्वययोग्या भवति, न च तत्र निराकाक्षता, तथा देशस्थापि भिन्नस्थ भिन्ना छाया स्यादेव तदन्वययोग्या, तत्रापि साकाङ्क्षता न काकभक्षितेति देश-देशिनोरभेदादेव यैव देशिच्छाया सव देशच्छायेत्यत एवं पञ्चानां वृक्षाणां तदेशस्य च च्छायेति न भवति तथैव प्रकृतेऽपोत्यस्वरसः 'अन्ये' इत्युक्त्या सूचितः ॥ ५५ ॥
यथा धनस्यैकस्याने कस्वामित्वं तथा नेकस्य प्रदेशस्याने कसम्बन्धित्वमिति धर्मास्तिकायादीनां पञ्चानां परस्परविभिन्नप्रदेशानां नैकप्रदेशकस्वमिति धर्मास्ति कायस्य प्रदेशोऽधर्मास्तिकायस्य प्रदेश इत्येवं पञ्चविधः प्रदेश इत्येव वक्तव्यम् , न तु धर्मास्तिकायादीनां पचानां प्रदेश इति व्यवहारनयोऽभिमन्यते. तन्मन्तव्योपदर्शकं षट्पञ्चाशत्तमपद्यं विवृणोति-व्यवहारस्वितीति-अस्य 'इति मन्यते' इत्यनेनान्वयमुल्लिखति-व्यवहारनयस्त्विति मन्यते इति । 'मन्यते' इत्यस्य कर्म मूलो स्पष्टयति-यथा दृष्टान्ते साधारण्यं स्वामित्वं दार्शन्तिके वृत्तित्वं तदित्याह-साधारण्यं स्वामित्वमिति 1 'प्रदेशेन 'इत्यत्र 'प्रदेशे न' इति बोध्यम् । प्रदेशे पञ्चानां वृत्तित्वं नेत्यस्य फलितमाह- पश्चानां प्रदेश इति न वाच्यमिति । तर्हि किं वाच्यमिति पृच्छति-किन्विति । व्यवहारनयतात्पर्यमाविष्करोति- पञ्चानामिति- पचानां प्रदेश इति यत् पङ्ग्रहस्य मतं तत्र यदि धर्मास्तिकायादिपञ्चगतपञ्चत्वसङ्ख्यापर्याप्तिमनिरूपितवृत्तित्ववान् प्रदेश इत्यर्थोऽभिप्रेतस्तदा तस्यायोग्यत्वान्न सम्भवः, यतो धर्मास्तिकायस्य प्रदेशो धर्मास्तिकाय एव वर्तते, नाधर्मास्तिकायादौ, तथाऽधर्मास्तिकायस्य प्रदेशोऽधर्मास्तिकाय एवं वर्तते, इत्येवं प्रदेशमात्रस्य धर्मास्तिकायादायकैकस्मिन्नेव वृत्तित्वं न तु धर्मास्तिकायादि. पञ्चमतपञ्चत्वसङ्ख्यावच्छिन्ननिरूपितपर्याप्तिसम्बन्धावच्छिन्नवृत्तित्वं कस्यापि प्रदेशस्येति तादृशार्थविवक्षायां पञ्चानां प्रदेश इति न सम्भवति, यदि च पर्याप्तिसम्बन्धमनादृत्य निरुक्तपञ्चत्वाश्रयनिरूपितवृत्तितावान् प्रदेश इत्यर्थ एव परिगृह्यते तदा पञ्चत्वाश्रयधर्मास्तिकायाकैकनिरूपितवृत्तित्वस्य धर्मास्तिकायप्रदेशादायकैकस्मिन् सम्भवेन योग्यत्वात् पश्चानां प्रदेश इति प्रयोगः सम्भवति, किन्तु निरुक्तपञ्चत्वाश्रयधर्मास्तिकायनिरूपितवृत्तित्वं धर्मास्तिकायप्रदेशे वर्तत इति योग्यत्वाद् धर्मास्ति. कायादिपञ्चानां धर्मास्तिकायप्रदेश इति प्रयोगोऽप्यापद्यत इत्यतः पञ्चानां प्रदेश इति सङ्ग्रहमतं न समीचीनमिति तात्पर्य मित्यर्थः । ननु यथा नेकस्य कस्यापि प्रदेशस्य धर्मास्तिकायादिपञ्चवृत्तित्वमिति पञ्चानां प्रदेश इति न सम्भवति तथा नेकस्यापि रूपस्य घट-पटोभयनिरूपितवृत्तित्वम् , घटरूपं घट एव वर्तते न तु पटे, पटरूपं पट एवं वर्तते न तु घटे, इति घट-पटयो रूपमित्यपि प्रयोगो व्यवहारनयमते न स्यादित्याशङ्कते-नन्वमिति । अत्रेष्टापत्तिमेव समाधानमाह-- न स्यादेवेति- व्यवहारनयमते घट-पटयो रूपमिति न भवत्येवेत्यर्थः । ननु घट-पटगतद्वित्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपे निरुक्तद्वित्वाश्रयपटनिरूपित वृत्तित्वस्य पटरूपे च सत्त्वात् कथं न तादृशार्थमुपादाय घट-पटयो रूपमिति प्रयोग इत्यत आह-समुदितति-व्यवहारनये घट-पटयो रूपमिति वाक्यस्य घट-पटगतद्वित्वपर्यायधिकरणनिरूपितवृत्तित्ववद्रपमित्याकारक. बोधमुत्पादयितुमेव सामर्थात्, निरुक्तद्वित्वपर्यायधिकरणनिरूपितवृत्तित्वं च रूपे न कस्मिन्नपीत्यतो घट-पटयो रूपमिति