________________
२१४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
उक्ता नयार्थास्तेषां ये, शुद्धयशुद्धी वदेत् सुधीः ।
ते प्रदेश-प्रस्थकयोर्वसतेश्च निदर्शनात् ॥ ५३ ॥ नयामृत.-उक्ता इति । स्पष्टोऽयम् , नवरं निदर्शनादिति जात्यपेक्षमेकवचनम् , प्रदेश प्रस्थकवसतिदृष्टान्तैर्नयानां शुद्ध्यशुद्धी विभावनीये इत्यर्थः ॥ ५३॥ तत्र पूर्व प्रदेशदृष्टान्तं विवेचयति । तथाहि
धर्माऽधर्मा-ऽऽकाश- जीव-स्कन्धानां नैगमो नयः ।
तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः ॥ ५४॥ नयामृत०-धर्मेत्यादि । नैगमो नयः धर्मास्तिकाया-धर्मास्तिकाया-ऽकाशास्तिकायजीवास्तिकायस्कन्धानां तद्देशस्य [च] प्रदेश इति षण्णां तम्- प्रदेशमुच्चकैः स्वमतनिर्बन्धेनाह ॥ ५४ ॥
दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे।
इति स्वदेशे स्वाभेदात्, पञ्चानामाह सङ्ग्रहः ॥ ५५ ॥ नयामृत-दासेनेति । सङ्ग्रहनयस्तु ' दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे' इति न्यायात् स्वदेशे-धर्मास्तिकायादिदेशे, स्वाभेदात्-धर्मास्तिकायाद्यभेदात् पञ्चानां प्रदेशमाह, षण्णां भेदानां पञ्चसु सङ्ग्रहादत्र सङ्ग्रहस्यान्वर्थत्वम् , क्रयजन्यं दासनिष्ठं खरस्वामित्वं यथा परम्परासंबन्धेन तत्स्वामिनिष्ठतया सङ्ग्रहीतुं शक्यं तथा धर्मास्तिकायादिदेशवृत्तिप्रदेशाश्रयत्वं परम्परासम्बन्धेन धर्मास्तिकायादिनिष्ठतयेति परमार्थः । पश्चानां वृक्षाणां तद्देशस्य च 'छाया' इत्यत्रेव देश्यन्वययोग्ये देशा.
शङ्केश्वरं प्रभुम्, स्नात्राऽम्भसा स्नानजलेन, दलितं विनाशितं, यादवानां यदुवंशग्रभवाणां क्षत्रियाणां, दुष्कष्टं येनं तथाभूतम्, शरणीकरोमि तत्प्रसादत एव ममातिगम्भीरनयरहस्याविभूतिरतस्तं प्रणतोऽस्मीति ॥ ५२ ।।
त्रिपञ्चाशत्तमपद्यमवतारयति-एवमिति-अनन्तरदर्शितप्रकारणेत्यर्थः । विवृणोति- उक्ता इतीति । श्लोकोऽयं स्फुटार्थत्वान्न व्याख्यानमहतीत्याह- स्पष्टोऽयमिति । नवरं केदलम् । प्रदेश प्रस्थक-वसतीनां निदर्शनानां बहुत्वान्निदर्शनेभ्य इति बहुवचने प्रयोक्तव्ये निदर्शनादित्येकवचनं यदुक्तं तनात्यपेक्ष या, व्यक्त्यपेक्षया तु बहुवचनेनैव भवितव्यम् , ततश्च योऽर्थो भवति तमुपदर्शयति-निदर्शनादितीति ॥ ५३ ॥ ___ चतुष्पञ्चाशत्तमपद्यमवतारयति-तत्रेति-तेषु प्रदेश-प्रस्थक-वसतिदृष्टान्तेषु मध्य इत्यर्थः । विवृणोति-धर्मत्यादीति । तहेशस्य धर्मास्तिकायादिदेशस्य ॥ ५४ ॥
देशस्य देशिनोऽभिन्नत्वाद् धर्मास्तिकायादिपञ्चानां प्रदेश इति सहाभिमतोपदर्शकं "दासन" इत्यादिपञ्चपञ्चाशत्तमपद्यं विवृणोति-दासेनेतीति । धर्मास्तिकायादिषणां प्रदेश इति नैगमोऽभ्युपगच्छति, सङ्ग्रहस्तु देशदेशिनोरभेदा. श्रयणात् षण्णां पञ्चसु सङ्ग्रहात् पञ्चानां प्रदेश इत्यभ्युपैति, षण्णा पञ्चसु यत् सङ्ग्रहणं तत एवैतद्विषयेऽन्वर्थत्वं तत्प्रतिपादकसमवचनस्येत्याह-पण्णां भेदानामिति । अत्र प्रदेशाभ्युपगमे । दासेनेत्यादिन्यायार्थ सङ्गमयति-क्रयजन्य मिति । परम्परासम्बन्धेन स्वाश्रयदासस्वामित्वसम्बन्धेन, परम्परासम्बन्धेन स्वाश्रयदेशसम्बन्धित्वसम्बन्धेन, तद्घटकसम्बन्धश्च तादात्म्यम् । सङ्ग्रहनयमते घण्णां प्रदेश इति यन्न भवति तत्र देशिनोऽन्वययोग्ये निराकानक्षत्वाद्देशानां नान्वय इति नियमादेव, यथा पञ्चानां वृक्षाणामन्वययोग्यायां छायायां निराकइक्षत्वान्न वृक्षदेशान्वय इति पञ्चानां वृक्षाणां तद्देशस्य च छायेति न भवतीत्येवं मन्यमानानामन्याचार्याणां मतमुपदर्शयति-पञ्चानां वृक्षाणामिति । सङहनयमतेन