________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः ।
चिन्ता, साच केन सहाव्यवधानं गवेषयेत ? स्वरूपं तु प्रसिद्ध्यनुरोधेन संसारिण्येव पर्यवसाययेत्, न तु सिद्ध इति महान् विशेषः । स्यादेतत्, धर्मपदेऽपि धात्वर्थो धारणसामान्यमेव, तच्च यथा विशेषतात्पर्यवशात् सिद्धिधारणरूपविशेषे पर्यवस्यति, तथा जीवपदार्थोऽपि विशेषे पर्यवस्यन् सिद्ध एव दत्तपदो भविष्यति ? मैवम्- " जीव प्राणधारणे " इत्यत्र प्राणपदसम ( भि ) व्याहृतधारणस्य भूरिप्रयोगवशादौदयिकप्राणधारण एव पर्यवसानात्, अत एव गोपदस्य नानार्थत्वेऽपि ततो भूरिप्रयोगवशात् सास्नादिमत एवोपस्थितिः, अश्वादेस्तु पदान्तरसमभिव्याहारादिनेति तु तान्त्रिकाः । तदेवमेवम्भूतनयाभिप्रायेण सिद्धो न जीव इति व्यवस्थापितम् । यदि पुनः प्रस्थकन्यायाद् विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तवमन्धगाथा व्याख्यायते परैः, तदा न किश्विदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षोदेन ? ॥ ५२ ॥
ऐन्द्री ततिः प्रणयपुण्यमिवाङ्कुरायैर्यत्पादपद्मकिरणैः कलयत्युदी (f) तम् । स्वात्राम्भसा दलितयादवदुष्टकष्टुं शङ्खेश्वरं प्रभुमिमं शरणीकरोमि ॥ १ ॥ एवं सामान्यतः सप्तानामपि नयानामर्थानुक्त्वा ततः शुद्ध्यशुद्धिज्ञानोपायं वक्तुं प्रक्रमते
२१३
सर्वदा विद्यत इति तद्धारणमात्मनि धर्मपदार्थ इति । इह तु जीवपदार्थे पुनः 'धातुगा' इति मूलस्य विवरणम् -- धात्वर्थावच्छिन्नस्वरूपविषयिणीति- जीवधात्वर्थो यः प्राणधारणलक्षणस्तदवच्छिन्नं यदात्मस्वरूपं तद्विषयिणीत्यर्थः । सा च धात्वर्थ विच्छिन्नस्वरूपविषयिणी चिन्ता पुनः । केन सहेति - फलस्य कारणप्रभवत्वेन कारणस्य फलसाधनत्वेन तयोरव्यवधानस्यावश्यम्भावेन तत्रैकस्यापरेण सहाव्यवधानचिन्तासम्भवेऽपि प्रकृते चिन्ताविषयस्य धात्वर्थस्वरूपावच्छिन्नस्य फलसाधनभावेन चिन्ताया अविषयत्वेन केनापि सदाव्यवधानाकाङ्क्षाया अनुदयेन व्यवधानगवेषणाया अप्रसरादित्यर्थः । स्वरूपं त्विति जीवधात्वर्थस्वरूपं पुनः, "जीव प्राणधारणे" इत्यत्र प्राणशब्दस्य सामान्यतः प्राणवचनत्वेऽपि लौकिकपरीक्षकाणामविगानेन द्रव्यप्राणवाचित्वेन प्रसिद्धतया तदनुरोधेन द्रव्यप्राणधारणलक्षणं तत् संसारमात्रगतं न तु सिद्धगतमित्यर्थः । इति एवं स्वरूपो धर्मशब्द- जीवशब्दयोर्महान् विशेषः । अत्र परः शङ्कते - स्या देतदिति । तच धारणसामान्यं च अन्यत् सुगमम् । समाधत्ते - मैवमिति । अत एव सामान्यस्य यत्किञ्चिद्विशेषस्वरूपमादाय पर्यवसानसम्भवेऽपि सामान्यवाचिशब्दस्य यस्मिन्नेव विशेष भूरिप्रयोगस्तं विशेषमुपादायैव सामान्यस्य पर्यवसानमित्यस्य युक्तत्वादेव । नानार्थत्वेऽपि किरण- वाणीप्रभृत्यनेकार्थवाचकत्वेऽपि । ततः गोपदात् । अश्वादेस्त्विति - गच्छतीति गौरिति व्युत्पत्तिलभ्यगमनकर्तृत्वस्याश्वादौ सत्वेऽपि सद्वाचकाश्वादिपदासमभिव्याहृत गोपदान्नाश्वादेरुपस्थितिः किन्तु सास्नादिमत एवोपस्थितिः, अश्वादिपदसमभिव्याहृतगोपदात् पुनरश्वादेरुपस्थितिरित्येवं तान्त्रिका आमनन्तीत्यर्थः । उपसंहरति- तदेवमिति । प्रस्थकन्यायात् प्रस्थक वसतिप्रदेशादिकं समाश्रित्य नैगमादिनयमननभेदोपपादकयुक्तेः । प्रागुक्तग्रन्थगाथा “तिकाले च" इति गाथा । परैः दिगम्बरैः । अस्माकं श्वेताम्बराणाम् ॥ ५२ ॥
इत्थं नयार्थमननं मम जिनप्रवरश्रीशङ्खश्वरभक्तिभरादेवेत्यवेदयितुं ग्रन्थमध्यमङ्गलस्वरूपां श्रीशतेश्वरप्रभुस्तुतिं प्रश्नाति - ऐन्द्री ततिरिति - अङ्कुरायैरिव यत्पादपद्मकिरणैरुदितं प्रणयपुण्यमैन्दी ततिः कलयति, तच्छब्दस्य यच्छन्दश्रुतिबलादायातत्वेन तमिमं स्नात्राऽम्भसा दलितयादवदुष्टकष्टं शङ्खेश्वरं शरणीकरोमीत्यन्वयः । ऐन्द्री इन्द्रम्बन्धिनी ततिः- पङ्क्तिः, इन्द्रसमूह इति वक्तव्ये ऐन्द्री ततिरिति यदुक्तं तेन 'ऐ' इति सरस्वतीमन्त्रस्य स्वगतक विश्ववित्वाबन्ध्यकारणस्य मङ्गलतयाऽवस्थानमादृतमिति । यत्वादेति यस्य भगवतः श्रीशङ्खेश्वरस्य पादाविव पद्मं तस्य किरणैस्तत्र नम्रीभूते शिरसि पतितैः, अङ्कुरायैरिव क्षेत्र-भू-रेण्वाच्छादितबीजाङ्कुरस्योपरि किञ्चिद्दश्यमानाप्रभाग सदृशैः, प्रणयपुण्यं भक्तिभररचितप्रणतिप्रभवपुण्यम्, उदितम् ( उदीर्णम्) उदयमागतं फलप्रदानाभिमुखमिति यावत्, कलयति जानीते, तमिमं