________________
२१२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतो नयोपदेशः ।
नैवम्भूताभिधानपूर्वमेवाभिधानं युक्तम्, अन्यथाऽप्राप्तकालवप्रसङ्गात् , तस्मात् व्यवहाराद्यभिमत. व्युत्पत्त्यनुरोधेनौदयिकभावमात्रग्राहकत्वमेवास्य सूरिभिरुक्तं युक्तमिति स्मर्त्तव्यम् । न चेन्द्रियरूपप्राणानां क्षायोपशमिकत्वात् कथमेवम्भूतस्यौदायिकभावमात्रप्राहकत्वमित्यप्याशङ्कनीयम् , प्राधान्येनायुःकर्मोदय. लक्षणस्यैव जीवनार्थस्य ग्रहात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवनिश्चयादिति दिक् ।। ५१ ॥ शङ्काशेषमुपन्यस्य परिहरति
शैलेश्यन्त्यक्षणे धम्मों, यथा सिद्धस्तथाऽसुमान् ।
वाच्यं नेत्यपि यत् तत्र, फले चिन्तेह धातुगा ॥ ५२ ॥ नयामृत-शैलेश्यन्त्यलक्षण इति । शैलेश्या-अयोगिगुणस्थानस्य, अन्त्यक्षणे-चरमक्षणे, यथा निश्चयतो धर्मः, तदक्तिनकालभावी तु व्यवहारत एव, तदुक्तं धर्मसङ्ग्रहण्या हरिभद्राचार्य:"सो उभयक्खयहेज सेलेसीचरमसमयभावी जो। सेसो पुण णिच्छयओ तस्सेव पसाहगो नेओ ॥२६॥" ___ तथाऽसुमान्- जीवोऽपि निश्वयतः सिद्ध एव भविष्यतीत्यपि न वाच्यम् , यतस्तत्र- ' सो उभयक्खयहेऊ' इति गाथायाम् , धारयति सिद्धिगतावात्मानमिति धर्म इति फले-फलरूपे धात्वर्थे चिन्ता, सा च कुर्वद्रूपत्वेन कारणत्वं वदत एवम्भूतनयस्य मते शैलेश्यन्त्यक्षण एव धर्मपदार्थसिद्धिसाक्षिणी, तदनन्तरं सिद्धिसाधारणरूपा सा फलाऽव्यवधानात् , इह तु धातुगा- धात्वर्थावच्छिन्नस्वरूपविषयिणी
स्वरूपनिश्चयनयस्य । प्राक्तनेति-आयुरादिद्रव्यप्राणधारणलक्षणजीवनरूपजीवधातुव्युत्पत्तिनिमित्तावच्छिन्ने जीवपदसङ्केतग्राहिणो व्यवहारनयोपजीव्येवम्भूतस्वरूपनिश्चयस्य यदभिधानं तत् पूर्व यस्येति बहुव्रोहिणा 'निरूकाभिधानपूर्वम्' इत्यस्य 'निरुकाभिधानपूर्वकम्' इत्यर्थः, ततश्च निरुक्ताभिधानानन्तरमेव सिद्ध एव चैतन्यद्वयलक्षणभावप्राणधारित्वाजीवपद व्यपदेश्य इत्यभिधानं युक्तमित्यर्थः । अन्यथा व्यवहारनयाभिधानानन्तरं व्यवहारोपजीविनिश्चयाभिधानमकृत्वैव निश्चयोपजीविनिश्चयाभिधाने । अप्राप्तकालत्वप्रसङ्गात् व्यवहारनयानन्तरव्यवहारोपजीविनिश्चयाभिधानोत्तरकालो निश्चयोपनोविनिश्चयाभिधानकालः, न तु व्यवहाराभिधानाव्यवहितोत्तरकालस्तस्य काल इति अप्राप्तः कालो यस्य सोऽप्राप्तकालस्तस्य भावोऽप्राप्तकालत्वं तस्य प्रसङ्गादित्यर्थः । उपसंहरति तस्मादिति-अप्राप्तकालत्वप्रसङ्गभयादित्यर्थः । अस्य एवम्भूतनयस्य । न च ' इत्यस्य । 'आशङ्कनीयम्' इत्यनेनान्वयः। निषेधे हेतुमाह-प्राधान्येनेति । शङ्का-प्रति विधानयोरौँ सुखावबोधौ ॥ ५१ ॥
द्विपञ्चाशत्तमपद्यमवतारयति-शङ्काशेषमिति-दिगम्बराशङ्काऽवशिष्टभागमित्यर्थः । विवृणोति- शैलेश्यलक्षण इतीति । धर्म इति-धारणाद् धर्म इति व्युत्पत्त्या धारणलक्षणो धर्मपदार्थो निश्चयनयतो यथा शैलेश्यन्त्यक्षणे इत्यर्थः । तदर्वाक्तनकालभावी तु शैलेश्यन्त्यक्षणप्राक्तनकालभाची धर्मपदार्थस्तु । व्यवहारत एव व्यवहारनयत एव, एवकारेण तस्य निश्चयनयसम्मतत्वस्य व्यवच्छेदः । उक्ताथै हरिभद्रसूरिवचनं पराभिप्रेतप्रमाणतयोपदर्शयत्ति-तदुक्तमिति । सो० इति-"स उभयक्षयहेतुः शैलेशीचरमसमयभावी यः। शेषः पुनर्निश्चयतः तस्यैव प्रसाधको ज्ञेयः" ॥ इति संस्कृतम् । 'तत्र' इति मूलस्य विवरणम्- "सो उभयक्खयहेऊ" इति गाथायाम् इति । 'फले' इति मूलस्य 'फल रूपे धात्वर्थे' इति विवरणम् । सा च निरुक्तचिन्ता पुनः, अस्य 'साक्षिणी' इत्यनेनान्वयः। धर्मपदार्थसिद्धिसाक्षिणी सिद्धिगतावात्मानं धारयतीति व्युत्पत्त्या धर्मपदार्थः सिद्धिस्तस्यां साक्षिणी। तदनन्तरं शैलेश्यन्त्यक्षणानन्तरम् । 'सिद्धिसाधारणरूपा' इति स्थाने 'सिद्धिधारणरूपा' इति पाठः सम्यग् , धारयति धर्म इति, सिद्धिं धारयतीति व्युत्पत्तिपर्यवसायिनी चिन्ता । फलाम्यवधानात् सिद्धिरूपफलेन सह व्यवधानाभावात् , शैलेश्यन्त्यक्षणानन्तरं सिद्धिरूपफलं