________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
२११
ननु “जीव प्राणधारणे” इत्यत्र भावप्राणधारणमेव धात्वर्थ विवक्षितत्वा( विवक्षित्वा ) निश्चयतः सिद्धस्य जीवत्वं समर्थयिष्याम इत्याकालायामाह -
धात्वर्थे भावनिक्षेपात्, परोक्तं न च युक्तिमत् ।
प्रसिद्धार्थोंपरोधेन, यनयान्तरमार्गणा ॥ ५१ ॥ नयामृत०-धात्वर्थे इति । धात्वर्थे- जीवत्यर्थे, भावनिक्षेपात्- भाव सङ्केतग्रहात्, परोक्तं' निश्चयतः सिद्ध एव जीवः' इति दिगम्बरोक्तम्, न च- नैव युक्तिमत् , यत्- यस्मात् , प्रसिद्धःअनादिधातुपाठादिप्रतीयमानो योऽर्थः, तदनुरोधेन नयान्तरस्य मार्गणा-विचारणा भवति, तथा च यादृशधात्वर्थमुपलक्षणीकृत्येतरनयार्थप्रतिसन्धानं तादृशधात्वर्थप्रकारकजिज्ञासयैवम्भूताभिधानस्य साम्प्र. दायिकत्वात् , न तत्र भावनिक्षेपाश्रयणमित्यर्थः, अन्यथा तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात् , प्रकृतमात्रापर्यवसानादन्ततो ज्ञानाद्वैते शून्यतायां वा पर्यवसानात् , किञ्च, ताहगुपरितनैवम्भूतस्य प्राक्तरत्नावाप्तये तत्तात्पर्यावधारणलक्षमवगाहनम् , तदेव व्यसनं तच्छालिन प्रमातृणाम् , नयविकल्पकल्लोलवैचित्र्यं प्रमोदावहमेव, न विक्षोभावहं न चित्तवैकल्यावहमित्यर्थः॥५०॥
एकपञ्चाशत्तमपद्यमवतारयति- नन्विति । “जीव प्राणधारणे" इत्यत्र निश्चयनयेन प्राणशब्दो भावप्राणपर एवं भावप्राणाश्च ज्ञान-दर्शनलक्षणचैतन्यद्वयमेव, तद्वत्त्वात् सिद्धस्यैव जीवत्वं वयं दिगम्बरा समर्थयिष्याम इत्या काङ्खायामेक पञ्चाशत्तमपद्यं तदुत्तरप्रदर्शकमाहेत्यर्थः । विवृणोति-धात्वर्थे इतीति । यादृशेति - प्रकृते जीवधात्वर्थजीवनलक्षणद्रव्यप्राणधारणमुपलक्षणीकृत्य नैगमनयाभिमतात्मत्वविशिष्टरूपजीवशब्दार्थप्रतिसन्धानं-- जीवनलक्षणद्रव्यप्राणधारणरूपव्युत्पत्तिनिमिसोपलक्षितात्मत्वरूपपारिणामिकभावविशिष्ट जीवशब्दसङ्केतग्रहणात्मकं समस्तीति निरुकजीवनरूपजीवधात्वर्थप्रकारकजिज्ञासयैः वम्भूतनयाभिधानस्य-'एवम्भूतनयेन निरुक्तजीवनरूपधात्वर्थविशिष्टो जीवपदव्यपदेश्यः' इत्यभिधानस्य साम्प्रदायिकस्वात् जैनागमरहस्यवेत्तप्राचीनसम्मतत्वान्न तत्र जीवत्यर्थे प्राणधारणे भावनिक्षेपस्य-'प्राणशब्दो भावप्राणसङ्केतितः' इत्यस्याश्रयणमिति 'प्रसिद्धार्थोपरोधेन यनयान्तरमार्गणा ' इत्यस्याभिप्रेयोऽर्थ इत्यर्थः । अन्यथा प्रसिद्धार्थानु. परोधेन नयान्तरविचारणया धात्वर्थे भावनिक्षेपाश्रयणे। तत्रापि भावनिक्षेपाश्रयणतो लब्धे चैतन्यद्यरूपभावप्राणधारणरूपजीवधात्वर्थेऽपि । निक्षेपान्तराश्रयणे साकार-निराकारोपयोगात्मकचैतन्यद्वयमपि न वस्तुतो भावप्राणस्वरूपं साकारत्वनिराकारत्व-द्विस्वादीनां तत्र कल्पितत्वात् , किन्तु चैतन्यमानं भावप्राणसङ्केतितमित्येवं निक्षेपान्तराश्रयणे सति । अमवस्थानात् तत्रापि निक्षेपान्तराश्रयणतो विश्रान्त्यसम्भवात् । एवं च प्रकृतमात्रापर्यवलानात् द्विचेतना. शालिस्वानिश्चयतः सिदो जीव- इति प्रकृतस्यात्र प्रक्रान्तस्यान्यत्रान्यस्य प्रकान्तस्येत्येवं प्रकृतमात्रस्यापर्यवसानाद् धात्वर्यत्वपर्थवमानासम्भवात् , तथा च सति सत्यत्वाऽऽनन्दत्वादिकमपि तत्र न स्यादित्यतो ज्ञानाद्वते ज्ञानाद्वैतमपि विषयान्तराभावे निर्विषयं न सम्भवतीति शुन्यतायां वा निश्चयनयतो जीवपदव्यपदेश्यत्वस्य पर्यवसानाद् व्यवस्थिते: शून्यत्वमेव तत्त्वं जीवव्यपदेश्यं स्यादित्यर्थः । अपि चैवम्भूतात्मकनिश्चयन यो द्विविधो व्यवहारानुरोधी निश्चयानुरोधी च, तत्र व्यवहारायभिमतधातुव्युत्पत्तिं समाश्रित्य तादृशव्युत्पत्तिनिमित्तमेव शब्दप्रवृत्तिनिमित्तमुपजीवन् धातुव्युत्पत्तिनिमित्तावच्छिन्नार्थे सखेतमाही निश्चयः प्रथमः, व्यवहारनयाभिमतपदार्थाभिधानानन्तरं व्यवहारनयोपजीविनोऽस्यैव निश्चयनयस्याभिमतपदार्थाभिधानमुचितं तदनन्तरं चोक्तनिश्चयाभिमतधातुव्युत्पत्तिनिमित्त भावकनि विशेषमादृत्य तादृशविशेषात्मकधातुब्युत्पत्तिनिमित्तावच्छिन्नपदार्थसङ्केतग्राही यो निश्चयोपजीवी द्वितीयो निश्चयस्तदभिमतपदार्थाभिधानमुचितमित्ययं पदार्थाभिधानक्रमः, तस्य व्यवहारनयाभिमसजीवपदार्थाभिधानानन्तरं निश्चयोपजीविनिश्चयात्मकद्वितीयनिश्चयाभिमतजीवपदार्थाभिधानं कुर्वता दिगम्बरेणातिक्रमः कृत इति सम्प्रदायाभिमतकमोल्लङ्क्षि दिगम्बरमतं न युक्तमित्याह-किञ्चति । पतागुपरितनवम्भूतस्य धात्वर्थे भावनिक्षेपाजीवपदार्थ चैतन्यद्वयस्वरूपभावप्राणधारणलक्षणजीवनमुररीकुर्वत एवम्भूत