________________
नयामृततरङ्गिणी-तरक्रिणीतरणिभ्यां समलतो नयोपदेशः ।
-
-
-
नन्वेवं निश्चयत: सिद्धस्याजीवत्वे भवद्भिरिष्यमाणे भवतामेव अन्थे संसारिसिद्धसाधारणजीवपदार्थाभिधानं कथम् ? इत्याशङ्कायामाह ।
यजीवत्वं क्वचिद् द्रव्य-भावप्राणान्वयात् स्मृतम् ।
विचित्रनैगमाकूतात् तज्ज्ञेयं न तु निश्चयात् ॥ ५० ॥ नयामृत०-यदिति । यजीवत्वं कचिद् अन्थे, द्रव्यभावप्राणानाम् अन्वयात्-एकीकरणात् स्मृतं संसारि-सिद्धसाधारण्यमिति शेषः, तद् विचित्र:-विविधावस्थो यो नैगमः, तस्याकूतात्-अभिप्रायात् ज्ञेयम् , न तु निश्चयादेवम्भूतनयात् , तथा चैवम्भूतनयेनैव सिद्धमजीवं वयं प्रतिजानीमहे, न तु नयान्तराभिमते न जीवत्वेऽपि विप्रतिपद्यामहे, इति शुद्धा-ऽशुद्धेन नैगमनयेन साधारणजीवत्वाभ्युपगमेऽपि न क्षतिः, इयाँस्तु विशेष:- प्रसिद्धनैगम औदायिकभावोपलक्षितमात्मत्वाख्यं पारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपैति, तत्तद्विशेषश्च कश्चिदुपचारोपजीवी द्रव्य-भावप्राणान्यतरवक्त्वेनानुगतमौदयिकक्षायिकभावद्वयमिति, नेदं सिद्धान्तार्णवे नयविकल्पकल्लोलवैचित्र्यं तस्संप्लवव्यसनिनां विक्षोभावहम् ॥ ५० ॥
सेति सङ्ग्रहस्य शक्तिग्राहकत्वमेव न व्यक्तिग्राहकत्वम्, व्यक्तिग्राहकत्वं तु व्यवहारस्यैव, तथा च व्यक्तया शुद्धचैतन्य यदि सिद्ध जीवपदप्रवृत्तिनिमित्तं तदा व्यवहारत एक सिद्धो जीवो न निश्चयत इत्यन भिमतमेव दिगम्बरस्यासज्य इत्युत्तराभिसन्धिः । एवं ज्ञानदर्शनयोयोगपद्याभाबन सिद्धेऽपि यदा ज्ञानमभिव्यज्यते तदा न दर्शनमभिव्यज्यते. यदा दर्शनमभिव्यज्यते तदा न ज्ञानमभिव्यज्यत इति व्यक्तथा द्विचेतनाशालित्वं न सिद्धेऽपीति सिद्धोऽपि न निश्चयतो जीवः स्यादिति सिद्धस्य द्विवेतनाश लित्वेन जीवत्वं निश्चयनयत इत्यपि दिगम्बरस्य व्याहतमेवेत्याह-निश्चयत इति ॥ ४९ ॥
पञ्चाशत्तमपद्यमवतारयति-नन्वेवमिति । एवम् अनन्तरोपदर्शितदिशा । भवद्भिः श्वेताम्बरैः । भवतामेव श्वेताम्बराणामेव । “यजीवत्वं" इति पञ्चाशत्तमपद्य विवृणोति-यदितीति । एकीकरणात प्राणधारित्वं जीवत्वमिति लक्षणे द्रव्यप्राण-भावप्राण साधारणप्राणत्वेन रूपेणानुगमध्य दव्यप्राणभावप्राणयोरुपादानात् । 'संसारि-सिद्धलाधा. रण्यम' इत्यस्य स्थाने 'संसारि-सिद्धसाधारणम्' इति पाटो युक्तः, तथा सत्येव तस्य 'जीवत्वम्' इत्यनेनाभेदेनान्वयो घटते। तथा च सिद्ध-संसारिसाधारणजीवत्वाभिधानस्य विचित्रनगमाकूतप्रयुक्तत्वव्यवस्थितौ च । वयं श्वेताम्बराः । 'नयान्तराभिमतेन' इत्यस्य स्थाने 'नयान्तराभिमते' इति पाठः सम्यग् , तथा च नयान्तराभिमते नैगमनयाभिमते, जीवत्वेऽपि सिद्ध-संसारिसाधारणजीवत्वेऽपि, न तु नैव, विप्रतिपद्यामहे विवादमातिष्ठामहे इत्यर्थः । इति एतस्मात् कारणात् । शुद्धाशुद्धन नैगमनयः परसङ्ग्रहसमानाभिप्रायः शुद्धद्रव्यं विषयीकरोतीति शुद्धः, अशुद्धद्रव्यमाहिव्यवहारसमानाभिप्रायस्त्वशुद्धमपि द्रव्यं विषयीकरोतीत्यशुद्ध इति कृत्वा शुद्धाशुद्धेन । साधारणेति- सिद्ध जीवसाधारणेत्यर्थः । न क्षतिः न कचिदस्मदभियुक्तनिर्मितग्रन्थे सिद्ध-संसारिसाधारणजीवत्वप्रतिपादके सत्यपि श्वेताम्बराणामस्माकमेवम्भूतनयसिद्धस्या जीवत्वं स्वीकुर्वतां हानिः । नैगमन यवैचित्र्यं तदवान्तराभिप्रायवैचित्र्योपदर्शनेन समर्थयति-इयाँस्त्विति ।
औदयिकभावोपलक्षितं जीवपदव्युत्पत्तिनिमित्त जोवनलक्षणोदयिकभावोपलक्षितम् । 'तत्तद्विशेषश्च' इति स्थाने 'तद्विशेषश्च' इति पाठः सम्यग, नैगमविशेषश्चेति तदर्थः । 'भावद्वयम्' इत्यस्यानन्तरं 'जीवपदप्रवृसिनिमित्तमभ्यु. पैति' इत्यनुष ज्यते । 'नेदम्' इत्यत्र नजो 'विक्षोभावहम्' इत्यनेनान्वयः । इदम् अनन्तरमेवोपर्णितं नयाभिप्रायवैचित्र्यम् । अस्यैव शिष्यबुद्धिवेशद्यायोपवर्णनम्-सिद्धान्तार्णवे नयविकल्पकल्लोलवैचित्र्यमिति-सिद्धान्त एव-जैनागम एव, अर्णवः- समुदः, तत्र नयस्य - वस्त्वंशग्राह्यभिप्राय स्य, यो विकलर:- गमादिप्रकारः, स एव कल्लोल:- तरङ्गः, तस्य वैचित्र्यं नानाप्रभेदस्तदेतत् , तत्संहवव्यसनिनां तम्मिन्- निरुक्तसिद्धान्तसमुदे, संत्रः-मुहुर्मुहुम्तदन्तर्निविष्टतत्त्वज्ञान.