________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
२०७
'अ मा नो ना प्रतिषेधे' इत्यनुशासनतौल्येऽपि संसर्गाभावोऽन्योन्याभावश्च नमोऽर्थः, नोशब्दस्य त्वभाव एकदेशो वा, तत्र चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं तदेकदेशत्वादि व्युत्पत्तिबललभ्यमिति सिद्धान्तपरिभाषेति निगर्वः ॥ ४४ ॥ उक्तं मतं कियतां नयनामित्याह
नैगमो देशसङ्ग्राही, व्यवहारर्जुसूत्रको ।
शब्दः समभिरूढ-श्चेत्येवमेते प्रचक्षते ॥ ४५ ॥ नयामृत-नैगम इति । नैगमो- नैगमनयः, देशसङ्ग्राही- अवान्तरसङ्ग्रहः, सर्वसङ्ग्रहस्य सन्मात्रार्थत्वात् तत्त्यागः, व्यवहारर्जुसूत्रकौ- व्यवहारनय ऋजुसूत्रनयश्च, शब्दः समभिरूढश्चेत्येते नया एवं प्रचक्षते ॥ ४५ ॥
भावमौदयिकं गृह्णन् , एवम्भूतो भवस्थितम् ।
जीवं प्रवक्त्यजीवं तु, सिद्धं वा पुद्गलादिकम् ॥ ४६ ॥ नयामृत-भावमिति । एवम्भूतनयस्तु औदयिक भावं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्ततया गृहन् , भवस्थितं- संसारिणं जीवम् , प्रवक्ति- जीवशब्देन व्यपदिशति, अजीवम्- अजीवपदार्थ तु सिद्धं . वा पुद्गलादि द्रव्यं वेच्छत्यसौ ।। ४६ ॥
चतुणमिपि अमानोनाशब्दानामविशेषेण सामान्यतः प्रतिषेधार्थकत्वमनुशास्तीत्येवं निरुक्तानुशासनस्याविशिष्टत्वेऽपीत्यर्थः । नमोऽर्थः अजीवशब्दसनिविष्टन कारस्थानीयाकारस्यार्थः । ‘नोशब्दस्य' अजीवशब्दाव्यवहितपूर्व तत्र च नोशब्दार्थे अभावे एकदेशे च । अन्वयितेति- यदा अभावो नौशब्दार्थस्तदा अन्वयितावच्छेदकं यजोवत्वावच्छिन्नप्रतियोगिताकभेदरूपमजीवत्वं तदवच्छिन्नप्रतियोगिताकत्वमभावे व्युत्पत्तिविशेषबललभ्यम् , यदा तु नोशब्दस्यैकदेशोऽर्थस्तदाऽन्वयितावच्छेदकं यनिरुक्तमजीवत्वं तदवच्छिन्नैकदेशत्वं तदवच्छिन्न प्रदेशत्वं वा व्युत्पत्तिविशेष बललभ्यमिति
सद्धान्तसंकेत इति तदभिज्ञस्य नोअजीवपदव्यपदेश्य उक्तदिशा जीवो वा अजीवदेशो वा अजीवप्रदेशो वा सम्भवतीति भावार्थ इत्यर्थः ॥ ४४ ॥
पञ्च चत्वारिंशत्तमपद्यमवतारयति - उक्तं मतमिति- 'जीवः' इत्याकारिते पञ्चस्वपि गतिषु औदयिकादिभावपञ्चकलक्षितो जीवो जीवपदव्यपदेश्यः प्रतीयते, अजीवपदाच पुदलप्रमृत्यजीवद्रव्यं प्रतीयते, नोजीवपदादजीवो जीवदेशो जीवप्रदेशो वा प्रतीयते. नोअजीवपदाच जीवो अजीवदेशोऽजीवप्रदेशो का प्रतीयत इत्येवमपदर्शितमतं क्रियतां नयाना निवृत्तये वक्तीत्यर्थः ।
" नैगमो देशसङ्ग्राही" इति पञ्चचत्वारिंशत्तमपद्यं विवृणोति- नैगम इतीति । अवान्तरसङ्गहः महासामान्यसत्ताव्याप्यद्रव्यत्वादिरूपेण सकलद्रव्यादीनामैक्याभ्युपगन्ताऽपरसङ्ग्रहः । सदेवैकमिति महासामान्यसत्तारूपेण सर्ववस्तूनामैक्ययमेवत्यभ्युपगन्तृपरसङ्ग्रहस्तु सन्मात्रग्राहित्वात् प्रत्येक जीवाजीवादि वस्तु तदर्थकजीवाऽजीवादिशब्दं च नानीकरोती त्यतस्तत्परित्याग इत्याह- सर्वसङ्ग्रहस्येति । तस्यागः सर्वसङ्ग्रहत्यागः । अन्यत् स्पष्टम् ॥ ४५ ॥
एवम्भूतनयवक्तव्यप्रतिपादकं षट्चत्वारिंशत्तमं "भावमौदयिकं गृह्णन्" इति पयं विवृणोति-भावमितीति । असौ एवम्भूतनयः । अन्यत् सुगमम् ॥ ४६ ॥