________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलईतो नयोपदेशः ।
नोअजीवश्च नोजीवो, न जीवा-ऽजीवयोः पृथकू ।
देश-प्रदेशौ नास्येष्टा-विति विस्तृतमाकरे ॥४७॥ नयामृत-नो इति । नोअजीवो नोजीवश्चैतन्नये जीवा-ऽजीवयोर्वक्तव्ययोः सतोः, पृथक् नपार्थक्यं नापद्यते, यतोऽस्य नयस्य देश-प्रदेशौ नेष्टाविति, नोशब्दः सर्वनिषेधार्थ एव घटते, इत्येतदाकरेअनुयोगद्वारादौ विस्तृतम् ।। ४७ ।। ___ इत्थं स्वसमयसिद्धामेवम्भूतनयार्थप्रक्रियामुपपाद्य तया दिगम्बरोक्तप्रक्रियां दूषयति
सिद्धो निश्चयतो जीव इत्युक्तं यद् दिगम्बरैः ।
निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्रथा॥ ४८॥ नयामृत-सिद्ध इति । एतेन-पूर्वोक्तेन, सिद्धो निश्चयतो जीव इति यद् दिगम्बरैरुक्तम्"तिकाले चदु पाणा इंदियबलमाउ आणपाणो य । ववहारा सो जीवो णिच्छयदो दु चेदणा जस्स ॥"
[ द्रव्यसंग्रहे गाथा-३ ] इत्यादिना तन्निराकृतम् , यत्-यस्मात् , अन्त्ये-एवम्भूतनये, अन्यथा प्रथा - सिद्धोऽजीव इत्येव प्रसिद्धिः, शुद्धनिश्चयश्च स एव, इति कथं निश्चयतः सिद्धो जीव इति वक्तुं शक्यमिति ॥ ४८ ।।
नन्वेवम्भूतः पर्यायार्थिकेष्वेव शुद्धनिश्चयस्तेनास्मदुक्तानुपपत्तावपि दव्यार्थिकप्रभेदेन सर्वसङ्ग्रहनयेन शुद्धनिश्चयेन तुदुपपादयिष्याम इत्याकाङ्क्षायामाह
आत्मत्वमेव जीवत्वमित्ययं सर्वसङ्गहः । जीवत्वे प्रतिभूः सिद्धसाधारण्यं निरस्य न ॥ ४९ ॥
जीवशब्दव्यपदेश्य एव नोअजीवशब्दव्यपदेश्यः अजीवशब्दव्यपदेश्य एव नोजीवशब्दव्यपदेश्य इति 'नोअजीवः' 'नोजीवः' इति द्वौ प्रकारौ नवम्भूतनयसम्मतावित्युपदर्शक सप्तचत्वारिंशत्तमं "नोअजीवश्च" इति पद्यं विवृणोतिनो इतीति । एतन्नये एवम्भूतनये । अस्य नयस्य एवम्भूतनयस्य । नोशब्दः 'नोअजीवः' इत्यत्र 'नोजीवः' इत्यत्र च नोशब्दः । अन्यत् स्पष्टम् ।। ४७ ॥
अष्टचत्वारिंशत्तम पद्यमवतारयति-इत्थमिति। स्वसमयसिद्धां जैन श्वेताम्बरसद्धान्त प्रसिद्धाम् । “सिद्धो निश्चयतः" इत्यष्टचत्वारिंशत्तमपद्य विवृणोति-सिद इतीति । एतेन इत्यस्य विवरणम् - पूर्वोक्तनेति- अस्य 'निरा. कृतम्' इत्यनेनान्वयः। 'निश्चयनयतः सिद्धो जीवः' इत्यस्य प्रतिपादकं दिगम्बरवचनमुल्लिखति-तिकाले चेति"त्रिकाले चत्वारः प्राणा इन्द्रियबलमायुरानप्राणश्च । व्यवहारतः स जीवो निश्चयतो वे चेतने यस्य" ।। इति संस्कृतम् । इत्यादिना इत्यादिग्रन्थेन, यद् दिगम्बरमतं तदेतेन निराकृतमिति सम्बन्धः। तत् दिगम्बरोकमनन्तरमुपदर्शितम् । निराकरणे हेतु:- यदिति- यस्मादिति तदर्थः। 'अन्त्ये' इति स्थाने 'अन्त्ये नये' इति पाठो युक्तः, तस्य विव रणम्-एवम्भूतनये इति । 'अन्यथा प्रथा' इति मूलस्य विवरणम् - सिद्धोऽजीव इत्येव प्रसिद्धिरिति । ननु निश्चयतः सिद्धो जीव इति दिगम्बरमतम् , तस्यैवम्भूननये अन्यथाप्रथायामपि कथं निरसनमित्यत आह-शुद्धनिश्चयश्च स पवेति- एवम्भूतनय एव शुद्धनिश्चयनयोऽतस्तत्रान्यथाप्रथाऽपहस्तयत्येवोक्तदिगम्बरोमित्यर्थः । इति एतस्मात् कारणात् । कथमिति- न कथमपि निश्चयतः सिद्धो जीव इति वक्तुं शक्यमित्यर्थः ॥४८॥