________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
२०५
तिर्यगू-नराऽ-मर-सिद्धिगतिलक्षणासु, हि-निश्रितम् , पञ्चभिर्भावैः- औदयिक क्षायिक-क्षायोपशमिकोपसमिक-पारिणामिकलक्षणैः, जीव इष्टः, व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपारि. णामिकभावविशिष्टस्य जीवस्य भावपञ्चकात्मनो जीवपदार्थत्वात् , न चात्मत्वप्रवृत्तिनिमित्तोपादानेनैवानतिप्रसङ्गे किं व्युत्पत्तिनिमित्तोपलक्षणग्रहणेन ? इति वाच्यम् , संभवति तदुपलक्षकभावे तत्त्यागस्यान्याय्यस्वात् , अन्यथा मण्डपा-ऽश्वकर्णादिपदतुल्यताप्रसङ्गादिति दिक् ॥ ४१ ।।
नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते ।
पुद्गलप्रभृति द्रव्यमजीव इति संज्ञितम् ॥ ४२ ॥ नयामृत०-नजीति । सर्वनिषेधार्थे- जीवत्वावच्छिन्नान्योन्याभाववदर्थे, नबि- विवक्षिते, विचारविषयीकृते' इति । 'सिद्धान्तिना' इत्यस्य 'इष्टः' इत्यनेनान्वयः । गतिमार्गणायां कस्यां गतौ केन भावेनालिङ्गितो जीव इष्ट इत्यन्वेषणायाम् । व्युत्पत्तीति-जीवपदव्युत्पत्तिनिमित्तो यो जीवनलक्षण:-प्राणधारणस्वरूप औदयिकभावस्तेनोपलक्षित:-प्रतियोगिव्यधिकरणतदभावासमानाधिकरणो यदा कदाचित्तेन सममेकाधिकरणवृत्तिर्य आत्मत्वरूपपारिणामिकमावस्तद्विशिष्टस्येत्यर्थः । भावपञ्चकात्मन: अनन्तरोपदर्शितौदयिकादिभावपञ्चकस्वरूपस्य, जैनराद्धान्त धर्मधर्मिणोः कवञ्चित्तादात्म्यमिति भावपञ्चकात्मकत्वं जीवस्य युज्यते, न च' इत्यस्य 'वाच्यम्' इत्यननान्वयः । आत्मत्वेति- आत्मत्वं यतोवपदस्य प्रवृत्तिनिमित्तं तदुपादानेनैव-तद्हणेनैव, अर्थादात्मत्वविशिष्टो जीवपदार्थ इत्युक्त्यैव । अनतिप्रसने आत्ममिन्ने घट-पटादिपदार्थ जीवपदार्थत्वप्रसङ्गाभावे। 'किम्' इति काकूरन किञ्चिद् व्युत्पत्तिनिमित्तोपलक्षणग्रहणेनेत्यर्थो लभ्यते, व्युत्पत्तिनिमित्त यजीवपदस्य जीवनं तदात्मकोपलक्षणग्रहणेन न किञ्चित् प्रयोजनमित्यर्थः। निषेधे हेतुमाह-संमवतीतिजीवनलक्षणं यदात्मत्वस्योपलक्षकं-ज्ञापकं तद्धावे संभवति सति, जीवनस्यात्मत्वोपलक्षकत्वे सम्भवतीति यावत् , जीवपदार्थस्वरूपव्यावर्णने तत्त्यागस्य जीवनलक्षणव्युत्पत्तिनिमित्तत्यागस्य । अन्याय्यात्वात् न्यायापेतत्वात्, यत्रार्थे व्युत्पत्तिनिमित्तधर्मो न घटते तत्र बाधात् तत्परित्यागस्य न्यायादनपेतत्वेऽपि जीवपदार्थ आत्मनि प्राणधारणस्वरूपजीवनस्य घटमानस्वात् तत्त्यागोऽनुचित इत्याशयः। अन्यथा व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तोपलक्षकभावे सम्भवत्यपि तत्परित्यागेन प्रवृ. त्तिनिमित्तविशिष्टस्यैव पदार्थत्वाभ्युपगमे । मण्डपति-मण्डपे-गृहविशेषे मण्डपानकर्तृत्वस्य बाधात् तत्परित्यागेन गेहत्व. व्याप्यमण्डपत्वविशिष्टस्य वाचकं यन्मण्डपपदम् , यच्चाश्वस्य पशुविशेषस्य कर्णोऽश्वकर्ण इति व्युत्पत्तिनिमित्तमश्वसम्बन्धि कर्णत्वं तस्यौषधिविशेष बाधात् तत्परित्यागेनौषधित्वव्याप्याऽश्वकर्णत्वविशिष्टस्य वाचकं यदश्वकर्णपदम्, तदादितुल्यत्वस्य जीवपदे प्रसादित्यर्थः । एतेनात्मा पञ्चस्वपि गतिषु वर्तमानो जीवपदार्थ इति भावितम् ॥ ११ ॥
अजीवपदार्थः क इत्यत्रोत्तरप्रतिपादक "नत्रि सर्वनिषेधार्थ'' इति द्विचत्वारिंशत्तमपद्यं विवृणोति-नभीतीति । "सर्वनिषेधार्थ इति मूलस्य विवरणम्-'जीवत्वावच्छिन्नान्योन्याभाववदर्थ' इति । नजि जीवो नेत्यजीव इति समस्तेऽजीवशब्दे अकारस्य नस्थानीयत्वेन तेन नम्पदमुपस्थाप्यते, तस्मिन् नम्मदे, यदि ना एव जीवत्वावच्छिन्नप्रतियोगिताकभेदवानथस्तदा जीवपदमनर्थकं प्रसज्यत इति न शङ्कनीयम् , यतो नजोऽन्योऽन्याभाव एवार्थः अन्योऽन्याभाववति तु तस्य लक्षणव, तदेकदेशेऽन्योऽन्याभावे जीवत्वविशिष्टस्य जीवपदार्थस्य प्रतियोगितासम्बन्धनान्वये जीवस्यापि स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वय इति तब्दलादेव जीवत्वावच्छिन्न प्रतियोगिताकमेदवानित्यर्थः, अथवा नमो लक्ष. णाया आवश्यकत्वे जीवत्वावाच्छिन्न प्रतियोगिताकभेदवत्येव तस्य लक्षणा, उक्तार्थे नअपदस्य तात्पर्यवाहकत्वाच्च जीवपदं सार्थकमिति । 'नमि' इत्यस्य संश्रिते' इत्यनेनान्वयं प्रतिसन्धाय 'विवक्षिते' इत्युक्तम् । 'पर्युदासे' इति मूलत्य विवरणम्-'साहश्ये' इति, 'पर्युदासः सहगूग्राही' इति वचनात् । तत्र जीवत्वावच्छिन्न प्रतियोगिताकान्योन्यामावति । 'संश्रिते' इति मूलस्य विवरणम् -'तात्पर्यविषयीकृते' इति, 'पुद्गलप्रभृति' इत्यस्य विवरणम्-पुद्लादिमिति, पदेनेति पूरणम् । सादृश्यार्थकस्य पर्युदासनः कथमा श्रयणमित्यपेक्षायामाह-पयुदासानाश्रयणे विति-भेदग्राहिनयेन द्रव्येण सह गुण-पर्याययोभैद इष्यते, अभेदप्राहि नयेन द्रव्येण सह गुण-पर्याययोरभेद इश्यते, इति नयद्वययोजनया स्वा