________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः। ___ तदेवं नयमतस्य विचित्रत्वात् प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूतनयप्रवृत्तिरिति व्यवस्थापितम् , एवं च सति यत् सिद्धं तदाह -
सिद्धो न तन्मते जीवः, प्रोक्तः सत्त्वादिसंइयपि । ____ महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः ॥ ४० ॥ नयामृत-सिद्ध इति । तन्मते- एवम्भूतनयमते, सत्त्वादिसंज्यपि- 'सत्तायोगात् सत्त्वः, अतति स्वान् पर्यायानित्यात्मा' इत्यादिसंज्ञाधार्यपि, सिद्धो महाभाध्ये- विशेषावश्यके, तत्स्वार्थमाध्ये च, धात्वर्थबाधतो- 'जीव प्राणधारणे' इति धात्वर्थानन्वयाज्जीवो न प्रोक्तः, तथा च विशेषावश्यकवचनम्- " एवं जीवं जीवो संसारी पाणधारणानुभवो। सिद्धो पुणो अजीवो जीवणपरिणामरहिउ ति" [विशेषावश्यकभाष्यगाथा-२२५६ ] ॥ ४०॥ एतदेव तत्वार्थवचनमनूध व्यवस्थापयति--
जीवोऽजीवश्च नोजीवो, नोअजीव इतीहिते ।
जीवः पञ्चस्वपि गतिविष्टो भावैर्हि पञ्चभिः ॥ ४१ ॥ नयामृत-जीव इति ! जीवोऽजीवो नोजीयो नोअजीवश्चेति चतुर्भिः समैः पदैः कोऽर्थः प्रतिपाय इसि ईहिते- प्रभयोग्यविचार विषयीकृते, सिद्धान्तिना गतिमार्गणायां पश्चस्वपि गतिषु-नारक
रूढिज्ञानस्य योगार्थभानप्रतिबन्धकत्वमिति मीमांसकमतमपि न युक्तम् , तथा सति पङ्कजपदजन्यशाब्दबोधे नियमतः पङ्कजनिकर्तरूपयोगार्थस्य भानं न स्यात् . 'स्याद् यौगिक एव शब्दः, स्याढ एवं शब्दः' इत्यादिसप्तभङ्गीलक्षण. स्यावादजन्यशाब्दबोधे तु कथञ्चिद्योगार्थ कथञ्चिद्रव्यर्थयोरुभयोरपि भानस्यानुभवसिद्धत्वादित्याह- एतेनेति-स्थाद्वादमहाराजस्य नयद्वययुद्धवारणसमर्थत्वेनेत्यर्थः, अस्य 'निरस्तः' इत्यनेनान्वयः । उपसंहरति- इतीति- एवंप्रकारेणेत्यर्थः, नययोजनयैव स्यात्पदलाञ्छितनयवाक्यघटितसप्तमङ्गीप्रवृत्तिलक्षणनययोजनयैद ॥ ३९ ॥ - चत्वारिंशत्तमपद्यमवतारयति- तदेवमिति । 'प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूत' इति स्याने प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भून' इति पाठो युक्तः, व्यवस्थापितमित्यन्तोक्तिः पूर्वपद्येन सहोत्तरपद्यस्य सङ्गतिप्रदर्शनार्था । एवं च सति प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूतनय प्रवृत्तिरित्यस्य व्यवस्थापने च सति । “सिद्धो न तम्मते जीवः" इति चत्वारिंशत्तमपद्यं विवृणोति-सिद्ध इतीति- सत्त्वादिसंश्यपि सिद्धो धात्वर्थबाधतस्तन्मते न जीव इति महाभाष्ये तत्वार्थभाध्ये चोक्त इत्यन्वयः। 'तन्मते' इत्यस्य एवम्भूतनयमते' इति विवरणम् , एवमग्रेऽपि मूलमुल्लिख्य विकृतम् । सत्त्वसंज्ञाधारी कथं सिद्ध इत्याकालानिवृत्तये उक्तम्- सत्तायोगादिति । 'सत्वादि' इत्यादिपदग्राह्यात्मसंज्ञाधारित्वप्रतिपत्तये अततीत्यादि तद्यत्पत्त्युपदर्शनम्, 'अतति स्वान् पर्यायान्' इत्यस्य स्थाने 'अतति ताँस्तान् पर्यायान्' इति पाठः सम्यग् , तौस्तान् पर्यायानिस्यस्य प्रसिद्धान् ज्ञान-दर्शन-सुखादिपर्यायानित्यर्थः, अततीत्यस्य गच्छतीत्यर्थः । सिद्धो जोवो न प्रोक्तः कुत्रेत्यपेक्षायामाह- महाभाष्य इति । तस्य विवरणम्-विशेषावश्यक इति ।
त्वर्थबाधतः' इत्यस्य विवरणम्- "जीव प्राणधारणे" इति धात्वर्थानन्वयादिति । विशेषावश्यकवचन. मुल्लिखति-एवमिति- "एवं जोवन् जीवः संसारी प्राणधारणानुभवः। सिद्धः पुनर्न जीवो जीवनपरिणामरहित इति" इति संस्कृतम् ॥ ४०॥
एकचत्वारिंशत्तमपद्यमवतारयति- एतदेवेति- जीवनपरिणामरहितत्वात् सिद्धस्याजीवस्वमेवेत्यर्थः, अस्य 'व्यवस्थापयति' इत्यनेनान्वयः । “जीवोऽजीवश्चेति' इति पद्यं विवृणोति-जीव इतीति। 'ईहिते' इत्यस्य विवरणम्-'प्रश्नयोग्य
..........