________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
२०३
-% 3D
चावयवद्योत्य समुदायशक्यार्थबोधकत्वेन तथात्वं युक्तम् , एवं सति 'प्रजयति ' इत्यत्र प्रोत्तरजित्वेन प्रकृष्ट जय इव पङ्कजपदोत्तर'ड'प्रत्ययत्वेन पङ्कजनिकर्तृपद्म एव निरूढलक्षणासम्भवे समुदायशक्तो माना. भावाद् , अनन्यलभ्यस्यैव शब्दार्थत्वाद्, अन्यथा समासे न शक्तिरिति मतभङ्गप्रसङ्गात् , न चेदेवं राजवाचके भूधनादिशब्दे भूधनवति लक्षण या यौगिके राजत्वेन पृथग् बोधकतया योगरूढत्वप्रसङ्गः कथङ्कारं वारणीयः, विशिष्टरूढयेकान्तनयो विशिष्टयोगैकान्तनयो वा तत्र समानप्रसर इति तयोर्महायोधयोरिव युद्धं वारयितुं स्याद्वादमहाराजं विना कोऽन्यः समर्थ इति विभावनीयम् ।
__एतेन योगार्थस्य नियमतोऽभानप्रसङ्गेन मीमांसकनयैकान्तोऽपि निरस्त; इति नययोजनयैव सर्वा शाब्दी प्रक्रियाऽनाविला ।। ३९ ॥ युक्तः। न्यायनयकान्ताभ्युपगमस्यायुक्तत्वे हेतुमाह- तन्नय इति- न्यायनये इत्यर्थः। नाम-धात्वोः पङ्कनाम-जनिधात्वोः । सम्भूयाबोधकत्वेन मिलित्वाऽर्थबोधकत्वाभावेन, पङ्केति नाम कर्दमरूपार्थ बोधयति, जनिधातुश्चोत्पत्तिरूपार्थ बोधयति, न तु मिलितयोस्तयोः पङ्कविशिष्टोत्पत्तिरूपार्थबोधकत्वं नामार्थ-धात्वर्थयोरभेदातिरिक्तसम्बन्धेनान्वय स्याव्युत्पन्नत्वात्, प्रकृते च पङ्कपदार्थस्य नाभेदसम्बन्धो जनिधास्वोत्पत्तौ घटतेऽतो जन्यजनकभाव एव सम्बन्धः, स च व्युत्पत्तिविरोधान शाब्दे भासितुमईतीति । तयोः नाम-धात्वोः। तात्पर्यग्राहकताया: पोपपदकजनिधातूतरडप्रत्ययस्य पङ्कजनिकर्तृरूपायें यत् तात्पर्य तदाहकतायाः, अस्य 'स्वीकाराद' इत्यनेनान्वयः, कर्तृरूपार्थे डप्रत्ययविधानं न तु पङ्कजनिकर्तृरूपार्थे इति डप्रत्ययस्य न पङ्कजनिकर्तरि शक्तिः किन्तु तस्य तत्र लक्षवेति डप्रत्ययस्य पङ्कजनिकर्तरि लक्षणायाः स्वीकारादित्यर्थः । 'नच' इत्यस्य युक्तम्' इत्यनेनान्वयः । मवयवद्योत्येति- नाम धातु-प्रत्ययलक्षणावयवद्योत्येत्यर्थः । समुदायशक्त्या उपपद-धातु-प्रत्ययनिष्पचपङ्कजपदशक्त्या, शक्येति पाठे अवयवद्योत्यो यः समुदायशक्यार्थस्तद्वोधकत्वे. नेत्यर्थोऽत्र प्रायः । तथात्वं पङ्कजपदस्य योगरूढत्वम् । युक्तत्वनिषेधे हेतुमाह-एवं सतीति- अवयवानां द्योतकत्वं समुदायस्यार्थबोधकत्वमित्यभ्युपगमे सतीत्यर्थ: । प्रकृष्टजय इवेति - प्रकृष्ट जयरूपाथै प्ररूपोपलगत्तरजिस्वेन जयाकजिबातोर्यथा लक्षणा तथेत्यर्थः। ननु पङ्कजनिकर्तृपद्मरूपार्थप्रतीतिरेव समुदायशक्ती मानमित्यत आह-अनन्यलभ्यस्यैवेति, शब्दार्थ त्वात शब्दशक्यार्थत्वात् , तेन लक्षणया लक्ष्यस्य शब्दजन्योपस्थितिविषयत्वलक्षणशब्दार्थत्वेऽपि न क्षतिः, यथा 'गङ्गायां घोषः' इत्यत्र गङ्गापदाद् गङ्गातीररूपार्थप्रतीतावपि न गङ्गापदस्थ गङ्गातीररूपार्थे शक्तिः, गङ्गातीररूपार्थस्य तत्र लक्षणयैवावगतिसम्भवेन तस्य शक्तिभिन्नलक्षणालभ्यत्वेनानन्यलभ्यत्वाभावात् , तथा प्रकृतेऽपि पङ्कजनिक पारूपार्थस्य शक्ति, . मिन्नलक्षणया प्रतीतिसम्भवेनान्यलभ्यस्य तस्यानन्यलभ्यत्वाभावेन पङ्कजपदशक्यार्थत्वाभावेन न पङ्कजपदस्य समुदायशक्तिन रित्यर्थः । अन्यथा अन्यलभ्येऽपि समुदायशरभ्युपगमे। समास इति- समासघटकप्रत्येकपदक्लप्तशक्त्यैव. समासप्रति. पाद्यार्थस्यावगतिसम्भवात् समासे न शक्तिरिति नैयायिकमतस्य भङ्गप्रसङ्गात् , तथा च समासशक्त्यभ्युपगन्तारो चैयाकरणा एवं विजयेरन्नित्याशयः । लक्षणया निर्वाहे सत्यपि पङ्कजपदस्य योगरूढस्वाभ्युपगमे भूर्धनं यस्य स भूधन इत्येवं व्युत्पन्नस्य भूधनशब्दस्य भूस्वामिराजरूपार्थकत्वतो योगरूढत्वं प्रसज्यत इत्याह-नचेदेवमिति- उक्तदिशोपपादितमर्थ नाभ्युपैति यदा तदेत्यर्थः । राजत्वेन पृथबोधकतया गजत्वेन राजनि भूधनपदस्य समुदायशक्तिरित्युपगमतो राजत्वेन राजरूपार्थस्य भूधनवपार्यतः पृथग्बोधकतयेत्यर्थः । कथङ्कारं वारणीयः? न कथञ्चिद्वारयितुं शक्यः । विशिष्टरूढयेकान्तनयः पङ्कजपदस्य पङ्कजनिकर्तृस्वविशिष्टपद्मे रूढिरेवेत्ये कान्ताभ्युपगन्तृनयः। विशिष्टयोगकान्तनयः पङ्कजनिकर्तृत्वविशिष्टपग्रेडवयवशक्तिरेवेत्येकान्ताभ्युपगन्तृन यः । तत्र पङ्कजपदे। समानप्रसरः तुल्ययुक्त्योपपादयितुं शक्यः। इति एतस्मात् कारणात् । तयोः विशिष्टरूट्येकान्तनय-विशिष्ट योगेकान्तनययोः, अस्य 'युद्धम्' इत्यनेनान्वयः । अत्र दृष्टान्तमाहमहायोधयोरिवेति- यथा महायोधयोर्मल-प्रतिमल्लभावेन युद्धं कुर्वनो: सामन्त-महोपत्योयुदं वारयितुं तदधिकशक्तिमान् महाराज एवं प्रभुतं विनाऽन्यो न तयोर्युद्धं वारयितुं समर्थस्तथा प्रकृतेऽपि निरुक्तन ययोरन्योऽन्यमतखण्डनलक्षणयुद्ध वारयितं स्याद् यौगिक एव शब्दः, स्याद्रढ एवं शब्दः' इत्यादि सप्तभशीलक्षणस्याद्वादमहाराज एवं समर्थो न त तदन्यः कश्चित् समर्थ इत्यर्थः ।