________________
૨૦૨
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
भानु-शब्दादावावापोद्वापक्रमेण तत्र शक्तिः कल्प्या, तद्वरं रूढिरेव, नहि धेन्वादिपदे योगरूढिरिति गौतमवचनमस्ति, येन योगत्यागेऽपसिद्धान्तः स्याद् ” इति ।। - व्यवहारनयानुसारिणस्तु-" पङ्कजादिपदेऽपि रूढिरेव, व्युत्पत्तेः सर्वत्र साधुत्वार्थत्वात् , अत एव योगत्यागेन स्थलपने पङ्कजपदस्य(प्रयोगः)" इत्याहुः।। __वयं तु ब्रूमः-व्युत्पत्तिरहितत्वं रूढित्वम् , व्युत्पत्तिसहिष्णुत्वं यौगिकत्वम् , तदसहिष्णुत्वं च मिश्रत्वम्, इति पदानां यौगिकादिविभागः पारिभाषिक एव, परमार्थतस्तु योग-रूढिनययोः स्वस्वजन्य. शाब्दबोधे मिथः प्रतिबन्धकत्वेन ' स्याद् यौगिक एव शब्दः, स्याद्रुढ एव' इत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युक्ता, नयद्वयजन्याकाङ्क्षयोः सप्तभङ्गयुत्थापकत्वस्य सर्वसिद्धत्वात् , अत एवावयव समुदाय. शक्तिभ्यां बोधकत्वम् ; पङ्कजादिपदे योगरूढित्वमिति न्यायनयैकान्तो न युक्तः, तन्नये नाम-धात्वोः सम्भूयाबोधकत्वेन तयोस्तात्पर्यवाहकतायाः, 'ड'प्रत्ययस्यैव च पङ्कजनिकर्तरि लक्षणायाः स्वीकारात्, न लौकिक परीक्षकाभ्यो गौरित्यनेन गोत्वविशिष्ट एवार्थः प्रतीतिगोचरीक्रियत इति । नन्वेवं धेन्वादिपदस्यापि गोत्वविशिष्ट एव रूहिः स्थान्न तु धानकर्मत्वविशिष्टे योगोऽपीत्याशङ्कामिष्टापत्त्या परिहरति-न चेति । एवं स्यात् गवादिपदवढिरेव स्यान्न तु योगोऽपि ! अष्टापत्तिरेव निषेधहेतुरित्याह-जान्विति- जान्वादिपदे नुशब्दसत्त्वेऽपि धेशब्दासत्त्वे धानकर्मत्वं न प्रतीयते, तत्रैव जादिस्थाने धेशब्दोपादाने धानकर्मत्वं प्रतीयत इत्यन्वय व्यतिरेकलक्षणावापोद्वापाभ्यां धानकर्मत्वविशिष्टे धेनुपदस्थात्रयवशक्तिः प्रकल्पनीया, तदपेक्षय! गोत्वविशिष्टे समुदायशक्तिमात्रमेव तस्य वरमित्यर्थः, यथा च पड़क जादिपदं योगरूढमिति नैयायिकवृद्धानामनुशासनं नवं धेन्वादिपदं योगरूद्धमित्यनुशासनं तेषां समस्ति यदुलाद्योगरूढिरपि तस्याभ्युपेया स्यादित्याह- नहीति । कस्यचिन्नव्यनैयायिकस्य धेन्वादिपदे योगरूढोक्तिर्न न्यायदर्शन सिद्धान्तो येन तस्य योगत्यागेऽपसिद्धान्तो भवेत् , न्यायदर्शनप्रणेतुमहर्षे गौतमस्यैव वचन न्यायसिद्धान्तः, न च धेन्वादिपदं योगारूढमिति गौतमवचनं समस्तीति योगपरित्यागेऽध्यपसिद्धान्तो नात्र पदं धत्ते इत्यावदनाय 'गौतमवचनम्' इत्युक्तिः ।
पकजपदं योगरूढमित्यभ्युपगच्छतां नैगमनयानुसारिणां नैयायिकानां मतमुपदश्य पकजादिपदं रूढमेवेत्यभ्युपगन्तृणा व्यवहार नयानुसारिणां मतमुपदर्शयति-व्यवहारन यानुसारिणस्त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः । ननु पङ्कजपदे रूढेरेव भावे पक्रा जायत इति पङ्कजमिति व्युत्पत्तिरनार्थका स्यादित्यत आह- व्युत्पत्तरिति-यथा गच्छतीति गौरित्येवं गवादिपदव्युत्पत्तिगौरित्यादिपदस्य साधुस्वार्थिका न तु ततो गमनकर्ताद्यर्थः परिकल्प्यत एवं पङ्कजादिपदेऽपीत्यर्थः । अत एव 'पङ्काजायते इति व्युत्पत्तिः साधुत्वार्थि कैव, न त्वयार्थवोधिकेत्यभ्युपगमादेव, अन्यत् सुगमम् ।
अत्र जनाना सिद्धान्त ग्रन्थकृदावेदयाति-वय तु म इति । तदसहिष्णुत्व व 'इति स्थाने ' तत्सहिष्णुख सति तदसहिष्णुत्वं च' इति पाठो युक्तः । रूढित्वम' इत्यत्र रूढत्वमिति पाठः सम्यग । मिश्रत्वं योगरूढत्वम्, तथा च व्युत्पत्तिसहितत्वे सति व्युत्पत्तिरहितत्वं योगरूढत्वमित्यर्थः । इति एवंप्रकारेण । पारिभाषिक एव स्वेच्छाकल्पित एव । तहि कोऽत्र वास्तविक इत्यपेक्षायामाह-परमार्थस्विति। योग-रूढिनययोः अवयवशक्त्यभ्युपगन्तु समुदायशक्त्यभ्युपगन्तनययोः । स्वस्वेति-अवयवशक्त्यभ्युपगन्तनयस्य समुदायशक्तिमानजन्य शाब्दबोधे प्रतिबन्धकत्वेन समुदायशक्त्यभ्युपगन्तृनयस्यावयवशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकत्वेन च यौगिक एवं शब्दो रूढ एव च शब्द इत्येवमेकान्तवचनप्रवृत्तिने सम्भवति, किन्तु स्याद् यौगिक एव शब्दः १ स्यादूढ एवं शब्दः २ स्याद् यौगिक एव स्याद एव च शब्दः ३ स्थादवकव्य एव शब्दः ४ स्याद् यौगिक एवं स्यादवक्तव्य एव च शब्द: ५ स्थाढ एव स्यादवकव्य एव च शब्दः ६ स्याद् यौगिक एक स्थाढ एवं स्यादवक्तव्य एव च शब्दः . इत्येवं सप्तभङ्गोवचनप्रवृत्तिरेव युक्त्य र्थः । कथमित्थमत्र सहभोप्रवृत्तिरित्यपेक्षा यामाह-नयद्वयेति-योगाभ्युपगन्तृनयरूट्यभ्युपगन्तृनयद्धयेत्यर्थः । अत एव नयद्वयजन्याकाद्धयोः सप्तभनयस्थापकत्वादेव। 'योगरूढित्वमिति' इति स्थाने 'योगरूढत्वमिति' इति पाठो