________________
नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
१९९
-
---
-
-... -
यपदेनापि पचति' इत्यस्य समभिव्याहारप्रतिसन्धानेन पुरुषैः खण्डने क्रियमाणे श्लोक इवान्वय. बोधदर्शनाद् वाक्यार्थानुभवे समभिव्याहारप्रतिसन्धानस्यैव हेतुत्वात् ; अर्थाध्याहारपक्षोऽप्ययुक्त एव, 'विमतो द्वारान्वयबोधो द्वारोपस्थापकपदजन्यः शब्दद्वारान्वयबोधत्वात् सम्प्रतिपन्नवत् ' इत्यनुमानात् 'पिधेहि ' इत्यत्र — द्वारम् ' इति शब्दाध्याहारस्यैव सिद्धेः, किञ्च, विभक्तिविशेषसमभिव्याहारमासाचैव पदानामर्थानुभावकत्वम् , तथैवाकाङ्क्षादर्शनादिति एव पदार्थो न शाब्दः, तदंश एवाकाङ्क्षाऽसम्भवेनान्वयबोधानुपपत्तेः, गौरवस्य प्रामाणिकत्वे यावदन्वयप्रतियोग्युपस्थितेः शाब्दत्वस्य शाब्दबोधे तन्त्रत्वादिति दिक् । स्यादेतत्, ‘पङ्कजमानय ' इत्यत्र पङ्कजशब्देन वाक्यार्थज्ञानानुकूलं कीहक् पदार्थज्ञानं जन्यते १ ' पद्मं पङ्कजनिकर्तृ ' इत्याकारमिति चेत् ? तत् किम् अनुभवरूपं स्मरणरूपं वा ? नाद्य:सामग्रीविरोधात्, पङ्कजनिकर्तृत्वांशे ह्यनुभवसामग्री, पद्मांशे स्मरणसामग्री, ते च मिलित्वा कथमेकं पुरुषान्तरोदीरित' इति स्थाने 'न च पुरुषान्तरोदीरित ' इति पाठो युक्तः । तद्धेतुत्वं तात्पर्यग्रहस्य कारणत्वम् । निषेधे हेतुमुपदर्शयति-पासत्तिसत्त्वाऽसत्त्वाभ्यामेवेति । तौ अन्वयबोधाऽन्वयाबोधी, पुरुषान्तरेण 'कलायम् ' इत्युक्तौ कलाय पति' इत्येवं 'कलायम्' इत्यस्य ‘पचति' इत्यनेन सहाव्यवहितपूर्वापरीभावलक्षणासत्तिसत्त्वे कलायकर्मकपाकान्वयबोधो भवति, निरुता सत्त्यभाये च निरुक्तवाक्यार्थबोधो न भवतीत्यन्वय-व्यतिरेकाभ्यामासत्तरेव वाक्यार्थबोध प्रति कारणत्वं न तु तात्पर्यग्रहस्य । “पुरुषैः खण्डने क्रियमाणे' इत्यस्य स्थाने 'पुरुषैरन्वये क्रियमाणे ' इति पाठो युक्तः । श्लोक इवेति-यस्पदद्वयार्थयोरन्वयबोधोऽपेक्षितस्तयोः पदयोः श्लोके समभिव्याहृतयोरभावे यथाश्रतश्लोकवाक्यात् तत्पदद्वयार्थान्वयबोधाभावेऽपि तत्पदयोरासत्तिकल्पनया यद् वाक्यान्तरं तत एव पदव्यासत्तिसहकारादन्वयबोधो यथा दृश्यते तथाऽन्यत्राप्यासत्तित एवान्वयबोधभावेन वाक्यानुभवे समभिव्याहारलक्षणासत्तिप्रतिसन्धानस्यैव हेतुत्वादि. त्यर्थः । यदपि 'अत एव तात्पर्यविषयान्वयप्रतियोगिवाचकपदाध्याहारापेक्षयाऽर्थाध्याहार एव लाघवमामनन्ति' इति ग्रन्थेन समभिरूढनयमतेऽर्थाध्याहारस्यैव युक्तत्वमावेदितं तदपि न युक्तमित्याह- अर्थाध्याहारपक्षोऽध्ययुक्त एवेति । कथम. युक्त इत्यपेक्षायां तत्र हेतुमुपदर्शयति-विमत-इति- 'द्वारकर्मकपिधानक्रियाकर्तृविषयकशाब्दबोधः पदजन्यद्वारकर्मत्वोपस्थितिजन्य एव, पदाजन्यद्वारकर्मत्वोपस्थितिजन्योऽपि' इत्येवं विप्रतिपत्तिविषयः, द्वारकर्मकपिधानक्रियाकर्तृविषयकः शाब्दबोध इत्यर्थः । सम्प्रतिपन्नवदिति- यथा वादि-प्रतिवायुभयसम्मतो 'द्वारं पिधेहि ' इति वाक्यजन्यो द्वारकर्मकपिधानक्रियाकर्तबोधस्तथेत्यर्थः । पिधेहीत्यति- यत्र 'पिधेहि ' इत्येतावन्मात्रमुकं न तु द्वारं तत्रेत्यर्थः । पदाध्याहारस्यावश्यकत्वे युक्त्यन्तरमाह-किञ्चेति । तथैव विभक्तिविशेषसमभिव्याहारत एव । 'एव' इत्यस्य स्थाने 'पद एवाकाक्षा, ' इति पाठः सम्यग् , ' पदार्थो न शाब्दः' इत्यस्य स्थाने पदार्थों न शब्दः' इति पाठो युक्तः । तदंश एव पदार्थाश एव, एवं च पदाध्याहारपक्षे प्रथमं पदज्ञानं ततः पदार्थोपस्थितिस्ततः शाब्दबोधः, अर्थाध्याहारपक्षे तु प्रथमत एवपदार्थोपस्थितिस्ततः शाब्दबोध इत्यर्थाध्याहारापेक्षया पदाध्याहारे गौरवमिति यत् पराभिप्रेतं तत्राह- गौरवस्येति-अप्रामाणिकमेव गौरवं दोषाय न तु प्रामाणिकम्, प्रकृते तु पदाध्याहाराभावे अर्थे आकाङ्क्षाऽभावादव ने ततः शाब्दबोध इति शाब्दबोधानुरोधेन पदाध्याहार आवश्यक इति पदाध्याहारे गौरवस्य प्रामाणिकत्वे सुव्यवस्थिते यावदन्वयप्रतियोगिनामुपस्थितेः शब्दजन्यत्वस्य शाब्दबोधे प्रयोजकत्वादित्यर्थः । पङ्कजपदस्५ समुदायशक्तिमसहमानः परः शङ्कते-स्थादेतदिति । पङ्कजशब्दन पदार्थज्ञानं कीदृशं जायते इति पृच्छायामुत्तरमाशङ्कते- पद्ममिति। आशङ्कितमुत्तरं विकल्प्यापहस्तयतितदिति- 'पद्म पङ्कजनिकर्तृ' इत्याकारकं ज्ञानमित्यर्थः । नाद्य इति- 'पङ्कजनिकर्तृ पमम्' इत्याकारकमनुभवरूपं ज्ञानं पङ्कजपदेन जायत इति प्रथमकल्पो न समीचीन इत्यर्थः । निषेधहेतुं सामग्री विरोधादित्युपपादयति-पङ्कजनीति-पङ्कजनिकर्तृत्वं पकजशब्देनावयवशक्त्या प्रतिपाद्यते, तत्र पङ्कपदेन पङ्करूपार्थस्योपस्थितिः, जपदेन जनिक रूप स्थितिद्वयेन पङ्कजनिकर्तुरवगतिरिति पङ्कजशब्दो वाक्यविधयव पङ्कजनिकर्तुरवबोधक इति पङ्कजनिकर्तृज्ञानं शाब्द. बोधात्मकानुभव एव, न तु स्मरणमिति पकजनिकर्तृत्वांशेऽनुभवसामग्रीत्यर्थः । पद्मांश इति- पद्म पङ्कजपदं रूढत्वात्