________________
२००
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः ।
-
कार्य जनयेताम् ? न द्वितीयः-उपपद-धातु-प्रत्ययप्रत्येक सङ्केतप्रतिसन्धानजस्मरणानि(नां) समुदायार्थस्मृतिकालेऽसस्वादुत्तरोत्तरेण पूर्वपूर्वनाशात् , न च प्रत्येकरमरणजन्यसंस्कारसमुदायात् पङ्क-ज निकर्तृत्वपद्मत्वानामेकमेव समूहालम्बनं स्मरणं कार्यदर्शनात् कल्प्यत इत्यपि युक्तम् , एवमपि हि पङ्कज-निकर्तृपद्मानयनान्वयः प्रत्येकं स्यात् , न तु विशिष्टवैशिष्ट्येन; किच, द्वयेनान्वये वाक्यभेदप्रसङ्गः कथकार वारणीयः ? कथं वा न गवादिपदेऽपि योगरूढिः ? को हि " गमेडों" [पा० उणा० २२५] " सप्तम्यां जनेर्डः " [पा० ३. २. ९७.] इत्यनयोर्विशेषः ? अनुशासनावधृतविभागप्रकृति-प्रत्ययशक्तिभिरुभयत्र योगरूढेरेव सम्भवादिति, उ(अत्रो)च्यते-' पङ्कजमानय ' इति वाक्यात् पङ्कजनिकर्तारं पद्मं समानयेति प्रतीतेः पङ्कज पदेन प्रत्येक समुदायशक्तिप्रतिसन्धानसहकारिवशाद् मिलितगोचरमेकमेव पदरूपमेव, न तु वाक्यरूपमतः पङ्कजपदात् पद्मरूपायस्थ स्मरणमेव, न त्वनुभव इति पद्माशे स्मरणसामग्रो, न त्वनुभवसामग्रीत्यर्थः। ते च निरुक्तानुभवसामग्रोनिरुक्तस्मरणसामग्यौ च, अनुभवसामग्री अनुभवं जनयति, स्मरणसामग्रो स्मरणं जनयति; अनुभवत्वस्मरणत्वयोश्च विरोधान्नैकं ज्ञानमनुभवस्मरणात्मकं संभवतीति निरुक्तसामान्यौ मिलिते अपि नैकं कार्य कर्तुमर्हत इति कथमेकं ज्ञानं निरुक्तसामग्यौ जनयेतामित्यर्थः । पकजपदेन 'पल्कजनिकर्तृ पद्मम्' इत्याकारक ज्ञान स्मरणरूपमुपजायत इति द्वितीयपक्षोऽपि न समीचीन इत्याह-न द्वितीय इति । निषेधे हेतुमाहउपपदेति-पङ्कजशब्दे पटकपदमुपदं तस्य कर्दमरूपार्थे सङ्केतः जन्धातुस्तस्योत्पत्तौ सङ्केतः, डप्रत्य यस्तम । कर्तरि सकेत इति निरुक्तपदत्रयसङ्केतप्रतिसन्धानानि ऋमिकाणि, तेभ्यो जायमानानि कर्दमादिरूपार्थस्मरणान्यपि ऋमिकाणि. तेषां चैकदा पङ्कजनिकर्तृपद्मात्मकसमुदायार्थस्मृतिकालेऽसत्त्वाजन्धात्वर्थोत्पत्तिस्मरणसमये जन्धातुसलकेतस्मरणेनोपपदपङ्कार्थकर्दमस्मरणस्य डप्रत्ययार्थकर्तृस्मरणसमये डप्रत्ययसङ्केतप्रतिसन्धानेन धास्वत्पित्तिस्मरणस्य च विनाशान पङ्कजनिक पद्मरूपसमुदायार्थस्मरणं संभवतीत्यर्थः । ननु उपपदादिप्रत्येकपदसङ्केतप्रतिसन्धानप्रभव क्रमिकस्मृतिभ्यः पकजेत्यखण्डपदसमुदायसङ्केत प्रतिसन्धानप्रभवपद्मरूपार्थस्मृत्या च प्रत्येक क्रमिकाः स्वसमानविषयकाः संस्का !ः समुत्पन्नास्तेषां च युगपत् सद्भावात् तत्समुदायनककालवतिना पङ्कजनिकर्तृपद्मरूपार्थस्मरणं समूहालम्बन भविष्यतीत्याशय प्रतिक्षिपति-न चेतिअस्य ‘युक्तम् ' इत्यनेनान्वयः । कार्यदर्शनादिति-यदि तत्तदर्थस्मरणप्रभवसंस्कारसमुदायो न भवेन्न पङ्कजनिकर्तृपद्माना समूहालम्बनात्मकस्मरणमुपलभ्येतेति तादृशसमूहालम्बनस्मरणरूपकार्यदर्शनादेव कल्प्यत इत्यर्थः । भवतूक्तदिशा पक जनिकटे-पद्मवानां सम्हालम्बनस्मरणं तथाप्यानयनरूपपदार्थान्तरेण सम स्मृतानां तेषां प्रत्येकमेवान्वयः, यद्रपेणैकपदार्थस्मरणं तद्रूपेणैव तस्यापरपदार्थेन सममन्वय इति नियमात् , पकपदार्थस्य कर्दमस्य धात्वर्थजनने तस्य च प्रत्ययार्थकर्तरि तस्य च समुदायार्थपद्मऽन्वयतो नियमतो निष्पन्नस्य पकजनिकर्तपद्मरूपार्थस्य विशिष्टस्यानयनरूपपदार्थान्तरेण सममन्वयः स्यात्, पङ्कजनिकर्तपद्मत्वेन रूंपण निरुक्तविशिष्टरूपार्थस्य पदादनुपस्थितेरिति निषेधहेतुमुपदर्शयति-एवमपीति-निरुक्कसंस्कार. समुदायान्निरुक्तार्थानां समूहालम्बनकस्मरणसम्भवेऽपीत्यर्थः । पङ्कजपदस्यावयवशक्तिसमुदायशक्त्योरुपगमे दोषान्तरमुपदर्शयति-- किश्चेति । द्वयेनेति-पकजमानय ' इत्यत्रानयनरूपपदान्तरार्थस्य पनि वार्थेन पद्मरूपसमुदायार्थेन च सममन्वये द्वितीयाविभक्त पर्थकर्मत्वं मध्ये सनिवेश्य तद्द्वारा स्वीक्रियमाणे पकजनिकर्तृकर्मकानयनबोधः पद्मकर्मकानयनबोधश्च ततो भवेदिति साक्षात् परम्परया परस्परानन्वितविभिन्नार्थबोधकत्वलक्षणवाक्यभेदात्मकदोषोऽत्र भवन् कथङ्कार कारणीयः ? न कथञ्चित् स वारयितुं शक्य इत्यर्थः । यथा च पङ्कजपऽवयवशक्ति-समुदायशक्त्योः सद्भावाद् योगरूढिस्तथा गवादिपदेऽपि तयोः सद्भावाद् योगरूढिः किं न भवद्भिरूपेयते ? इत्याह -कथं वेति-गमनार्थकगमिधातो?प्रत्यये सति गौरिति पदं निष्पद्यते, तत्र गमिधातोर्गमनमर्थः, डोप्रत्ययस्य च कर्ताऽर्थः, तथा च गमनकर्ताऽवयवशक्त्याऽर्थः समुदायशकृत्या गोत्ववानर्थः, एवं च गमनकर्ता गौरिति गोशब्दार्थः पङ्कजपदेऽपि पकपदार्थः कर्दमः जनिधातोर्जननमर्थः, डप्रत्ययस्य कर्ताऽर्थः, समुदायशक्त्या च पद्ममर्थ इति पङ्कजनिकर्तृ पद्ममित्यर्थः पकजपदस्य, इत्थं चानयोर्न कश्चिद् विशेष इति गवादिपदं रूढमेव पङकजादिपदं योगरूढमिति विभागकल्पना नयायिकानां दुष्कल्पनैवेत्याह- को हीति | अनयोः डोविधायक डविधायकयोः । अत्र उक्ताशनकायाम्। उच्यते प्रतिविधानं कथ्यते । मिलितगोवरं पकजनिकर्तृ