SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । निष्टानुबन्धित्वमयोग्यत्वान्नान्वेतीति सिद्धान्तभङ्गप्रसङ्गात् , यत् तूक्तम्-' प्रत्यक्षोपस्थितेनापि कलापेन तात्पर्यग्रहं सहकारिणमासाद्य ' पचति ' इत्यत्रान्वयबोध इष्यत ' इति, तत् तदा शोभते यदि तात्पर्यमहस्य वाक्यार्थप्रतिपत्तावङ्गत्वमीक्षामहे, तदेव तु नास्ति प्रमाणाभावात् , प्रत्युत तात्पर्यमस्य न ज्ञायते अस्माद् वाक्यादयमर्थस्तावदवगम्यत एवेति विचिन्त्य परावृत्त्य कुत्रास्य तात्पर्यमिति पृच्छति (प्र)योज्यवृद्ध इति; न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य हेतुत्वावधारणादन्यत्रापि तत्कल्पनं युक्तम् , सत्यां पदार्थोपस्थितौ तात्पर्यग्रहविलम्बेन वाक्यानुभवविलम्बानुपलब्धेः; न पुरुषान्तरोदीरि. तकलायपदार्थोपस्थितावपि तात्पर्यग्रहसत्त्वा-ऽसत्त्वाभ्यामन्वयबो( धा-ऽबो )धदर्शनाद् वाक्यार्थानुभवेऽपि तद्धेतुत्वम् , आसत्तिसत्त्वा-ऽसत्याभ्यामेव तौ, न तात्पर्यग्रहसत्त्वासत्त्वाभ्यामिति, पुरुषान्तरोदीरितकला रक्तत्रितयार्थकत्वं व्यवस्थितम् , एवमपि श्येनेनाभिचरन् यजेत' इत्यादौ शत्रवधकामनया क्रियमाणस्य श्येनयागस्य मरणोद्देश्यकमरगानुकूलव्यापारात्मकहिंसारूपतया बलबदनिष्टनरकसाधनत्वेन बलदनिष्टाननुबन्धित्वाभावेन विधिशक्त्योपस्थितस्यापि बलवदनिष्टाननुवन्धित्वस्य परित्यागेनैव विध्यर्थयोरिष्टसाधनत्वकृतिसाध्यत्वयोः श्येनयागेऽन्वय इत्येवं बलबदनिष्टाननुबन्धित्वमयोग्यत्वाच्छयेनयागे बाधितत्वान्नान्वेनीति सिद्धान्तस्य भङ्गप्रसङ्गात् , अतो यथा तत्र बलवदनिष्टाननुबन्धित्वरूपविध्यर्थपरित्यागेनेष्टसाधनत्व-कृतिसाध्यत्वरूपविध्यर्थस्य श्येनयागेऽन्वयस्तथा 'पङ्कजं कुमुदमानय' इत्यत्र कुमुदेऽन्वयानहत्वात् समुदायशक्त्योपस्थितस्यापि पद्मरूपार्थस्य परित्यागेनावयवशक्त्योपस्थितस्य पङ्कजनिकर्तृरूपार्थस्य कुमुदपदार्थेऽन्वय उपपद्यते इत्यर्थः । यदपि समुदायशक्तयनभ्युपगन्तुः पद्मत्वस्य पदानुपस्थितस्य संस्कारमात्रोपस्थितस्य शाब्दबोधे भानमित्यस्योपपत्तये न च संस्कारोपस्थितस्य शाब्दबोधेऽप्रवेशोऽन्यथा किं पचतीत्युक्त प्रत्यक्षोपस्थित कलायमादाय ' इत्यादिग्रन्थेन प्रमाणान्तरोपस्थितस्यापि शाब्दबोधे भानमिति मतमुपपादितं शङ्का-समाधानाभ्यां तदपि न युक्तभित्युपदर्शयति- यत् तुक्तमिति । तत् तात्पर्यग्रहसहकारेण पचतीत्यत्र प्रत्यक्षोपस्थितस्य कलायस्य कर्मतया पाकेऽन्वयबोधाभ्युपगमनम् । तदेव तु नास्ति तात्पर्य ग्रहस्य वाक्यार्थप्रतिपत्तावङ्गत्वमेव नास्ति । न केवलं तात्पर्यग्रहम्य वाक्यार्थप्रतिपत्त्यङ्गत्वे प्रमाणाभावः, अपि तु तात्पर्यग्रहं विनापि वाक्यार्थप्रतिपत्तिर्जायमानाऽनुभूयते. यतः कस्यचिद् वाक्यस्यार्थे तात्पर्यग्रहमन्तुराऽप्यवगत्यानन्तरं प्रयोज्य वृद्धः प्रयोजकवृद्धं पृच्छतीत्थं भवदुतवाक्यादयमों मया ज्ञायते, भवतस्तु कुत्र तात्पर्यमित्याह-प्रत्युतेति । अस्य प्रयोजकवृद्धोच्चरितस्य श्रयमाणविशेषस्या अस्माद वाक्यात प्रयोजकवृद्धोच्चरिताच्छयमाणाद् वाक्यविशेषात् । अयमर्थः स्वीयतद्वाक्यजन्यशाब्दबोधेऽवभासमानोऽर्थः । परावृत्य प्रयोजकवृद्धासम्मुखीन: प्रयोजकद्धसम्मुखो भूत्वा । कुत्र कस्मिन्नर्थे । अस्य निरुक्तवाक्यस्य । ननु लाक्षणिकपदघटितवाक्यस्थले यत्रार्थे वक्तृतात्पर्यग्रहस्तत्रार्थे लक्षणावृत्तिज्ञानालश्यार्थीपस्थित्या लक्ष्यार्थविषयकान्यबोधो भवतीति लक्षणात्मक. वृत्तिजन्योपस्थितिजन्यशाब्दबोधे तात्पर्य ग्रहस्य कारणत्वमवश्यमेषितव्यम्, तत्र लक्षणात्मकवृत्तिग्नहप्रयोज्यशाब्दत्वावच्छिन्न प्रति तात्पर्यज्ञानं कारणमित्येवं कार्यकारणभावकल्पनापेक्षया लाघवात् सामान्यतः शाब्दत्वावच्छिन्नं प्रति तात्पर्यज्ञानं कारणमित्येव कार्यकारणभावः कल्प्यत इत्यस्त्येव तात्पर्यग्रहस्य वाक्यार्थप्रतिपत्त्यत्वे प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति । 'न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्याम्' इत्यस्य स्थाने 'न च लाक्षणिकपदार्थोपस्थितावन्वय-व्यतिरेकाभ्याम्' इति पाठो युक्तः, 'नच' इत्यस्य युक्तमित्यननान्वयः, तात्पर्यग्रहसत्त्वे लाक्षणिकार्थस्योपस्थितिर्भवति तात्पर्यग्रहाभावे लाक्षणिकार्थस्योपस्थितिन भवतीत्येवमन्वय-व्यतिरेकाभ्यामित्यर्थः । अन्यत्रापि शक्तपदमात्रघटितवाक्यस्थले शक्यपदार्थोपस्थितिजन्यशाब्दबोधे संस्कारमात्रप्रयोज्योपस्थितिजन्यशाब्दबोधेऽपि च। तत्कल्पनं तात्पर्यग्रहस्य कारणत्वकल्पनम् , अद्विलम्वाद यस्य विलम्बस्तस्यैव तं प्रति कारणत्वम्, तात्पर्यग्रहविलम्वेऽपि पदार्थोपस्थितौ सत्यां शाब्दबोधो भवत्येव न तु शाब्दबोधविलम्ब उपलभ्यत इत्यर्थः । ननु एकेन पचतीत्युक्तौ परेण किं पचतीति प्रश्न तदन्येन कलायमित्युक्तौ कलायपदात् कलायरूपार्थोपस्थितावपि 'कलायमिति पदं कलायकर्मकपाकान्वयबोधपरम्' इति तात्पर्यग्रहसत्वे कलायकर्मकपाकान्वयविषयकशाब्दबोधो भवति, निरुकतापर्यग्रहाभावे निरुक्तशाब्दबोधो न भवतीत्यन्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य वाक्यार्थबोधं प्रति कारणत्वं सिद्धयत्येवेत्याशङ्कय प्रतिक्षिपति-न चेति । 'न
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy