________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
नैगमनयानुसारिणो नैयायिकास्तु - " संस्कारमात्रवशात् पद्मत्वभाने नियमतः कल्प्यमानेऽगृहीत• समुदाया (य) शक्तेरप्यनुभूतपद्मत्वस्य तद्भानापत्तिः, पङ्कोत्तरजपदस्यैव संस्कारोद्बोधकस्य त्वया वाच्यत्वात् न च प्रत्येक व्युत्पन्नस्य समुदायव्युत्पत्ति विना पद्मत्वप्रकारकपद्मानुभवो जायते, न च पद्मान्त्रयतात्पर्यग्रह्ने स जायत एव तदमहे तु तत एव स न स्यादिति वाच्यम्, तथापि प्रत्येकाव्युत्पन्नस्य पङ्कजपदात् पद्मत्वप्रकारकप्रतीतेः, कोशेषु पङ्कज- पद्मपदयोः पर्यायता कीर्तनस्य च समुदायशक्तिसाधकस्वात् शब्दानुपस्थितस्य शाब्दविषतयाऽभ्युपगमे च घटादावव्युत्पन्नस्य घटविषय (क) बल संस्कारात्
१९५
रूपेण पद्माभ्युपगमे ।' कुमुदेऽपि प्रयोगस्तत्र लक्षणया ' इत्यस्य स्थाने कुमुदेऽपि प्रयोगः स्यादतः कुमुरे प्रयोगस्तव लक्षणया इति पाठ: समोचीनः पङ्कजपदस्य पद्म समुदायशक्तिरपीत्यभ्युपगन्तुस्तत्र मते पद्मानधिकरणे सरोविशेषे कुमुदवति पङ्कजनिकर्तृकुमुदरूपार्थमुपादाय पङ्कजमस्तीति प्रयोगः शक्त्या कथं स्यादपि तु न स्थात्, किन्तु पपदस्य लक्षणया कुमुदरूपार्थमाश्रित्य तथा प्रयोगो भवेत्, तस्यावयवशक्तिमात्र मभ्युपगच्छतः समभिरूडनयावलम्बिनो मम पुनः पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वात् पङ्कजनिकर्तृत्वेन कुमुदरूपार्थमुपादाय शतयैव तत्र जनस्तीति प्रयोग उपपद्यत इति न तत्र लक्षणाश्रयणमिति भवन्मतापेक्षयाऽस्मन्मते महान् विशेष इति सरला वदन्तीत्यर्थः । पङ्कजपदस्य पद्मे समुदायशक्तिमभ्युपगच्छतां नैगमनयानुसारिणां नैयायिकानां मतमुदर्शयति-नैगमनानुकारिणो नैयायिकास्त्विति - अस्य व्यवहितेन येन योगत्यागेऽपसिद्धान्तः स्यात् ' इत्यनन्तरम् ' आहुः ' इति कल्पितेनान्वयः । पद्मत्वभाने पकजपदजन्यान्वयबोचे पद्मभाने । अगृहीत समुदायश केरपि येन प्रमात्रा पङ्कजपदस्य पद्म समुदायशक्तिः पूर्वं न गृहीता तस्यापि । अनुभूतपद्मत्वस्य प्रत्यक्षादितः पूर्व गृहीतं पद्मत्वं येन तस्य एतावता पद्मलविषयक संस्कारस्तस्य प्रमातुः पद्मत्वविषयक स्मरणप्रयोजकः समस्तीत्यावेदितम् । तद्भानापत्तिः पङ्कजमस्तीत्यादिवाक्यजन्यशाब्दबोधे पद्मत्वभानापत्तिः । ननु संस्कारमात्रान स्मरणं किन्तु बुद्ध संस्कारादेवेत्युद्बोधकाभावात् सतोऽपि पद्मत्वविषयक संस्कारस्य प्राकट्या भावान्न पचत्वस्मरणमतो न तस्य प्रमातुः पङ्कजमस्तीति वाक्यजन्यशाब्दबोधे पद्मत्वस्य मानमित्यत आह- पङ्कपदोत्तरपदस्यैवेति । त्वया समुदायशक्त्यनभ्युपगन्त्रा, तथा च पङ्कपदोत्तरपदस्य पद्मत्वसंस्कारोबोधकस्य तत्र सत्त्वात् संस्कारप्राकट्यं स्यादेवेति ततः स्मृतस्य पद्मत्वस्य शाब्दबोधे भानं प्रसज्यत इत्यर्थः । उक्तप्रसन्नस्येष्टापत्तिरूपताश्रयणेनादोषत्वं नाभ्युपगन्तुं शक्यमित्याह- न वेति- अस्य जायते ' इत्यनेनान्वयः । प्रत्येक व्युत्पन्नस्य पकपदस्य कर्दमे शक्तिः जपदस्य जनिकर्तरि शक्तिरित्येवं जानानस्य । समुदायव्युत्पति विना पङ्कजपदं पद्मत्वावच्छिन्ने शक्तमित्याकारकसमुदायशक्तिप्रहणमन्तरेण । ननु पङ्कजमस्तीत्यत्र पङ्कजपदं पद्मश्वावच्छिन्नविषयक बोधेच्छयो चरितम्' इत्याकारकतात्पर्यज्ञाने सति समुदायशक्तिप्रदाभावेऽपि पद्मत्वप्रकारकपद्मविषयकानुभवो भवत्येव, निरुक्ततात्पर्यग्रहाभावे तु निरुक्ततात्पर्यप्रहरूपकारणाभावादेव निरुतानुभवाभावो न तु समुदायशक्तिप्रहाभावादित्याशङ्कथ प्रतिक्षिपति - न वेति- अस्य ' वाच्यम्' इत्यनेनान्वयः । सः पद्मत्वप्रकारकपद्मविषयकानुभवः, एवमग्रेऽपि । तदग्रहे तु पङ्कजपदं पद्मत्वप्रकारकपद्मविषयकानु भवेच्छयोश्चरितमिति तात्पर्यग्रहाभावे पुनः । तत पत्र निरुक्क पर्यमहाभावादेव । प्रतिक्षेप हेतुमुपदर्शयति तथापीति- उक्तदिशा समुदायशक्ति प्रहमन्तरेणापि निरुक्ततात्पर्यग्रहभावाऽभावाभ्यां पद्मत्वप्रकारक पद्मविषयकानुभव भावाऽभावयोरुपपादनेऽपीत्यर्थः । प्रत्येकेति यस्य प्रमातुः पङ्कपदं कर्दमे शक्तं जपदं जनिकर्तरि शतमित्येवमवयवशक्तिप्रहो नास्ति तस्यापि प्रत्येकाव्युत्पन्नस्य प्रमातुः पङ्कजपदात् पद्मत्वप्रकारकपद्मविषयकानुभवस्य भावात् पङ्कजपदस्य पद्मे शक्तिरवश्यमभ्युपैया, अन्यथा तस्य प्रमातुः पङ्कजपदे शक्तिसामान्यस्यैव ग्रहाभावाच्छतिप्ररूप सहकारिणोऽभावात् पङ्कजपदात् पद्मप्रतीतिरेव न भवेत्, नहि शक्ति-लक्षणान्यतरवृत्तिप्रहमन्तरेण शब्दादर्थानुभव उपेयते, न च कस्मिन्नप्यर्थे शक्तिमहमन्तरेण शक्यसम्बन्धरूपलक्षणाग्रहस्यापि सम्भव इति । कोशेष्विति कोशेवेकार्थवाचकतया पङ्कज- पद्मपदयोः कीर्तनमस्ति तत्र पद्मपदं न पक्कजनिकर्तरि शकं किन्तु पद्मत्वावच्छिन्नशतमेवेति पदमपि यदि पद्मत्वावच्छिन्नशक्तं भवेत् स्यात् तदेकधर्माविच्छिन्नवाचकत्वलक्षणपर्यायतेति तद्बलात् पङ्कजपदस्य पद्म शक्तिरिति समुदायशक्तिसिद्धिरित्यर्थः । पङ्कजपदेनानुपस्थितस्य पद्मस्य संस्कारमात्रोपस्थितस्य शाब्दबोधविषयत्वाभ्युप
-
4