________________
१९४
नयामृततरङ्गिणी-तरक्रिणीतरणिभ्यां समलतो नयोपदेशः।
P
...
संस्कारप्राकट्यात् प्रकारिणोऽप्युपस्थितेर्लक्षणोच्छेद एव, अत्रोक्तगङ्गापदान्यथानुपपत्याऽशक्यतात्पर्यस्यैव लक्षणाकल्पकत्वात् , यद्यपि 'गच्छ गच्छसि चेत् कान्त !' इत्यादावशक्यमरणतात्पर्यकत्वेऽपि न लक्षणा, अनुमाने नैव निर्वाहात्, तथाप्यसति गत्यन्तरे तात्पर्यस्य लक्षणाकल्पकत्वमित्यदोषः ।
ऋजुवन्तु-" घटादिपदानां विशेषतात्पर्यसाहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कज. निकर्तृ विशेषपद्मतात्पर्यग्रहसाहाय्येन पद्मान्वयबोधकत्वसम्भवादपि न तत्र शक्तिः, न चैवं पङ्कजनिकर्तृ. त्वेनैव तदुपस्थितिः स्यान्न पद्मत्वेनेति वाच्यम् , इष्टापत्तः, कथमन्यथा कदाचित् कुमुदेऽपि प्रयोगस्तव लक्षणया, मम तु तत्क्लप्तयाऽवयवशक्त्यैवाकालादिसमवहितया शक्यार्थविषयी कुमुदबोधसम्भव इति महान विशेषः ” इत्याहुः । यथा प्रकारे लक्षणाभावेऽपि संस्कारप्राकट्यात् तदुपस्थित्या शाब्दबोधे तस्य भान तथैव धर्मिणोऽपि संस्कारप्राकय्यादुपस्थितितः शाब्दबोधे भानसम्भवात् प्रकारिण्यप्यशक्ये लक्षणा नाश्रयणीयेति लक्षणोच्छद इत्याशङ्कय प्रतिक्षिपति- न चेति । प्रकारिणोऽपि धर्मिणोऽपि । यदि 'गङ्गाया घोषः' इत्यत्र गङ्गापदस्य गङ्गातीर शक्त्यमावलक्षणाभावोऽपि तहि गङ्गापदं तत्रानर्थक्यान्नोच्चारणीयं स्यात् , उच्चार्यते च वृद्धपरम्परया तत्र गनापदमिति तदन्यथानुपपत्त्या तत्प्रयोक्तुर्यदशक्ये गङ्गातीरे तात्पर्य गङ्गापदं गङ्गातीररूपार्थ बोधयतु' इत्याकारकं तदेव गङ्गापदस्य गजातीररूपार्थे लक्षणां कल्पयतीति न लक्षणोच्छेद इति प्रतिषेधहेतुमुपदर्शयति- अत्रेति-' गङ्गाया घोषः' इत्यादिवाक्य इत्यर्थः । अशक्यतात्पर्यस्यैवेति-'पङ्कजमानय' इत्यादौ तु पद्मत्वाबोधनेऽपि पङ्कजनिकरूपार्थबोधकतया सार्थकं पङ्कजपदमिति न तस्यान्यथानुपपत्तिरित्यशक्ये पद्मत्वे न तस्य तात्पर्य किन्तु दर्शितयुक्त्येव संस्कारप्राकट्यादुपस्थितस्य पद्मत्वस्यान्वयबोधे भानमिति पद्मत्व विषयक तात्पीभावान्न तत्र लक्षणा कल्प्यत इत्याशयः। गत्यन्तराभावे सत्य शक्यतात्पर्यस्य लक्षणाकल्पकत्वं न तु अशक्यतात्पर्य मात्रस्येत्याह- यद्यपीति । “गच्छ गच्छसि चेत् कान्त!" इत्यादाविति-अत्रादिपदात् " पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् "॥ इति चरणत्रयस्य परिग्रहः, साहित्यग्रन्थ ] इयं च स्वामिनं प्रति तत्परदेशगमन प्रतिषेधार्थ भार्याया उक्तिः, त्वं चेत् गच्छसि चेत् तदानीमेवाहं म्रिये. तस्मान्मम जीवन वाञ्छसि चेद् मा गच्छेति वक्या भार्यायास्तापर्थम् , इत्थं चोक्तवाक्यघटकस्य कस्यापि पदस्य मरणं न शक्यमित्यशक्ये मरणे उक्तवाक्यस्य तात्पर्यसत्त्वेऽपि न तत्र लक्षणा, तामन्तरेणैव मरणरूपार्थप्रतीतिसम्भवात् , उक्तवाक्यप्रयोगकाल जीवन्त्यास्तस्या भर्तुर्यत्र गमनं तत्र जन्म तदैव सम्भवति यदि तमनसमनन्तरमेव तस्या मरणं भवेदिति भगन्तव्य. देशीयतजन्मना तदीयमरणमनुमीयत इत्यनुमानादेव मरणावतिसम्भवान्न तत्र लक्षणया प्रयोजनमिति न मरण. तार्पयस्य लक्षणाकल्पकत्वमित्यर्थः । तथापि तत्रानुमानेन तात्पर्यविषयीभूताशक्यमरणरूपार्थावगतिसम्भवेऽपि । असतीति-- यस्य तात्पर्यविषयीभूताशस्थार्थस्य नानुमानादितोऽवगतिसम्भवस्तस्मिन्नर्थेऽशक्ये तात्पर्यस्य गत्यन्तरविरहेण तदवगतये लक्षणाया आवश्यकत्वमिति तादृशतार्पयस्य लक्षणाकल्पकत्वेन न लक्षणोच्छेद लक्षणो दोष इत्यर्थः ।
पङ्कजपदस्य पद्मत्वेन पद्मवोधने समुदायशक्ति प्रकारान्तरेण निराकुर्वतामृजूनां मतमुपदर्शयति-ऋजवस्त्विति-अस्य 'आहः' इत्यनेन सम्बन्धः । विशेषतापर्यसाहाय्येनेति-घटपदं नोलघटं बोधयतु, पीत घटं बोधयतु' इत्यादिविशेषतात्पर्थसहकारेणत्यर्थः । न तत्र शक्तिः न पङ्कजपदस्य पद्मरूपार्थे समुदायशक्तिः । ननु पङ्कजपदस्य यदि पद्मत्वेन पद्यरूपार्थे न समुदायशक्तिः किन्तु पङ्कजनिकर्तृत्वेन रूपेणावयवशक्तिरेव तर्हि पद्धजनिकर्तृत्वेनव रूपेण पद्मोपस्थितिः स्याम्न तु पद्मत्वेन रूपेण पद्मोपस्थितिरित्याशङ्कामिष्टापत्त्या प्रतिक्षिपति-न चेति- अस्य ‘वाच्यम् ' इत्यनेनान्वयः । एवं पङ्कजपदस्य पभत्वेन रूपेण पञ समुदायशक्त्यनभ्युपगमे । तदुपस्थितिः पद्मोपस्थितिः । इष्टापत्तेरितिपङ्कजपदात् पङ्कजनिकर्तृत्वेनैव पद्मस्य बोधो न तु पद्मपेनेत्यापादनस्येष्टापत्तिरूपत्वेनादोषत्वादित्यर्थः । यदि भवन्मते पङ्कजपदात् पद्मत्वेन रूपेण बोधस्तदा पद्मत्वस्य कुमुदे बाध.त् कुमुदे पङ्कजपदप्रयोगः कदाचिज्जायमानो विरुध्येत, अतः कुमुदे लक्षणया तत्प्रयोगः कल्पनीयः, अस्मन्मते तु पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वाच्छस्यैव तत्र तत्प्रयोगस्य सम्भवाल्लक्षणा . श्रयणं न कर्तव्यमिति भवन्मतापेक्षयाऽस्मन्ते विशेषोऽपीत्याह-कथमिति । अन्यथा पङ्कजपदात् समुदायशक्त्या पद्मत्वेन