________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१९३
कत्वादिना तदज्ञा(तज्ज्ञा)नस्य पूर्वमपि गवादिपदे सम्भवेन व्यभिचाराभावात् , न च पूर्वोक्तरीत्यानुभवजनकत्वस्याप्यव्यभिचारः, ' इदं पदमेतदर्थानुभवजनकम्' इति स्वातन्त्र्येण पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव हेतुतायाः परेणाभ्युपेतत्वात् तस्य चाधुनिकसङ्केतस्थले व्यभिचारदर्शनादिति दिक् । .
न च शब्दसम्बन्धमनपेक्ष्य संस्कारमात्रोपस्थितस्य " पङ्कजमानय " इत्यत्रान्वये पद्मत्वव्यापकानां द्रव्यत्वादीनामन्वयः स्यादिति वाच्यम्, शब्दसम्बन्धोपगमेऽपि संस्कारप्राकट्यस्यावश्योपजीव्य. त्वात् , 'घटमानय' इत्यत्र छिद्रेतरघटत्वस्येव प्रकारस्यापि भाने न लक्षणोच्छेद इति तूक्तप्रायम् , न च इत्यभिप्रायस्थले । व्यभिचारदर्शनात् तत्र प्रथमत — एतर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानं यद्यप्यस्ति तथापि तद् एतदर्थज्ञानमेतत्पदजन्यम्' इत्याकारालिङ्गितमेव, न तु 'एतत्पदमेतदर्थविषयकानुभवजन कम्' इति स्वरूपाकलितमिति देवदत्तरूपार्थविषयकानुभव जनकत्वज्ञानाभावेऽपि देवदत्तपदाद् देवदत्तरूपार्थविषयकानुभवमावन व्यतिरेकव्यभिचारदर्शनात्, एवं च पद्मवप्रकारकपद्मविषयकानुभवजनक पद्मत्वप्रकारकपद्मविषयस्मरणजनकत्वं वा न पङ्कजपदस्य पद्मरूपाय शक्तियन समुदायशक्तिस्तस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकस्य स्यात् , किन्तु ततो व्यतिरिक्तव सङ्केतलक्षणा शक्तिः, सा पङ्कजपदस्य पद्मरूपाय नेष्यते. किन्तु . व्युत्पत्तिग्रहापेक्षितपद्मत्वनियतशक्तिग्रहाहितसंस्कारादेव फलबलकल्प्योदोधितात् पद्मत्वोपस्थितिरिति ।
ननु यदि पङ्कजपदस्य न पद्मत्वेन. रूपेण पद्मरूपाय शक्तिः किन्तु पद्मत्वनियतशक्तिमहाहितसंस्कारमात्रादेव पद्मत्वोपस्थितिस्तर्हि पङ्कजनिकर्तृरूपार्थ या तस्यावयवशक्तिः सा यथा पद्मत्वनियता तथा पद्मत्वव्यापकद्रव्यत्वादिनियताऽपीति तादृशक्तिमहाहितसंस्कारात् पद्मत्वस्येव द्रव्यत्वादीनामप्युपस्थितिसम्भवात् पङ्कजमानयेत्यत्र पङ्कजपदासम्बद्धस्य संस्कारमात्रोपस्थितस्य पद्मत्वस्येव पङ्कजपदासम्बद्धानां पद्मत्वव्यापकानां द्रव्यत्वादोनामपि संस्कारमात्रोपस्थितानामन्वयबोधः स्वादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यत्रान्वयः । पल्कजपदावयवशफेर्यथा पद्मत्वनियतत्वं पङ्कजनिकर्तरि पद्म पद्मत्वस्य सत्त्वात् तथा. पद्मत्वव्यापकद्रव्यत्वादिनियतत्वमपि द्रव्यत्वादीनामपि तत्र. सत्त्वादित्यावेदयितुं 'पद्मत्वव्यापकानाम्' इति 'द्रव्यत्वादीनाम्' इत्यस्य विशेषणम् । शब्दस्य शक्तिलक्षणसम्बन्धस्यार्थे सत्त्वेऽपि पूर्वानुभवाहितशक्तिविषयकसंस्कारः प्राकट्यलक्षणोद्बोधशाली यावन्न भवति तावच्छक्तिस्मरणं न भवतीति शक्तिस्मरणे तरसंस्कारोट्रोधोऽवश्यमपेक्षितव्यः, शक्तिस्मरणाचार्थस्मरणं तदेव भवति यदि तदर्थविषयकसंस्कारः प्रकटो भवति नान्यथति संस्कारप्राकट्यस्य संस्कारों द्वोधस्वभावस्यावश्यमपिस्थितावुपजीव्यत्वेन पङकजपदस्य पनत्वे समुदायशक्तिलक्षणसम्ब. न्धाभावेऽपि पद्मत्वानियतावयवशक्तिमहाहितपद्मत्व विषय कात् संकारादुद्वोधलक्षणप्राकट्यालिङ्गितात् पद्मत्वोपस्थितिः सम्भवति, द्रव्यत्वादीनां चोक्तशक्तिव्यापकत्वेऽपि न तद्विषयकः संस्कारस्तादृशशक्तिमहाहितो नवा ततः प्रकटितः स इति 'पकजमानय' इत्यत्र सस्कारमात्रोपस्थितस्य पद्यत्वस्यवान्वयबोधो न द्रव्यत्वादीनामिति प्रतिक्षेपहेतुमुपर्शयति-शब्दसम्बग्धोपगमेऽपीति - शब्दस्यार्थेन सह शक्तिलक्षणसम्बन्धोपगमेऽपीत्यर्थः । ननु पक्कजपदस्य न पद्मत्वे शक्तिनका लक्षणाथापि पात्वस्य प्रकारविधयाऽन्वयबोधे भान यदि तदा ' गङ्गायां घोषः' इत्यत्रापि गङ्गापदस्य गहातीरे लक्षणात्मकसम्बन्धाभावेऽपि तस्यान्वयबोधे भानसम्भवालक्षणोच्छेद इत्यत आह- 'घटमानय' इत्यत्रेति- जलधारणादिकार्यार्थ घटस्यानयनमभिप्रेतम् . न च च्छिद्रघटेन जलधारणादिकं सम्भवति ततश्छिद्रेतरघटत्वेन घटे घटपदस्य शक्त्यभावेऽपि 'घटमानय' इति वाक्यजन्यशाब्दबोधे छिद्रेतरघटत्वं प्रकारतया भासते तथा पद्मत्वरूपप्रकारस्य पदासम्बद्धस्य शाब्दबोधे भानेऽपि प्रकारिणो धर्मिणो न पदासम्बद्धस्य शाब्दबोधे भानमिति गङ्गातीरत्वस्य लक्ष्यतावच्छेदकस्य प्रकारीभूतस्य पदासम्बद्धस्य शाब्दबोधे भानसम्भवात् तत्र लक्षणाभावेऽपि धार्मको गङ्गातीरस्य पदासम्बद्धत्वे तद्भानासम्भवात् तभानाथ महातीरे गङ्गापदस्य लक्षणाऽऽवश्यकीति न लक्षणोच्छेद इत्यर्थः । उक्तप्रायमिति-'अथ लाक्षणिकमननुभावकमेव' इत्यादिग्रन्थेन प्रकारान्तरेण लक्षणाया आवश्यकत्वमुक्तमित्यत उक्तप्रायमित्युक्तम् , 'भाने न' इत्यत्र प्रकारस्यापि ' इत्यपेः 'भाने' इत्खनन्तरं सम्बन्धः तेन प्रकारस्य भानेऽपि न लक्षणोच्छेद इत्यन्वये उक्तोऽर्थः स्पष्टमेवावभासत इति । ननु
२५