________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भावादर्थप्रतीतेश्वानुभवसिद्धत्वाद् व्यभिचारेण नेदं हेतुः, किन्तु तद्विषयानुभवजनकत्वज्ञानमेव, न च देवदत्तादिपदे व्यभिचारान्न तस्यापि हेतुत्वम् 'एतदर्थ ज्ञानमेतत्पदजन्यत्वेने च्छाविषयः' इति ज्ञानेऽर्थज्ञाने पदजन्यत्ववैशिष्ट्यमाने ध्रुवे पदेऽपि तज्जनकत्वज्ञानसम्भवादिति वाच्यम्, सङ्केतत्वेन रूपेण तदज्ञा( तज्झा) नस्य हेतुत्वानभ्युपगमेन तेन रूपेण व्यभिचारज्ञानेऽप्यदोषात्, तद्धी जनकतावच्छेदकतावच्छेद
१९२
पति- न चेति- अस्य ' वाच्यम्' इत्युत्तरेण योगः । अर्थप्रतीते च गवादिपदाद् गवादिरूपार्थप्रतीतेश्व । व्यभिचारेणेति'गोपदाद् गोरूपार्थो बोद्धव्यः इत्याकारकाभिप्रायरूपस्य सङ्केतस्य ज्ञानाभावेऽपि गोरूपार्थप्रतीतेर्भाव इत्येवं व्यतिरेकव्यभिचारेणेत्यर्थः । नेदं हेतुः निरुताभिप्रायहासङ्केतज्ञानं नार्थप्रतीतिनिबन्धनम्, तथा च नाभिप्रायविशेषलक्षणसङ्केतः शक्तिरित्याशयः । यदि नोक्तप्रकेत ज्ञानमर्थप्रतीतिनिबन्धनं तर्हि किमर्थप्रतीतिनिबन्धनमिति पृच्छति - किन्त्विति । उत्तरयति - तद्विषयेति - गोत्वप्रकारक गोविषयकानुभवजनकत्वज्ञानमेव गोरूपार्थप्रतीतिजनकमिति तद्विषयकानुभवजनकत्वमेव तत्र शक्तत्वमित्याशयः । ननु देवदत्तोऽस्तीत्यादिवाक्यस्थले ' देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषस्य ज्ञानादेव देवदत्तरूपार्थप्रतोतिर्न तु 'देवदत्तत्वप्रकारक देवदत्तविषयकानुभवजनकं देवदत्तपदम् ' इत्याकारकाद् देवदत्तविषयकानुभवजनकत्वज्ञानादिति व्यभिचारेण तद्विषयकानुभवजनकत्वज्ञानमपि नार्थप्रतीतिनिबन्धननिति तद्विषयकानुभवजनकत्वमपि न पदस्य तत्र शक्तत्वमित्याशक्य प्रतिक्षिपति-न वेति । न तस्यापि हेतुत्वं तद्विषयकानुभवजनकत्वज्ञानस्यापि न तदर्थप्रतीतिजनकत्वम् एवं च न तद्विषयकानुभव जनकत्वस्य शक्तिरूपत्वमित्याशयः । निषेधे हेतुमाह- एतदर्थेति- 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषज्ञानस्य तत्रार्थप्रतीतिनिबन्धनत्वं यदुपेयते ततोऽपि तद्विषयकानुभवजन कमेतत् पदम्' इति ज्ञानस्यार्थप्रतीतिनिबन्धत्वमायात्येव यतो 'देवदत्तरूपार्थज्ञानं देवदत्तपदजन्यत्वेने च्छाविषयः' इत्येवं स्वरूपपर्यवसिते 'देवदत्तप्रदादसौ बौद्धव्यः' इत्यभिप्रायस्य ज्ञाने देवदत्तरूपार्थविषयकज्ञाने देवदत्तपदजन्यत्ववैशिष्ट्यस्य भाने खति देवदत्तप्रदेऽपि देवदत्तरूपार्थविषयक ज्ञान जनकत्वस्य ज्ञानसम्भवादित्यर्थः । निरुक्ताशङ्का प्रतिक्षेपहतुमुपदर्शयति- सङ्केतत्वेन रूपेणेति । तज्ज्ञानस्थ सङ्केतज्ञानस्य । हेतुत्वानभ्युपगमेन अर्थप्रतीतौ कारणत्वानभ्युपगमेन । तेन रूपेण सङ्केतत्वेन रूपेण । व्यभिचारज्ञानेऽपि सङ्के नत्वेन रूपेण सङ्केनज्ञानाभावेऽपि गवादिपदाद् गवाद्यर्थप्रतीतिभावेन व्यति रेकव्यभिचारज्ञानेऽपि । अदोषात् देवदत्तादिपदे सङ्केतज्ञानस्येत्यादिनोपदर्शितस्य दोषस्याभावात् । तदर्थासङ्केतितपदज्ञानतोऽतिप्रसङ्गभयतस्तदर्थविषयकानुभवस्यानभ्युपगन्तव्यत्वेन तदर्थसङ्केतितपदज्ञानमेव तदर्थप्रतीतिकारणमिति तदर्थप्रतीतिजनकता तदर्थसङ्केतितपदज्ञाननिष्ठा, विषयतासम्बन्धेन तन्निरूपिताऽवच्छेदकता पदनि तन्निरूवितावच्छेदकता सङ्केतनिष्टेति तद्रूपेण सङ्केतज्ञानस्यार्थोपस्थितितः प्राग् गवादिपदतो गवाद्यर्थानुभवस्थले सम्भवेन तद्रोण सङ्केतज्ञानस्यार्थप्रतीतौ कारणत्वे व्यभिचाराभावादित्याह - तद्धीजन कलेति- अर्थप्रतीतिजनकतेत्यर्थः । तज्ज्ञानस्य सङ्केतज्ञानस्य । पूर्वमि देवदत्तादिपदे सङ्केतज्ञानस्य कारणत्वावधारणात् पूर्वमपि यद्यपि सङ्केतितपदज्ञानत्वेनावस्थितौ पदज्ञानस्य कारणखे सङ्केतत्वेन सङ्केतज्ञानस्य पूर्व सत्त्वमावश्यकमेवेति तेन रूपेण व्यभिचारज्ञानात् तद्र्पण तज्ज्ञानस्य न कारणत्वमिति दोषः स्यादेव तथापि शक्तिप्रदज्ञानत्वेनैव कारणत्वम्, शक्तिश्च तदर्थविषयकानुभवजनकत्वरूपा परेण स्त्रीक्रियते, तदतिरिक्तशक्तित्रादिना च निरुक्ताभिप्रायविशेषलक्षणसङ्केतरूपा सा स्वीक्रियते, तज्ज्ञानं च सके तत्वज्ञानं विनापि शक्कित्वेन रूपेण सम्भवतीति बोध्यम् । ननु यथोक्तदिशा सङ्केतज्ञानस्यार्थानुभवे व्यभिचारपरिहारो भत्रता क्रियते तथा ' एतदर्थज्ञानमेतत्पदजन्यत्वेन इत्यादिप्रन्थे नैतदर्थविषयकानुभवजनकत्वज्ञानस्यापि व्यभिचारः परिह्रियते एवेति विनिगमनाविरहात् किमित्यर्थविषयकानुभवजनकत्वज्ञानस्थार्थविषयकप्रतीतौ न कारणत्वमित्यशाक्य परिहरति-न खेति । 'पूर्वोक्तरीत्या - नुभवजनकत्वस्य ' इति स्थाने 'पूर्वोक्तरीत्याऽनुभवजनकत्वज्ञानस्य' इति पाठो युक्तः । निषेधहेतुमाह- इदमिति । 'स्वातन्त्र्येण इत्यनेन एतदर्थज्ञानमेतत्पदजन्यत्वेने च्छाविषयः' इति, ज्ञाने साक्षादर्थज्ञाने पदजन्यत्ववैशिष्ट्य माने सति तदनन्तरं पदे यदर्थविषयकानुभवजनकत्वज्ञानं तस्य यत् पारतन्त्र्येण कारणत्वं तस्य व्यवच्छेदः । 'पदेऽनुभव जनकल्ये वैशिष्ट्यज्ञानस्यैव' इति स्थाने पदेऽनुभवजन कत्य वैशिष्ट्य ज्ञानस्यैव' इति पाठो युक्तः । परेण तदर्थविषयकानुभवजनकत्वमेव पढ़े तत्र शक्तत्वमिति वादिना । तस्य च ' इदं पदमेतदर्थविषयकानुभवजनकम्' इत्याकारकस्य स्वातन्त्र्येण पदे तदर्थविषय कानुभव जनकत्व वैशिष्ट्य ज्ञानस्य च । आधुनिक सङ्केतस्थले 'देवदत्तवदादसौ बोद्धव्यः