________________
तीन- 3870१९१
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृत
भवेऽतिप्रसङ्गादिति वाच्यम्, पूर्वपूर्वतरज्ञानविषयत्वस्यैव सम्बन्धत्वात् तस्य चानादित्वादिति वाच्यम्; उक्तानुभव-स्मरणजनकत्वमेव शक्तत्वमित्यभ्युपगमे गङ्गापदादेश्तीरत्वप्रकारकती राद्यनुभवजनकत्वेन तत्र शक्तिप्रसक्तौ लक्षणामात्रोच्छेदप्रसङ्गात्; अथ लाक्षणिकमननुभावकमेव 'गङ्गायां घोष: ' इत्यत्र घोषादिपदस्यैव लक्षणास्मारिततीरान्वयानुभवजनकत्वात्, तस्य च शक्तत्वादेव नोक्तदोष इति चेत् ? - तथापि तत्प्रकारकतद्विषयक ज्ञानजनकत्वाप्रतिसन्धानेऽपि देवदत्तादिपदादसौ बोद्धव्यः ' इत्यभि. प्रायप्रतिसन्धानादर्थोपस्थितेर्दर्शनात् सर्वत्र तत्तदर्थं विशेषेऽभिप्रायविशेषविषयत्वस्यैव पदानां वाचकत्वस्य व्यवस्थितेः न च देवदत्तादिपदे सङ्केतज्ञानस्य कारणतावधारणात् पूर्वं गवादिपदेषु सङ्केतकल्पक प्रमाणा
"
येति - अस्य ' वाच्यम्' इत्यनेनान्वयः । तदभावे अतिरिक्त शक्त्यभावे । असम्वद्धस्यानुभावकत्वं स्मारकत्वं वा नाङ्गीक्रियते येनातिप्रसङ्गः स्यात्, किन्तु पूर्वपूर्वतरज्ञानविषयत्वमेवार्थेन सह पदस्थ सम्बन्धः, ज्ञानं च समूहालम्बनं पदार्थयोप्रत्यमिति नातिप्रसङ्ग इति निषेधहेतुमुपदर्शयति-- पूर्वेति । तस्य च पूर्वपूर्वतरज्ञानविषयत्वलक्षणसम्बन्धस्य पुनः । अनादित्वात् ज्ञानस्य सादिले तत्समानकालीनस्य तद्विषयत्वस्यापि यद्यपि सादित्यमेव तथापि पूर्वपूर्वतरज्ञानपरम्पराया अनादित्वेन तदाश्रयणेन तद्विषयत्वस्य प्रवाहृतोऽनादित्वमिति बोध्यम् । पद्मत्वप्रकारकपद्मविशेष्यका नुभव जनकत्वतथात्रिवस्मरणजनकत्वयोः शक्तित्वप्रतिषेधे हेतुमुपदर्शयति- उक्तानुभवेति- पद्मत्वप्रकारकपद्मविशेष्यकानुभवेत्यर्थः । गङ्गापदादेरिति- 'गङ्गायां घोष:' इत्यत्र 'गङ्गातीरे घोष:' इति शाब्दबोधानुरोधेत गङ्गापदस्य गङ्गातीरत्वप्रकारकतीर विशेष्यकानुभव जनकत्वमवश्यमेषितव्यमिति गङ्गापदस्योत्क्तानुभवजनकवलक्षणं गङ्गातीरशक्तत्वमेव भवेत् एवं यस्य पदस्य यस्मिन्नर्थे लक्षणा शाब्दानुभवानुरोधेनोपयते तस्य पदस्य तदर्थविषयकानुभव जनकत्वलक्षणतच्छकत्वमेव स्यादिति लक्षणात्मकशब्दवृतेरुच्छेदप्रसङ्गादित्यर्थः । ननु पदानां शक्ति लक्षणान्यतरसम्बन्धेनेतरपदार्थान्वितस्त्र शक्यार्थबोधं प्रति जनकत्वमेवानुभावकत्वम् ' गङ्गायां घोष:' इत्यत्र गङ्गापदस्य घोषपदार्थान्वितस्वाक्यार्थ शाब्दबोध जनकत्वाभावेन नानुभावकत्वं किन्तु घोषपदस्यैव गङ्गापदार्थ गङ्गातीरान्वितस्वराक्यार्थ घोषविषयकशाब्दबोधजनकत्वेनानुभावकत्वमिति तत्र घोषपदस्येव शक्तत्वं न तु गङ्गापदस्य, किन्तु तस्य गङ्गातीररूपार्थे लाक्षणिकत्वमेवेति न लक्षणोच्छेद इति शङ्कते - अथेति । लाक्षणिकस्याननुभावकत्वे कथं लाक्षणिकार्थस्य शाब्दबोधे भानमित्यपेक्षायामाह - गङ्गायां घोष इत्यत्रेति तथा च यस्मिन् वाक्ये सर्वाण्येव पदानि शक्तानि तत्र सर्वेषामेव पदानां तद्धटकानामनुभावकत्वम्, यत्र तु किञ्चिदेव पदं शकं तत्र तस्यैव शक्तस्य पदस्यानुभावकत्वम् तथा च गङ्गायां घोष:' इत्यत्र घोषपदस्य लक्षणया गङ्गापदस्मारित गङ्गातीररूपार्थान्वयानुभवजनकत्वालाक्षणिकार्थस्य शाब्दबोधे मानं संभवतीत्यर्थः । तस्य च घोषपदस्य च । नोकदोषः न लक्षणामात्रोच्छेदप्रसङ्गः । समाधत्ते - नेति । तथापि उक्तदिशा लक्षणोच्छेदप्रसङ्गपरिहारेऽपि पदस्य शक्तिलक्षणवृत्तिज्ञान सहकारणार्थोपस्थितिद्वारा शाब्दबोधजनकत्वं भवति, तथा च यज्ज्ञानमर्थोपस्थितौ पदस्य सहकारि भवति तस्यैव शक्तित्वं कल्पयितुमुचितम् तथा च देवदत्तपदादसों बोद्धव्य इत्याकारकस्याभिप्रायस्य ज्ञानाद् देवदत्तपदाद् देवदत्तरूपार्थोपस्थित्या देवदत्तरूपार्थान्वयबोधो भवतीति तादृशाभिप्रायस्य शक्तित्वम् एवमन्यत्रापीति सङ्केत एवं शक्तिः, देवदत्तत्वप्रकारक - देवदत्तविषयका नुभवजनकत्वस्य ज्ञानाभावेऽपि निरुक्तामिप्रायज्ञानाद् देवदत्तान्वयानुभवोत्पादेन व्यभिचारेण नोक्तानुभवजनकत्वज्ञानस्यार्थोपस्थितौ पदस्य सहकारित्वमिति नोक्तानुभवजनकत्वं निरुक्तस्मृतिजनकत्वं वा शक्तिरिति पङ्कजपदस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकत्वेऽपि तथाविधस्मृतिजनकत्वेऽपि न समुदायशक्तेरावश्यकत्वं शक्तेर्निरुकानुभवजनकत्वादितो भिन्नत्वादित्याशयेनाह - तत्प्रकारकेति - देवदत्तत्वप्रकारकेत्यर्थः । तद्विषयकेति - देवदत्तविषयकेत्यर्थः । सर्वत्र घटपटादिपदेऽपि । ननु देवदत्तादिपदे उक्ताभिप्रायविशेषलक्षणसङ्केतज्ञानस्य देवदत्तपदाद् देवदत्तोपस्थितौ कारणस्वेऽवधृते एव तद्दृष्टान्ताद् गवादिपदाद् गवाद्ययवस्थितावपि निरुक्तसङ्केतज्ञानस्य कारणत्वावधारणतो गवादिग्दस्य गवाद्यर्थे सङ्केतलक्षणा शक्तिः सिद्धयेत् यदा तु देवदत्तादिपदस्यानुपस्थित्या न ततोऽर्थोपस्थितौ निरुक्तशक्तिज्ञानस्य कारणत्वमववृतं तदानीं प्रमाणाभावान्न निरुक्ताभिप्रायविशेषलक्षणसङ्केतस्थ गवादिपदेषु सिद्धिः अथापि गवादिपदादर्थविशेषप्रतिपत्तिरनुभूयत इति व्यभिचारेण नोक्ताभिप्राय विशेष ज्ञानस्यार्थोपस्थिती हेतुत्वमिति नोकाभिप्रायस्य शक्तित्वमित्याशङ्कां प्रतिक्षि