________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
प्रतिबन्धकत्वं कल्पनीयं ' गो-बलीवर्दी' इत्यत्र बलीवर्दसमभिव्याहृतगोपदस्य बलीवर्दस्मरण इव, तेन न कुमुदप्रियस्य कुमुदस्मरणेन पद्म एव प्रयोगप्रतिबन्धः । न चैवं लक्षणयापि पङ्कजपदात् कुमुदानुपस्थिति प्रसङ्गः, शक्त्या तदुपस्थितावेव तत्प्रतिबन्धकत्वात्, अत एवावयवशक्तावेव केचित् कौब्जयं कल्पयन्ति न च, पद्मत्वप्रकारकपद्मविषयानुभवजनकत्वात् तादृशस्मरणजनकत्वाद् वान्यत् पदस्य शक्तत्वम्, तदशातज्ज्ञानस्य नैयायिक-मीमांसकयोः पदार्थप्रत्यये व्यभिचारेणाकरणत्वात् तदनुपयुक्तायाश्च शक्तित्वस्य परिभाषामात्रत्वादिति समुदायश केरावश्यकत्वम्, न च तद्भावेऽनुभावकत्वस्यैवानुपपत्तिः, असम्बद्धानु
१९०
द्युत्तरपदस्य कुमुदादिस्मारकत्वमपि संभवति, ततो न तस्य कुमुदादिस्मरण प्रतिबन्धकत्वमित्येवकारेण तस्यापि व्यवच्छेदः, एवं पद्मवस्मरणस्य कुमुदादौ पङ्कजपदप्रयोग प्रतिबन्धकत्वस्य व्यवच्छेद इति लाघवम् । उक्तप्रतिबन्धकत्वकल्पनस्य सम्यकूवावगतये दृष्टान्तमाह- गो-बलीवर्दावित्यत्रेति यत्र ' गौरस्ति' इति वाक्ये केवलं गोपदमस्ति तत्र गोपदादू गोत्वेन रूपेण बलीवर्दस्यापि स्मरणं भवत्येवेति बलीवर्दपदासमभिव्याहृतस्य गोपदस्य न बलीवर्दस्मरणप्रतिबन्धकत्वं किन्तु बलीवईसमभिव्याहृनगोपदस्येति बोध्यम् । पद्मत्वस्मरणस्य कुमुदे पङ्कजपदप्रयोग प्रतिबन्धकत्वे यस्य प्रमातुः कुमुदमेव कमलापेक्षयाऽतिप्रियं तस्य पङ्कजपदात् कुमुदस्मरणमपि पद्म पङ्कजपदप्रयोगप्रतिबन्धकं किमिति न भवेदिति दोषोऽपि पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वपक्षे न सम्भवति, ज्ञांते पकपदोत्तरजपदे कुमुदस्मरणस्यैवाभावादित्याह - तेनेति - पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वेनेत्यर्थः । नमः ' प्रयोगप्रतिबन्धः ' इत्यनेनान्वयः । प्रयोग प्रतिबन्धः पङ्कजपदप्रयोग प्रतिबन्धः । ननु यदि पकपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वं तदा यत्र लक्षणया पङ्कजपदं कुमुदे प्रयुज्यते तत्र लक्षणारूपवृत्तिग्रहसहकारेण पङ्कजपदाद् यत् कुमुदस्मरणं भवति तदपि न स्यात् तत्रापि पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकस्य सद्भावादित्याशङ्कां प्रतिक्षिपति - न चैत्रमिति । एवं पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वकल्पने । शक्तयात्मक वृत्तिमह जन्म कुमुदस्मरणं प्रत्येव पङ्कपशेत्तर जपदस्य प्रतिबन्धकत्वं कल्प्यते, एवं च लक्षणात्मक वृत्तिप्रहजन्यकुमुदस्मरणस्य निरुक प्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वादेव पङ्कजपदादुत्पत्तावपि न क्षतिरिति निषेधहेतुमुपदर्शयति- शक्तयेति । तदुरस्थितावेव स्मरणात्मककुमुदोपस्थितावेव एवकारेण लक्षणया कुमुदोपस्थितेर्व्यवच्छेदः । तत्प्रतिबन्धकत्वात् पङ्कपदोत्तरपदस्य प्रतिबन्धकत्वात् । अत एव शक्ति प्रह जन्यकुमुदस्मरणे पङ्कपदोत्तरपदस्य प्रतिबन्धकत्वकल्पनादेव | यदि पङ्कजपदस्य पद्म समुदायशक्तिर्नाभ्युपेयते तदाऽवयवशक्तेः कुमुदे सत्त्वात् किमिति न कुमुदप्रतीतिरिति न वाच्यम्, शक्तिप्रहजन्यकुमुदस्मरणे पङ्कपदोत्तरपदस्य प्रतिबन्धकत्वेन सत्र सत्या अध्यवयवशक्तेः कुण्ठितत्वादित्यैवं केचित् कल्पयन्तीत्यर्थः । ननु पङ्कजपदस्य पद्म समुदाय शक्तिर्नास्तीत्येवमुक्तदिशा व्यवस्थापनमयुक्तम्, यतः पङ्कजपदस्य पद्मत्वप्रकारकपद्मविशेष्यकानुभवं प्रति यत् कारणत्वम्, यद्वा पद्मश्वप्रकारकपद्मविशेष्यकस्मरणं प्रति यत् कारणत्वम् तस्यैव शक्तित्वं न तूक्तकारणत्वादतिरिक्ता शक्तिः समस्ति, तज्ज्ञानाभावेऽपि पदार्थानुभवस्य पदार्थस्मरणस्य वा भावेन व्यभिचारेण तज्ज्ञानस्य कारणत्वासम्भवात् तथा च निरुतानुभव जनकत्वरूपाया निरुकस्मरणजनकत्वरूपाया वा समुदायशक्तेः पङ्कजपदे सद्भावात् समुदायशक्तिर्नास्तीति कथनमयुक्तमित्याशङ्क्य प्रतिक्षिपति न चेति- अस्य वाच्यम्' इति व्यवद्दितेन सम्बन्धः 6 'तादृशस्मरणजनकत्वाद् वाऽन्यत् पदस्य शक्तत्वम्' इत्यस्य स्थाने " तादृशस्मरण. जनकत्वाद् वा नान्यत् पदस्य शक्तत्वम्” इति पाठो युक्तः । निरुक्तजन कवलक्षणशक्तिश्च स्वरूपसत्येवोपयुक्ता न तु ज्ञाता, तज्ज्ञानाभावेऽपि पदार्थप्रत्ययोदयेन व्यभिचारादित्याह तज्ज्ञानस्येति- निरुक्तशक्तिज्ञानस्येत्यर्थः । निरुक्तः नुभवजनकत्व-निरुक्तस्मरण जनकत्वव्यतिरिक्ता च शक्तिर्न पदार्थप्रत्यये उपयुज्यते इति तां परिकल्प्य तस्याः शक्तित्वस्य परिभाषामात्रत्वेन न परीक्षकै रुपादेयत्वभित्याह- तदनुपयुक्तायाश्चेति पदार्थ प्रत्ययानुपयुक्तायाश्चेत्यर्थः । ननु पद्यत्वप्रकारक - पद्मविशेष्यकानुभवजनकत्व- पद्मत्वप्रकारकपद्मविशेष्य कस्मरणजनकत्वाभ्यां व्यतिरिक्ता या समुदायशक्तिस्तस्या एवानावश्यकत्वं समभिरूढन यवादिनोऽभिमतम् यच भवद्भिर्निरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वस्यैव समुदायशक्तित्वमभिप्रेत्य समुदायशक्तेरावश्यकत्वं प्रतिपाद्यते तन्न युक्तं समुदायश केरभावे निरुक्तानुभवजनकत्व-निरुक्तमरणजनकत्व यो रेवानुपपत्तेः, नहि यच्छन्दो येनार्थेनासम्बद्धः स शब्दस्तमर्थमनुभावयितुं स्मारयितुं वा समर्थोऽतिप्रसङ्गादिति तटस्थाराङ्कां प्रतिक्षिपति - न