SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। त्पर्यविषयस्यापि शक्यतयाऽनियतानुभव विषयताप्रसङ्गात् , शक्याने कोपस्थितौ तात्पर्य नियामकमिति चेत् ? न- अशक्योपस्थितावपि तस्यैव तथात्वात् , न च कुमुदाद्यप्रतीत्यर्थं समुदायशक्तिकल्पनमित्यपि युक्तम् , तत्राशक्तेरेव तदप्रतिपत्तेः, नहि घट-पटादावपि पटाद्यप्रतिपत्त्यर्थं शक्तिकल्पनम्, न च योगस्य कुमुदादिसाधारणत्वात् तत्रापि प्रयोगप्रसङ्गः, योगपुरस्कारेणेष्टत्वात् , नहि 'पङ्कजशैवालमानय' 'पङ्कजकुमुदमानय 'इति प्रयोगं कश्चिद् बाध्यतया व्यवहरति, अस्तु वा परस्य समुदायशक्तिरिव मम पद्मवस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्ध कत्वम् , यद्वा पङ्कज(पङ्क)पदोत्तर'ज'पदस्यैव कुमुदादिस्मरण. अन्यथा तात्पर्यविषयत्वस्यानुमवविषयत्वनियामकत्वमनभ्युपगम्य शक्यत्वस्यैवानुभवविषयत्वनियामकत्वाभ्युपगमे । 'शक्यतयाऽनियत' इति स्थाने 'शक्यतया नियत' इति पाठो युकः, यदि शक्यत्वमेव शाब्दबोधात्मकानुभवविषयत्वनियामकं तर्हि अश्वानयनबोधेच्छ पोचरिते सैन्धवमानय' इति वाक्येऽपि सैन्धवपदस्याश्व इव लवणेऽपि शक्यत्वस्य भावेनाश्वानयनबोधवलवणानयन बोधोऽपि प्रसन्येते यर्थः। ननु नानार्थस्थले शक्यत्वाविशेषात् सर्वेषां शक्यार्थानामुपस्थिता. वपि यस्य शश्यार्थस्यान्वयचोधे तात्पर्यस्य ग्रहस्तस्यैव शक्यार्थस्यान्वयबोधो नान्यस्य शक्यार्थस्योपस्थितस्यापीत्याशङ्कतेशक्यानेकोपस्थिताविति । तात्पर्य तात्पर्यग्रहः । नियामक शाब्दबोधविषयत्वनियामकम् । नानार्थस्थले तात्पर्यग्रहविषयत्वस्य शाब्दयोधविषयत्वनियामकत्वव्यवस्थिती लाघवात् सर्वत्रैव तस्य तन्नियामकत्वमित्वशक्याने कोपस्थितावपि यस्यैवाशक्यस्यान्वयबोधेच्छयोश्चरितत्वग्रहस्तस्यैवान्वयवोधो नान्यस्येति नियमोपपत्तरिति समाधत्ते-नेति। तस्यैव तात्पर्य ग्रहस्वैव । तथात्वात् शाब्दबोधविषयत्वनियामकत्वात् । ननु पङ्कजपदस्य यथा न पद्मवे शक्तिस्तथा कुमुदत्वेऽपि एवं सत्यपि यथाऽशक्यस्यापि पयत्वस्यान्वयवोधस्तथा कुमुदत्वस्यापि स्यात् , तदापत्तिपरिहारार्थ पङ्कजपदस्य पद्मत्वे समुदायशक्तिकल्पनमावश्यकम् , एवं सति समुदायशक्त्योपस्थितस्य पद्मत्वस्यान्वयबोधो न तु कुमुदत्वस्य, तत्र समुदायशक्त्यभावादिसाशङ्कय प्रतिक्षिपति-न चति- अस्य युक्तम्' इत्यनेनान्वयः । शक्ती सत्यामपि कस्यचिदेव शक्यस्य भानमित्यत्र तात्पर्य नियामकम् . शक्यभिन्नस्यापि कस्यचिदर्थस्य भाने तात्पर्यमेव नियामकर, कुमुदत्वे तु न शक्तिवा तात्पर्यम्, पद्मवे तु शक्त्यभावेऽपि तात्पर्य समस्तीति पद्मत्वप्रतीतिः सम्भवति, न तु कुमुदत्वप्रतीतिरिति निषेधहेतु. मुपदर्शयति-तत्रेति- कुमुदत्वे इत्यर्थः। तदप्रतीतेः कुमुदत्वेन पङ्कजनिकषुरप्रतीतेः । समभिरूढ नये घटादिपदेनायि जलाहरणादिलक्षणक्रियात्मकचेष्टावस्वरूपयोगार्थमुपादायव घटाद्यर्थप्रतीतिः, तत्र घटत्वस्याशक्यस्य भानं तात्पर्यवलादेव, तात्पर्याभावादेव न घटादिपदतः पटाद्यर्थप्रतीतिरित्येतावतेवोपपत्ती न घटादिपदस्य घटखादी शक्तिकल्पनमित्याहनहीति-अस्य शक्तिकल्पनम्' इत्यनेनान्वयः । 'घट-पटादावपि' इति स्थाने 'घटादादावपि' इति पाठो युक्तः । ननु पङ्कजपदस्थावयवशक्तिलक्षणयोगतो लभ्यस्य पङ्कजनिकर्तृत्वरूपार्थस्य कुमुदादावपि पर जाते सत्त्वात् कुमुदादिकमुपादायापि पङ्कजमस्तीति प्रयोगः स्यादित्याशवामिष्टापत्त्या परिहरति-न चेति । तत्रापि कुमुरादावपि । प्रयोगप्रसा पङ्कजपदप्रयोगप्रसङ्गः । निषेधे हेतुमाह- योगपुरस्कारेणेति- पङ्कजनि कर्तृरूपार्थे या पङ्कजपदस्यावयवशक्तिस्तदालम्बनेने. त्यर्थः । इष्टत्वात् कुमुदादौ पङ्कजम्दप्रयोगस्टत्वात् । इटापत्ति नेत्र द्रढयति-नहीति- अस्य व्यवहरति' इत्यनेनान्वयः, “पङ्कजरीवालमानय' इयत्र पङ्कजपदस्य पङ्कजनिकरूपार्थादरणे सत्येव तस्याभेदेन शैवालपदार्थेऽन्ययो घटते. एवं 'पङ्कजकुमुदमानय' इत्यत्रापि, पद्मरूपसमुदायशक्तवार्थाश्रयणे तु तदभेदस्य शैवालादी बाधात् 'पङ्कजशैवालमानय ! इत्यादिवयोगस्य बाविनार्थकत्वेन बाध्योऽयं प्रयोग इत्येवं व्यवहारः स्यात्, न च कश्चिदेवं व्यवहरतीत्यतो ज्ञायते योगपुरस्कारेणायं प्रयोग इतीष्ट एवायमित्यर्थः। पङ्कजादस्य पने शक्तिरित्यभ्रान्त नसे यथा - समुदायशक्तिप्रहस्य कुमुदादौ पनपदप्रयोगप्रतिबन्धकत्वं तथा समभिरूहमते पद्मावस्मरणस्य तथावमित्याह - अस्तु वेति । परस्य समुदायशतप्रभ्युपगन्तुः, 'मत' इति शेषः। 'समुदायशक्तिरिव' इति स्थाने 'समुदायशकेरिव' इति पाटो युक्तः, पदस्थ पद्म शक्तिमजानानः कमुदादौ पङ्कजरहं प्रयुङ्ग एवेति समुदायशकेरित्यस्य समुदायशक्तिपहरयेत्यर्थः । लाघवादाह- यद्वेति- यद्यपि परपदोत्तरजपदस्य यथा कमलश तत्वेन कमलस्यैव. स्मारकत्वेन कुमुदादिस्मरणप्रतिबन्धकत्वं तथा नीरपदोत्ताजपदस्य, एवं जला दिपदोत्तरजपदस्थापि, तथापि कर्दमपदा
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy