________________
१९६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
तद्भानप्रसङ्गः, पशु(त्व-)गोत्वयोः प्रयोगोपाधित्वं शत्युपाधित्वं चेति तु परिभाषामात्रम् , घटादिपदे घट. त्वादेरपि तत्वापत्तेः, उपाधिभूतेन घटत्वा दिना संस्कारोपस्थितेरप्रकारेण निर्विकल्पकापत्तिनिरासस्यापि शक्यभाषणत्वात् , ' पद्मवस्मरणस्य पङ्कपदोचरजपदस्य वा कुमुदादिप्रयोगप्रतिबन्धकत्वं शक्तिकौव्यं(ज्य) वा कल्प्यते ' इत्यपि यदुक्तं तदयुक्तम् , अगृहीतपद्मशक्तेः पङ्कजपदात् पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदर्शनात् , अत एवाव्युत्पन्नः ' पङ्कजमानय' इति वाक्यश्रवणानन्तरं कुमुदानयने दोलायते, सामान्यशब्दत्वादमीषाम् ; · विशेषतात्पर्यवशाद् विशेषबोधकत्वम् ' इति यदुक्तं तत्रापि वस्तुगत्या यो विशेषस्तद्बोधकत्वं वा विशेषाकारेण वा ? आये पद्मत्वाननुभवापत्तिः, द्वितीये लक्षणाप्रसङ्गः, न चेष्टागमेऽतिप्रसङ्गदोषं सङ्गमयति-शब्दानुपस्थितस्येति । घटादावव्युत्पन्नस्येति- घटादौ घटादिपदशक्तिमजानानस्येत्यर्थः। तद्भानप्रसङ्गः शाब्दबोधे घटादिभानप्रसङ्गः । पशुपदस्य न लोमवल्लाङ्गलबत्त्व लक्षणपशुत्वावच्छिन्ने शक्तिः, गोपदस्य च न गोस्वावच्छिन्ने शक्तिः, किन्तु पश्वादिपदव्युत्पत्तिनिमित्तावच्छिन्न एव, एवमपि लोमलालवति यत् पशुपदं प्रयुज्यते, गोत्ववति गोपदं च प्रयुज्यते,. तत् पशुत्व-मोत्वयोः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमादित्यपि युक्तिरिक्तं स्वेच्छामात्रनिर्मितमेव, एवं सति घटत्वादेरपि घटादिपदप्रयोगोपाधित्व-शक्तयुपाधित्वयोरेव प्रसक्त्या घटादिपदानामपि घटत्वायच्छिन्ने शक्तेरुच्छेदापत्तरित्याह-पशुत्व-गोत्वयोरिति । परिभाषामात्र स्वेच्छामात्रकल्पितम्। तस्वापत्तेः प्रयोगोपाधिस्व-शक्त्युपाधित्वयोरापत्तेः। ननु घटादिपदस्य यदि घटत्वाद्यवच्छिन्ने न शक्तिः किन्तु यस्यां व्यक्ती घटत्वादिक वर्तते तस्यामेव व्यक्ती. घटादिपदं प्रयुज्यते, घटादिपदस्य च शक्तिरित्येवं घटत्वादेः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमे चटादिपदानिर्विकल्पकघटादिव्यक्तिप्रतीतिः स्यादित्यत आह- उपाधिभूतेनेति- 'संस्कारोपस्थितेरप्रकारेण इति स्थाने 'संस्कारोपस्थिती प्रकारेण ' इति पाठो युक्तः, यद्यपि घटत्वेन रूपेण घटे घटपदस्य न शक्तिः, किन्तु यस्यां व्यको घटत्वं तस्यामेव घटपरस्य शक्तिरिति शक्त्युपाधिभूते घटत्वे घटपदशक्त्यभावान्न शक्त्या घटत्वस्योपस्थितिः, तथापि संस्कारमात्रेण घटोपस्थितेः सम्भवन संस्कारप्रभवोपस्थितौ प्रकारेण घटत्वेन घटस्य प्रतीतितो न घटस्य निर्विकल्पकापत्तिरित्येवं गदितुं शक्यत्वादित्यर्थः । शक्यभाषणत्वाद इत्यस्प शक्यं गदितुं योग्यं भाषणं वचनं यस्य तत्त्वादित्यर्थः । यञ्च समुदायशक्त्यनभ्युपगन्त्रा परेण “अस्तु वा परस्य समुदायशक्तेरिव मम पद्मत्वस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्धकत्वम्, यद्वा पङ्कपदोत्तरजपदस्यैव कुमुदादिस्मरणप्रतिबन्धकत्वम्" इत्युक्तं तदपि न समीचीनमित्युपदर्शयतिपद्मत्वस्मरणस्येति । शक्तिकोज्यं वेति- एतच "अत एवावयवशकावेव केचित् कोज्यं कल्पयन्ति" इति ग्रन्थेनोकम् , तदयुक्तस्त्रे हेतुमुपदर्शयति- अगृहीतपद्मशक्तरिति- एतावता पङ्कजपदेन पद्मत्वस्मरणं न भवति, संस्कारमात्रेण भवतोऽपि पद्मत्वस्मरणस्य पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदशेनेन न सत्र तस्य प्रतिबन्धकत्वम् , पङ्कपदोत्तरजपदस्य तत्र भावेऽपि पङ्कजनिकतृत्वेन रूपेण कुमुदादिबोधस्य भावेन न तस्यापि तत्र प्रतिबन्धकत्वम् , अत एवावयवशक्तिकौब्जयमपि न सम्भवदुक्तिकमित्यर्थः। अत पत्र पङ्कजपदात् पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिवोधभावादेव । अव्युत्पन्नः पङ्कजपदस्य पद्मे समुदायशक्तिमजानानः प्रमाता, पङ्कजपदस्य पद्म शक्ति जानानस्तु प्रमाता पिङ्कजमानय' इति वाक्यश्रवणानन्तरं पङ्कजनिकर्तृपद्मानयनस्य कार्यत्वं निश्चिमोत्येवेति न स कुमुदानयने दोलायत इत्यत उक्तम्- अव्युत्पन्न इति । ऋजूनां यदपि मतम्-घटादिपदानां विशेषतात्पर्यसाहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कजनिकर्तृविशेषपद्मतात्पर्यग्रहसाहाय्येन पद्मान्वयवोधकत्वसम्भवादपि न तत्र शक्तिः, इति तदपि न समीचीनमित्यावेदयतिसामान्यशब्दत्वादिति- पद्मकुमुदादिसाधारणधर्मावच्छिन्नवाचकत्वादित्यर्थः । अमीषां पङ्कजादिशब्दानाम् । विशेष. तात्पर्यवशात् पङ्कजनिकर्तृविशेषपद्म पङ्कज पदं बोधयतु' इति तात्पर्यवशात् , 'पङ्कजपदं पङ्कजनिकर्तृविशेषपद्मविषयकबोधेच्छयोचरितम्' इति तात्पर्यग्रहसहकारेणेति यावत् । विशेषबोधकत्वं पङ्कजनिक विशेषपद्मबोधकत्वम् । उक्तस्यायुक्तत्वं भावयितुं विकल्पयति-तत्रापीति । आद्य वस्तुगत्या पङ्कजनिकर्तृरूपसामान्यस्य यः पद्मव्यक्तिलक्षणविशेषस्तबोधकंत्वमिति पक्षे । पद्मत्वाननुभवापत्तिः पड्मत्वेन रूपेण पद्मश्यानुभवो न स्यात् , किन्तु पङ्कजनिकत्वेनैव विशेषस्य पमध्यक्तिलक्षणस्थ प्रतीतिर्भवेत् । द्वितीय पङ्कजनिकविशेषपद्मस्य पदमस्वरूपविशेषाकारेण बोधकत्वमिति पक्षे ।