________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
१८७
नियमे तद्दोषाभावात्; सर्वे शब्दा व्युत्पन्ना एवेति वैयाकरणैकदेशिनां पक्षतः, एतन्मतेनैव जातिगुण क्रिया यदृच्छा शब्दवादिनः शब्दनयानुसारिणः, यदृच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिणश्च गो-घटादिपदे गोव-घटत्वादिविशिष्टशक्तेरन्वयव्यतिरेकाभ्यामवधारणेऽपि पङ्कजादिपदे योगमात्र मेवाहुः ।
न च पद्मत्प्रतीत्यर्थं तत्र समुदायशक्तिकल्पनमिति युक्तम्, व्युत्पत्तिग्रहापेक्षित पद्मत्वं (त्व) नियतशक्तिप्रहा हितसंस्कारात् फलवल कल्प्योद्बोधिताच्छक्तिस्मृतिवत् पद्मत्वोपस्थितेरप्युपपत्तेः, न च संस्कारोपस्थितस्य शाब्दबोधेऽप्रवेशो, अन्यथा 'किं पचति ? ' इत्युक्ते प्रत्यक्षोपस्थितं कलापमादाय तत्र कर्मत्वं (इ) स्मृतकलापकर्मक पाकबोधप्रसङ्गादिति वाच्यम्, अन्यान्ययतात्पर्य के पुरुषान्तरेण कलापमित्यक्रियाप्रवृत्तिनिमित्तको गत्यादिशब्दः, यदृच्छाशब्दः स्वेच्छाकल्पितोपाधिप्रवृत्तिनिमित्तको डित्थ-डवित्यादिशब्द इत्येवं शब्दचतुष्टयवादिनः शब्दनयानुसारिणः । यइच्छावर्जेति यदृच्छाशब्दं मुक्तवा जातिशब्द-गुण शब्द- क्रियाशब्देति शब्दत्रयवादिनः समभिरूहनयानुसारिण: । योगमात्रम् अवयवशक्तिमात्रम्, मात्रपदेन पङ्कजादिपदे पद्मत्वाद्यवच्छिन्ने समुदायश वच्छेदः । ननु यदि पङ्कजादिपदस्य न पद्मत्वाद्यवच्छिन्ने समुदायशक्तिस्तहिं पद्मत्वेन रूपेण पद्मोपस्थिते स्वतोऽभावादवयवशतया पङ्कजनिकर्तुरेवोपस्थितेः पङ्कजनिकर्तृमात्रस्यैव शाब्दबोधः स्यान्न पद्म-वेन पद्मस्य भवति च पङ्कजपदात् पद्मत्वेनापि बोध इति तदर्थं समुदायशः करवश्यकरुप्यैव पङ्कजादिपदस्येत्याशङ्कय प्रतिक्षिपति- न चेति - अश्य युक्तम् # इत्यनेनान्वयः । तत्र पद्मत्वविशिष्टे । समुदाय शक्तीति सम्पूर्णपङ्कजपदशक्तीति, प्रकृति-प्रत्यय विभागानपेक्षा खण्डपदशक्तीति यावत् । निषेध हेतुमुपदर्शयति व्युत्पत्तिग्रहेति पङ्काज्जायते इति पङ्कजमित्येवं या पङ्कजपदस्य व्युत्पत स्तद्ग्रहः पङ्कजनिकर्तरि जायते, कः पङ्कजनिकर्तेत्याकाङ्क्षानिवृत्तये तेनापेक्षितो यः पद्मवनियमशक्तिग्रहः पद्मं पङ्कजनिकत्रित्येवंप्रहादेवोक्ताकाङ्क्षानिवृत्तिः, तद्ब्रहश्च पद्मत्वावच्छिन्ने पद्मप्रदशकिग्रहे सत्येवेति पद्मश्वनियत शक्तिप्रहोऽप्युकव्युत्पत्तिग्रहापेक्षित इति तादृशशक्तिग्रहादितस्तादृशशकिग्रहजनितो यः संस्कारः स पद्मत्वनियतशक्तिविषयकत्व तू पद्मत्वविषयकोऽपि तस्माच्च संस्काराद् योगशक्ति स्मरणद्वारकपक्क जपदजन्यपङ्कजनिकर्तृरूपार्थस्मरणकाले यत् पद्मस्यापि स्मरणं तद्रूपफलं तदैव भवितुमर्हति यदि तत्संस्कारस्तदोद्बोक्तिः स्यादित्येवं फलबलकल्प्योद्बोधितादुक्कसंस्कारात् पद्मशक्तिस्मृतिवत् पद्मत्वस्यापि स्मृतिलक्षणोपस्थितेः सम्भवेनोक्त दिशोपस्थितस्य पद्मत्यस्य पङ्कजपदादनुरस्थितस्यापि शाब्दबोधे भानस्योपपतर्न तदर्थं पङ्कजपदस्य पद्मवावच्छिन्ने शक्तिकल्पनावश्यकीत्यर्थः । ननु समानवियत्वप्रत्यासत्या पदजन्योप• स्थितेरेव शाब्दबोधं प्रति कारणत्वमिति पदादुपस्थितस्यैवार्थस्य शाब्दबोधे भानमिति पङ्कजपदात् पद्मवेनानुपस्थितस्य पद्मस्य प्रकारान्तरेणोपस्थितस्थापि न पङ्कजपदजन्यशब्दवोवे भान सम्भव इत्याशङ्कय प्रतिक्षिपति न चति- अस्य 'वाच्यम्' इत्यनेनान्वयः । संस्कारोपस्थितस्येति प्रकृतवाक्यघटकपदानुपस्थिनस्य संस्कारोपस्थितम्येत्यर्थः तेन पदजन्योपस्थितिविषयस्य संस्कारोपस्थितत्वेऽपि न क्षतिः । अन्यथा पदादनुरस्थितस्यापि प्रकारान्तरेणोपस्थितस्य शाब्दबोधविषयत्वाभ्युपगमे । यद्यपि ' पचति' इत्येतावन्मात्रीकेऽपि प्रत्यक्षोपस्थितं कलायं कर्मत्वं चादाय कलाय. कर्मकबोधप्रसञ्जनं सम्भवति तथापि जिज्ञासाविषयतया यदा कर्मत्वं पदादुरस्थितं तदा ततो जायमाने शाब्दबोधे जिज्ञासित• कर्मता पाकस्यैव भानमनुभूयते न तु नियतपदार्थनिष्ठ कर्म ताकपाकस्य भानम्, तदपीदानीं पदादनुपस्थितस्यापि प्रमाणान्तरोपस्थितस्य शाब्दे प्रतिभासनोपगमे स्यादिति सर्वथाऽनिष्टोऽयं प्रसङ्ग इत्यावेदनाय 'किम' इत्युक्तम् यद्यपि किमर्थाव भासनेऽपि कलायकर्मपाकावभासनं भवत्येव ' किं कलाय पचति ?' इत्यत्र, तथापि तत्र किं कलायं पचति अन्यद् वा ?" इत्येवं कर्मान्तिरमुपादाय तत्प्रतिभासनम्, विशिष्य त्वेकस्यैव कलाय कर्म कपाकस्यावभासनं न भवताति किम्ादसमभिव्याहन वाक्यात् केवल कलायकर्म कपाकावभासन मदृष्टचरमेवेति तदापादनस्य भवत्यनिष्टापादनत्वम्, 'कलापमादाय' इत्यादी सर्वत्र 'कला' इति स्थाने 'कलाय' इति पाठो युक्तः, कलायपदं शस्यविशेषवाचकम् । तत्र किं पचतीत्यत्र । 'कर्मत्वं [ इव] स्मृतकलाप कर्मक' इति स्थाने 'कर्मत्वमिव स्मृतं कलायकर्मक' इति पाठो युक्तः स्मृतं कर्मत्वमिवेत्यन्वयः, स्मृतं कर्मत्वमादाय यथा जिज्ञासितकर्मता कपाक बोवस्तथा प्रत्यक्षोपस्थित कलायमादाय कलायकर्म कनकबोधः स्यादित्यर्थः, वस्तुतः किं पचति' इति पृष्टे तदनन्तरमुत्तरवाक्ये ' पचति' इत्यनुषज्यत एव न तत्रोत्तरयितुर्व्यापारः किन्तु तण्डुल
-
"
·