________________ गयामततरङ्गिणी-तरङ्गिणीतरणिभ्यो समबहतो नबोपदेशः / शानादेव तु मुक्तिरत्र तु मता ज्ञाने क्रियाद्वारता, शानं मुक्तिनिदानमित्युदयनाचार्यस्तु संमन्यते / झानं कर्म च मुश्किकारणमुभे ज्ञाने क्रियावारता, नेष्टेत्येवमुदीरयन्ति कृतिनः श्रीभास्करोयाः स्फुटम् // 55 // वार्ता चात्र तु विस्तृतोभयमतप्रागल्भ्यसम्पादिनी, अन्ते स्वानुमतं समुञ्चयमत युक्त्या समुल्लासितम् / मिथ्यावापगमेन मोक्षकलिका टीका सुसेव्या बुधैः, श्रीचीरस्य नयोपदेशवचनं सम्यक् स्तुतं कामदम् / / 56 / / भस्यां न स्मय-रोषरागप्रमुखो हेतुर्जिनोक्त्यादरः, किन्त्वेको ननु हेतुरभ्युपगतो नो पक्षपातः कचित् / / नीत्युक्तिः सफले प्रमाणवचने यात्यङ्गभङ्गात्मता, तस्मानो छलवत्त्विदं नयवचो विज्ञस्य शङ्कास्पदम् // 5 // बोधो लौकिक आदिमो नयमयः स्यान्मभ्यमोऽथान्तिमो, भानात्माखिलभतो गुरुमते यद्वत्तथा स्यात् क्रमात् / तात्पर्यानियता भवेदिह भिदा वाक्यकमात्रोद्भवे, तात्पर्यज्ञ-तदशयोरनुमता बोधे ततो मिलता // 58 // तात्पर्य शुकशारिकादिवचने तच्छिक्षकाद्याधित, ज्ञात्वा लौकिकबोधभिनविषये बोधस्ततोऽपेक्षया / वक्तुश्चान्यपरे तथैव वचने तात्पर्यमन्यत् स्वयं, ज्ञात्वा वास्तवमप्रमाऽजननतः प्रामाण्यमिष्टषिणाम् // 59 / / मिथ्याष्टिपरिग्रहादिह भवेत् सम्यक् श्रते वस्तुतो, मिथ्यात्वं ननु तत्परत्वमतितो मिथ्याश्रुते तत्त्वतः। सम्यग्दृष्टिपरिग्रहादनुमतं सम्यक्त्वमिष्टप्रद, तस्मात् तत्परतामतिस्तु वचने बोधोद्भवेऽपेक्षिता / / 60 // स्यादेवं तु प्रमाणमर्थघटनातो लौकिकं चामुखे, तात्पर्यार्थगती प्रमाणमुदिता गीः सप्तभङ्गास्मिका / इत्थं सत्युपपद्यते ननु वचो यत्कल्पभाष्ये स्थितं, नाप्रामाण्यप्रमाणते स्वत इह स्यादर्थतस्ते इति / / 6 / / तात्पर्याभिधया य एव प्रथितोऽपेक्षेति सैवोच्यते, नीत्याख्यः स च शास्त्रगर्भप्रथितस्तेनोस्थिताः कल्पनाः / सिद्धान्ताम्बुधिगाः स्थिरं विरहितं ताभिः सुखैकात्मक, ब्रह्म ज्ञानमयं भवेदिह तु वोऽनस्पं विकल्पोच्चयम् // 62 // निक्षेपादिविचारणा वचनमा शङ्गारमानात्मिका, यस्याग्रे न विभाति तच भगवन् / रूपं निजं दर्शय / भात्मन् 1 बाढमपि प्रसीद कुशलाशंसा पर-स्वात्मगा, टीकाकर्तरियं निजान्यविधुरा स्वात्मस्थिति गाहते // 63 // संक्षेपा विषया इमे निगदिता टीकागताः सुन्दरा, अभ्यासाद्धदयं गता नयविदामानन्ददाः स्युर्ने वा। अस्माकं तु जिनागमाम्बुधियतशानादिरत्नस्पृहां, स्वज्ञानाभ्यसनादतीव सफलां काले करिष्यन्ति वै / / 64 // बर्षे विक्रमगेऽनलाम्बरनभोनेत्रप्रमाणं गते, वर्षावासमतेन भावनगरे सौराष्ट्रसभूषणे / लावण्याभिधसूरिणा गुरुकृपापात्रेण यत्नादिय, दक्षामोदकृते कृता स्फुटतरा टीका तरण्याख्यया / / 65 // नयामृततरविणीविषयबोधिनीयं कृतिमिताऽपि समुपासिता धवममन्दमोदप्रदा / गुरुप्रवरभक्षितो ननु मया मितप्रज्ञया, समुद्भवमुपागता स्थितिमुपैतु कल्पान्तगाम् // 6 // इतिश्रीविजयलावण्यसूरिप्रणीता टीकाप्रशस्तिः समाप्ता / छद्मस्थेषु सदा स्खलदतितया दोषप्रबन्धान्वये, नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमसाम् / नो प्रातः कृतिनो निसर्गगरिमावासा मया शोधने, येषां दोषगणप्रमार्जन विधि: स्वाभाविकोऽयं यतः // 1 // शुभं भवतु