________________
मवायततरङ्गिणीतरशिणीतरणिन्या समतो भयो
अन्या दिक्पटशङ्कितोक्तिघटना दूरीकृता युक्तितो, देश-प्रस्थकयोस्तथा च वसतेः स्वीकारदृष्टान्ततः। नीतीनां सुगमेन शुद्धिघटनाऽशुद्धस्तथा योजना, ये चैतेषु भवन्ति सूक्ष्मविषयाः शुद्धास्तदन्येऽन्यथा ॥३७॥ शुद्धत्वं व्यवहार एव फलतो नो निश्चये देशना, यत्सम्यक्त्वनिमित्ततामुपगता चाद्यस्य लोकोन्मुखा । या लोकन्यवहारबाह्यमनना मिथ्यात्वहेतुस्तु सा, नादेया ननु निश्वयस्य प्रथमं लोकप्रवृत्त्यर्थिभिः ॥१८॥ नग्नानां प्रथमं तु निश्चयघटा युक्त्या समुत्सारिता, तत्प्रश्नोत्तरभावसङ्गमनतो निर्णीतिरेवं कृता । भावः शब्दनमतो न च परो निक्षेप इष्टस्तु तैश्चत्वारोऽर्थनयैर्मता इति पुनः सम्यक्तया चर्चितम् ॥३९॥ निक्षेपस्य विचारणाऽत्र विहिता प्रत्येकशी लक्षणं, नामादेरुपदर्शितं ननु भिदा तत्रापि सन्दर्शिता । चर्चा चागमवाक्प्रचाररचिता युक्त्या समुत्तेजिता, दृष्टान्तोक्त्यनुरञ्जिता बहुविधा निक्षेपबोधानुगा ॥४॥ भिन्नद्रव्यगता चतुष्टयभिदा यद्वत् तथैवैकगा, स्वाभिख्याकृतिहेतुकार्यघटनातो भावनीया बुधैः । तत्तद्रेशनिवेशतो नहि भवेदव्यापि तेषां ततो, वस्तुव्यापकता चतुष्टयगता सामान्यतः स्थापिता ॥१॥ अन्येषां मतमत्र तस्य नियमे व्यावर्ण्य संदूषितं, निक्षेपोऽनुमतोऽथ सङ्ग्रहनये न स्थापनाख्यो यतः । नाम्ना सङ्ग्रहण भविष्यति बुधैः कश्चिन्मतं दूषितं, चर्यात्रास्खलिता सुयुक्तिकलिता नीतिशमोदप्रदा ॥ ४२ ॥ इटं स्थापनया विभिन्न मुदितं नाम्नोऽपि भिन्नं फलं, सम्बन्धोऽपि विभिन्न एव च तयोर्भावेन निर्धारितः । स्वात्मन्येव परात्मनो ननु समापत्तिस्तथा स्थापना, नाम्नोऽन्या विधिनाऽथवेति बहुधा भेदोऽनयोः स्थापितः ॥४३॥ एतेन व्यवहारगोऽप्यगतः स्यात् स्थापनासंग्रहो, द्रव्यं नो ऋजुसूत्र इच्छति यदि स्यात् सूत्रबाधस्तदा । तस्माद् भाष्यमता विभागघटना निक्षेपमा युज्यते, निक्षेपे नययोजनागतिरियं त्वालोचनीया बुधैः ।।४।। द्रव्याभियतोऽभवन्ननु मतं शुद्धा तु वेदान्तिनां, तत्रैके जगुरद्वितीयममलं चैतन्यमन्ये पुनः । सच्छब्दकमयं द्वितीयविकलं ब्रह्मेति विस्तारतश्चर्चा तन्मतयोः सुयुक्तिकलिता संदर्शिता मोददा ॥ ४५ ॥ इन्यार्थाद् व्यवहारतः समभवत् साङ्ख्यस्य यद्दर्शनं, तद् द्रव्यप्रतिपादकं भवति तत्पर्यायसंदर्शकम् । एतत्सम्मतपञ्चविंशतिविधं तत्त्वं समुद्भावितं, यद्युक्त्या कवली कृतं मतिधनैयायिकाद्यैः स्फुटम् ॥ ४६ ।। साक्षयेऽद्वैतमते च शुद्धिसमता चैतन्यमात्राश्रिता, तद्भिजे व्यवहारदृष्टिरनयोस्तुल्यैव यशप्यसौ । दृष्टथैवार्थसमष्टिसृष्टिरिति यद् वेदान्तिनिष्टङ्कितं, नो तत्र व्यवहारलेशघटनाऽप्येतावता भिन्नता ॥ ४ ॥ नो कस्यापि मतस्य नैगमनयो मूलं यतोऽयं पृथग्, नेवेष्टः कणभुखमतं ननु भवेद् द्वाभ्यां नयाभ्यां परम् । मिथ्यात्वं स्वमताग्रहादिह मिथोऽपेक्षा यतो नानयोरेवं न्यायमतं विभाव्यममुना यत् साम्यमस्यापि च ॥ ४ ॥ मिन्नो नैगम एष इष्ट इति चेत् तन्मूलिकैवास्तु वौलुक्यादेः समयप्रवृत्तिरिति संमत्याऽपि संवादितम् । बौद्धानामृजुसूत्रनीतिप्रभृतैतिं चतुणां मतं, शब्दाथा नयमिश्रजा ननु नया वाग्भिः समाः सङ्ख्यया ॥ ४९ ॥ स्याद्वादामिलितैर्नयैः सममिता अन्यागमाः सम्मतौ, नीतीनां वचसां समानगणना चान्यागमास्तादृशाः । इत्येवं नययोजना मतगता ज्ञेयोपयुज्यैव सा, दिग्वस्त्रैः परिभाविता तु वितथा वृद्धोकयो भाविताः ॥ ५० ॥ मिथ्यावाकलितानि षद् षडथ तद्भिन्नानि वैधय॑तः, सम्यक्त्वाकलितानि तान्यपि पथत्याग-प्रवेशाश्रयात् । ज्ञेयान्यन्यप्रथानि तत्र वितता चर्चा मतानां कृता, सा विज्ञेर्मतभेदबोधरसिकैर्भूयो विलोक्याऽऽदरात् ॥ ५१॥ मिथ्यात्वं निजरूपतस्तु निखिला ज्ञेया नया यन्मियोऽपेक्षातो विकलास्तथा नहि भवेद् भेदोऽस्तिताद्युत्थितः । स्यादेषां व्यवहारमेदजन नादास्तिक्यानास्तिक्ययोर्भेदस्तत्र नियामक पुनरिदं ज्ञेयं नयज्ञैर्यथा ॥ ५२ ॥ धम्यशे खलु नास्तिकस्तु प्रथितश्चार्वाक आस्मादिके, धर्माशे परतीर्थिकास्तु निखिला विसर्मता नास्तिकाः । इत्थं मार्गप्रवेश तत्परिहृतिभ्यां स्यात् क्रियावादिनः, सम्यक्त्वोक्तिरथान्यवादिनियता मिथ्यात्ववाचः प्रथा ॥ ५३॥ सम्यक्त्वं च दृढीकृतं पुनरिहान्येभ्यः क्रियावादिनो, मुख्यत्वाद् गणनाभिदाऽपि प्रथिता तेषां विविका स्फुटम् । चर्चाऽत्रापि विशिष्टमोदजनिका हन्धा नयान पृथग, वादा श्लोकसमष्टितो निगदिता युक्त्या समुत्तेजिताः ॥ ५४॥