________________
नयाद्भुततरङ्गिणी-तरङ्गिणीत रणियां समलङ्कृतो नयोपदेशः ।
द्वेधाऽयं प्रथितो नयो विषयतो द्रव्यार्थिकश्वादिमः, पर्यायार्थिकनामकोsपर इतो नान्ये नथाः सम्मताः । द्रव्यं केवलमेव चादिमनयेऽन्यस्मिन् नये पर्यवास्ते तिर्यक्प्रवयास्तथोर्ध्वप्रच्या द्रव्यार्थिके कल्पिताः ॥ १८ ॥ द्रव्यं तेष्वनुगामि सत्यमुदितं नादौ न चान्ते स्थिताः, पर्याया न च मध्यमा अपि तथा भ्रान्त्या तथा लक्षिताः । स्यादन्येऽपि चलो विकल्प इह तम्मध्ये द्वयग्राहको, द्रव्यार्थानुमतो नयो नयविदां द्रव्यैकमात्रार्थगः ॥ १९ ॥ पर्यायार्थिनये न पर्यवपृथगू द्रव्यं समस्तीष्टकृत् पर्यायेभ्य इहे हितार्थजननं दृष्टं न वै नित्यतः ।
४१२
नित्ये न क्रम- यौगपद्यनियता चार्थक्रिय युज्यते, इत्येवं ननु युक्तिजालर चना प्रश्नोत्तराभ्यां तता ॥ २० ॥ एकत्वावगतिर्नयेऽत्र गदिता सादृश्यदोषाद् यथा, केशादौ तत एव न क्षणिकता स्याद् बाधिताऽभिज्ञया । नाशो नैव सहेतुकोऽत्र हि मतस्तत्साधिका युक्तयः, पर्यायार्थनयानुसारिविदुषां सञ्चर्षया भाविताः ॥ २१ ॥ शुद्धस्यैव तु पर्यवस्य मनना चेत्थं समुद्भाविता, तस्यावान्तरभेदगामिमनना द्रव्यार्थवत् कीर्तिता । शुद्धाशुद्धविवेक निर्णयकथ कथा सम्यक्त्वमिथ्यात्वगा, सिद्धान्तोक्तिविमिश्रिताऽपि प्रथिता प्रासङ्गिकी मोददा ।। २२ ॥ मेदा व्ययस्य तार्किकमते स्युर्नैगमाद्यास्त्रयश्चत्वारस्वजुसूत्र नीतिचरमाः सैद्धान्तिकानां मते । पर्यायार्थगताः परे निगदितास्तात्पर्यमेोऽनयोः, सूत्रस्याप्यविरोधहेतुरुदितः श्रीमद्यशोवाचकैः ॥ २३ ॥ नामप्राइममी नयास्तु कथिताः सप्तत्वसङ्खयाचिता, नाम्नो निर्वचनेन नैगमनयः सलक्षणालङ्कृतः । स्यात् सामान्य विशेषगोचरतया तत्त्वं तदेकात्यये युक्तो नो व्यवहार इष्टगतये लोकप्रथासाधकः ॥ २४ ॥ अन्वर्थानुगमेन सङ्ग्रहनयो नाम्नैव संलक्षितः, सामान्येन परेण सङ्ग्रहविधिस्तेनापरेणापि सः । सामान्यव्यतिरिक्तमेष मनुते नो वै विशेषं ततस्तस्यावान्तरभेदतो बहुविधो जीवस्य भेदो मतः ॥ २५ ॥ ये चेष्टा निगमे तथा व्यवहृतौ तत्त्वोपचारादिकास्ते नेष्टास्तत एव चास्य गदिता ताभ्यां परा शुद्धता । बाहुस्यादुपचारिणी व्यवहृतिधर्विस्तृतार्था तु या सा लोकव्यवहार सिद्धिनिपुणा तन्मानपक्षोद्धुरा ।। २६ ।। सामान्यं त्वनुगामिनाऽत्र मनने नार्थक्रियाऽतो यतः, स्याद् व्यावृत्तिविशेषतोऽनुगतधीः शब्दानुगत्याऽथवा । दृष्टान्तोऽप्युपचारतो व्यवहृतौ संदर्शितो लौकिको, यस्मादेष मतं द्विरेफप्रमुखे स्यात् पश्चवर्णे शितम् ॥ २७ ॥ लक्ष्मैतत्त्वजुसूत्र नीतिगमकं यद्वर्तमानकगं भावत्वं नियमादियं नियमधीः सा चाविशेषान्मता ॥ शब्द सा तु विशेषिता न च ततोऽतिव्याप्तिरेतन्नये, स्वीयं केवलमिष्टमन्यसमयोऽतीतो न नानागतः ॥ २८ ॥ नावस्थान्तरसङ्गतिस्त्विह मता निष्ठाक्रियाकालगं, द्रव्यं नास्ति ततः पलालदहनं नाग्नोर्मंदा नो घंटे । प्रव्रज्या न भवेदसंयतगता भव्यो न सिद्धो भवेत्, चर्चा चात्र तु विस्तृतैक्यविषया निष्ठा- क्रियाकालयोः ॥ २९ ॥ देशे स्कन्धपदोपचारबलतः शादी प्रदग्धेति गोर्ज्ञेयैतन्नयतो विशेषिततरः शब्दः क्षणात्मार्थगः । भाबैकोपगमाद विशेषघटना स्यात् सप्तभङ्ग्यर्पणालिङ्गादेरथवाऽत्र मेदवशतोऽप्यर्थस्य भेदाश्रयात् ॥ ३० ॥ भाष्योक्त्या प्रविभक्तभङ्गरचनातः सप्तभङ्गी गतिश्चर्चा चार्धनयाश्रितादिविषया पुष्टिं तथा प्रापिता । सामानाधिकरण्यमत्र हि मतं नो भिन्नलिङ्गादिगं, यद्वत्तत्तृजुसूत्रनीतिविषयो नैवाविकारान्ययोः ॥ ३१ ॥ सरस्वर्थेषु न सङ्क्रमं समभिरूढाख्यो नयो मन्यते, भेदैः स्याद्वचनस्य चैव नियमादर्थस्य भेदोऽमितः । संज्ञा नो परिभाषयाऽत्र तु मता स्वाभाविकोऽयं यतः, शब्दार्थोऽनुभवे विभाति न भवेदिच्छा कृतार्थस्थितिः ॥३२॥ एवम्भूतनयो विशेषणतया शब्दार्थयोर्ब्राहकञ्चान्योऽन्यं न च राजशब्दघटना लिङ्गात्यये राजगा । व्युत्पन्नः सकलोऽपि शब्द उदितो व्युत्पत्तिहेतुक्रियाकाले शब्दप्रवृत्तिरत्र नियता शब्दे क्रियैकार्थता ॥ ३३ ॥ व्युत्पत्त्यर्थप्रसिद्धयेऽत्र विपुला चर्चा प्रसभागता तस्यां शब्दनयानुसान्मतभिदा स्ट्यर्थचिन्तादिका । अन्य चापि कथाsत्र सङ्गतिमिता नैयायिकादेर्वेरा, अन्ते स्वानुमतं नयानुगमनं स्याद्वादतो दर्शितम् ॥ ३४ ॥ नैवम्भूतनये तु जीवपदभाक् सिद्धो मतो जीवनाभावात् किन्तु तदर्थसङ्घटनतः संसारिजीवस्तथा । सेवादर्थमिहोपपत्तिकलितास्तत्त्वार्थ भाष्योक्तयो, जीवाजीवमुखोक्तिभेदघटिता आविष्कृता भाविताः ॥ ३५ ॥ सिद्धो निश्वयतो दिगम्बरमते यज्जीववाच्यो न तद् युक्तं निश्चयसंज्ञकोऽन्तिमनयस्तत्र प्रथा चान्यथा । आर्य नामको यदि तथा तत्रात्मता जीवता, सर्वत्रानुगता ततो नहिं भवेत् सिकता जीवता ।। ३६ ।।