________________
नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समाहतो गयोपदेशः ।
४२१
-...
-
--
-
__ अथ प्रशस्तिः ॥ येषां श्रीरमिता मिता कृतिरतीवार्थप्रदा भासुरा, भक्तिवारविभौ नयामृतघटा व्याख्यानभूतिः परा। ये तीर्थोनतिकृत्यजातयशसः शिष्यप्रशिष्याञ्चिताः, सूरीणां प्रवरा जयन्ति कृतिनः श्रीनेमिसूरीश्वराः ॥१॥ तेषां शिष्याणुकेनाम लसुनयसुधास्वादलशोत्सुकेन, सिद्धान्ताभ्यासमात्र व्यसननियतिना विज्ञवर्गानुगेन । श्रीमल्लावग्यसूरीत्यभिहित शमिना निर्मितैषा नयार्था, व्याख्या सन्दृब्धमावा जनयतु प्रमुदं स्वानुभूत्या बुधानाम् ॥२॥ शब्दार्थाशुद्धिदोषानिह कृतिप्रवराः शोधयिष्यन्ति येषां, दृष्टिः सूक्ष्मार्थतत्त्वाप्रतिहतगमना दोषमोषप्रगल्भा । सत्यादानस्वभावा परगुणघटना चान्तदेहा विमुक्ता, रागद्वेषादिशक्त्या स्वपरविभजनादृष्ट्य सम्पीडितार्था ॥ ३ ॥ ये नान्येषां सहन्ते कृतिमतिविमलां दोषपोषकदक्षास्तेषां दृष्टिः पतन्ती कथमिह सफला नैव दुर्नीतिदृष्ट्या। सापेक्ष वस्तुतत्त्वे गुणगणकलिते दोषपोषोऽप्यपेक्षादृष्ट्या युक्तो न चास्मादपतिरणुका स्यादनेकान्तवादे ॥४॥ किन्त्वेषाऽऽहार्यरूपा गुणगणघटना बाधते नैव सत्यो, मिथ्याऽपेक्षाविमुक्ता स्वयमपि लभते नात्मरूपं कुदृष्टिः । इत्यं नैवापसार्या प्रमितिपरिगताद् वस्तुनो लालनीया, त्यक्त्वा मात्सर्यमेषाऽप्युपकृतिपदवीं याति सापेक्षतायाम् ॥ ५ ॥ नयामृततरङ्गिणी क च नयोपदेशाश्रिता, यशोविजयवाचकावरगुम्फितान्धिया । क तत्र रचिता मया विवृतिरक्षरार्थप्रभा, तथाऽपि परिशीलनं नयतेरिह स्यान्मम ॥६॥ मादी मालमत्र तस्य च फलं व्याख्याकृतश्चापि तत्, नीतेलेक्षणमत्र चर्चितमपेक्षास्वं नर्यकाश्रितम् । साक्षी लाघवमत्र तर्कणविधौ श्रीहर्षसंवादिताऽर्थापत्तिर्व्यवहारसज्ञतिरितोऽवच्छेद्यबुद्धिप्रथा ॥ ७ ॥ अन्या चापि कथा विवेकचतुरापेक्षाश्रिता दर्शिता, प्रत्यक्षाकलितेऽपि वस्तुनि मतिः स्पष्टा त्वपेक्षाश्रिता । दीर्घाध्यक्षमुखो निदर्शनतया सन्दर्शितोऽपेक्षया चर्चा चावरकाश्रिताऽत्र बहुला संगुम्फिता युक्तितः ॥८॥ साऽपेक्षा मतभेदहेतुरुदिता वैज्ञानिकी वास्तवी, तात्पर्य च प्रवर्तते स्वविषये सम्बन्धतोऽपेक्षया । यत्कोव्यन्तरबाधनं तदपि चेष्टार्थस्य सन्दीपनं, ताक्तया च समर्थितं मतभिदैदम्पर्यमावेदितम् ॥ १॥ सङ्ख्या द्वित्वमुखाऽप्यपेक्षमतितो व्यङ्गया तथा जायते, इत्येवं मतभेदसाधनघटा संदर्शिता विस्तता। व्याया तत्र गुरोर्मताऽक्षिचरणैरुत्पत्तिरेवाहता, जैनानां मतमत्र दर्शितमपेक्षाकान्तमत्युज्ज्वलम् ॥ १० ॥ सापेक्षे विषये प्रतीत्यवचनं तन्नीतिग लक्षण, भावोऽभावनिषेधरूपविधया सापेक्षताभाग मतः । नाभावोऽपि प्रमेयतादिप्रमितः सापेक्षताभाजनं, चात्राभावमतेर्विचारबहुलीभावो निसर्गोज्ज्वलः ॥ ११ ॥ अस्तित्वादिकसप्तधर्मभजनातः सप्तभङ्गी तु या, सा सम्पूर्णप्रमात्मधीजनकतायोगात् प्रमाणं भवेत् । स्याच्छन्दात् प्रतिभनमन्यघटनायोगेऽपि चैकैकग, वाक्यं तन्नयवाक्यमर्थगतितोऽभीष्टकदेशाश्रितम् ॥ ११॥ . भज्ञानामुपपत्तिरत्र नयतोऽवक्तव्यभङ्गोदमे, नान्यस्माइजुसूत्रतस्तु घटते चर्चाऽत्र सम्यकृता । वाक्यं चान्यनिषेधकं न च नयो दुर्नीतिवाक्यं तु तत् , इत्येवं त्रिविधं निजेऽपि च मते नो दिग्पटस्यैव तत् ॥३॥ एका-ऽनेकप्रतीतिसमातिरिय स्यान्माननीत्याश्रिता, चित्रे गौतमशिष्यसम्मतिमिता चित्रं च सर्व मतम् । नव्यश्चित्रमनेकमेव गदितं प्राचां तदेकं मतं, युक्तिश्चोभयसम्मताऽत्र गदिता स्वीयं मतं चाहतम् ॥ १४ ॥ विस्तीर्णाऽत्र विशिष्टबुद्धिविषया चर्चा प्रमाणोद्गता, चातुर्विभ्यमुदाहृतं मतिधननैयायिकैस्तद्गतम् । भत्रान्ते तु प्रपञ्चतं निजमतं येनान्यदीयं मतं, युक्तिवातकदथितं विषयताऽऽनन्त्यादनन्तैव सा ॥ १५ ॥ . नायं संशय एककोटिकतया नातः समूहात्मको, याथार्थ्याद् भ्रम एष नौ न च प्रमाऽपूर्णत्वतः स्यामयः । किन्त्वंशः प्रमितेर्यथा जलनिर्भागस्तदंशो मतो, नाम्भोधिन च सोऽसमुद्र इति यल्लो के प्रसिद्धः स्फुटम् ॥ १६ ॥ स्वार्थे सत्यतया मिताः परहताः सर्वे त्वसत्या नया, नैकान्तो विदुषां मतोऽत्र विषये स्पष्टप्रथा सम्मतौ । वस्तुस्पर्शितयाऽप्रमा नहि मता बौद्धादिनीतिप्रहा, यद्रत्नप्रभागताऽपि च मती रत्नस्य तत्स्पर्शिनी ॥१७॥