________________
नयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
यस्याप्रे भान्ति चिन्न निरुपधिचिदुद्बुद्धशुद्धस्वभावात्, तद्रूपं स्वीयमुचैः प्रकटय भगवन् बाढमात्मन् ! प्रसीद ॥ १६ ॥
गच्छे श्रीविजयादिदेव सुगुरोः स्वच्छे गुणानां गणैः, प्रौढि प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्रं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ १ ॥ सूरिश्री विजयादिदेव सुगुरोः पट्टाम्बराहमणौ, सूरि श्रीविजयादिसिंहसुगुरोः शक्रासनं भेजुषि । सूरि श्री विजयप्रभे श्रितवति प्राज्यं च राज्यं कृतौ, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ २ ॥ प्रत्यश्नरं निरूप्यास्य प्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीणि षट् च शतानि वै ॥ ३ ॥ ॥ ३६०० ॥ ॥ शुभं भूयात् ॥ इति महोपाध्याय श्रीकल्याणविजय गणिशिष्य मुख्य पण्डितलाभविजयगणिशिष्यावतंस पण्डित श्रीजीतविजयगणिसतीर्थ्य तिलक पण्डित श्रीनयविजयगणिचरणकमलसेविना पण्डित श्री पद्मविजयगणिसहोदरेण उपाध्याय श्रीयशोविजयगणिना विरचिता नयामृततरङ्गिणीनाम्नी नयोपदेशटीका समाप्ता ॥ स्वस्ति श्रमण संघाय ||
४२०
॥ इति नयोपदेशः समाप्तः ॥
रमका वेति । कथं ते शृङ्गारा इत्यपेक्षायामाह - परगुणरच नाजातरोचिष्णुभावा इति । " स्वभावात्" इत्यस्य स्थाने " स्वभावं " इति पाठो युक्तः । सार्ववाचः सर्वप्राणिहितकारिवचनस्य जैनसमयस्य । वेति त्रयं विकल्पार्थकम् । निक्षेपाः नाम-स्थापना द्रव्य भावनिक्षेपाश्चत्वारः । नयाः नैगम-सङ्ग्रह - व्यवहारर्जुसूत्र - शब्दसमभिरूढैवम्भूताः सप्त । तदुभयजनिता । नय- निक्षेपोभयसमुद्भवाः । सप्तभङ्गात्मकाः स्यादस्त्येव घट इत्यादिसप्तभन्न समाहार लक्षण सप्तभङ्गीस्वरूपाः । शृङ्गारा योग्य स्थान संनिविष्टभूषणविन्यासात्मकाः । यतः परे अन्ये विशिष्टा वा परेषाम् अन्येषां वा ये गुणास्तेषां रचनया- यथास्थानं संस्थापनया, जात उत्पन्नो रोचिष्णुभावो मनोरञ्जनस्वभावो येषां ते तथा । एवंभूता अपि यस्य भगवद्रूपस्यानन्तरमेव वक्ष्यमाणस्वरूपस्य । अग्रे सम्मुखे । किञ्चित् किञ्चिदपि । न भान्ति न प्रकाशन्ते । हे भगवन् । सर्वैश्वर्यशालिन् । स्त्रीयं स्वात्यन्तसंबद्धम् सम्बन्धश्वात्रा विष्वग्भावः तेन स्वापृथग्भूतमिति पर्यवसितम् । तद्रूपं यद्रूपस्यामे शृङ्गारा न भान्ति एवम्भूतं रूपम् । किं स्वरूपं तदिति दर्शयति- निरुपधीति - उपाधिविनाकृतं परोपाधिकं यन्न भवति किन्तु स्वाभाविकं यचिता- चैतन्येनोदबुद्ध:- प्रकटीभूतः शुद्धस्वभावो यस्य तन्निरुपश्चिबुद्धशुद्धत्वभावं शुद्ध केवल चैतन्यस्वरूपमिति यावत् । उच्चैर्यथा स्यात् तथा प्रकटय प्रकाशय । हे आत्मन् ! मदभिन्नस्वरूप 1 । बाढमत्यन्तम् । प्रसीद प्रसन्नो भव । स्वाभिन्नशुद्धचैतन्यात्मकभगवत्स्वरूपदर्शनतो मुक्तस्य मम न किञ्चिदभिलषणीयम् एतावन्मात्रमेतद्भन्यकरण प्रयोजनमिति गूढाभिसन्धिः ॥ १६ ॥
गच्छ इति श्रीविजयादिदेवसुगुरोः प्रौढिमधाम्नि स्वच्छे गच्छे जीतविजयप्राज्ञाः गुणानां गणैः परां प्रौढिमैयरुः, तरसातीर्थ्यमृतां नयादिविजयप्राज्ञोत्तमानां शिशुर्यशोविजय इत्याख्याभृत् इदं किञ्चित् तत्त्वमाख्यातवानित्यन्वयः, अर्थस्तु व्यक एव ॥ १ ॥
सूरिश्रीविजयादिदेव सुगुरोरिति पथमपि स्पष्टार्थकम् ! " कृतौ " इत्यस्य स्थाने " कृतो " इति पाठो ज्ञेयः । प्रत्यक्षरमिति पद्यं मन्थकर्तुरन्यस्य वा स्पष्टार्थकम् ॥ 年
इति श्रीतपोगच्छाधिपति शासनसम्राट् जगद्गुरुश्रीविजयनेभिसूरीश्वर पट्टालङ्कारेण व्याकरणवाचस्पति शास्त्रविशारद - कविरत्नेति पदालङ्कतेन विजयलावण्यसूरिणा विरचिता तरणिनाम्नी नयामृततरङ्गिणीटीका समाप्ता ॥