________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो मयोपदेशः।
वक्तुं तात्पर्यमज्ञात्वाप्येतदुन्नीय वास्तवम् । प्रामाण्यमप्रमाणेऽपि, वाक्ये सम्यग्दृशां मतम् ।। ११॥ सम्यक्श्रुतस्य मिथ्यात्वं मिथ्यादृष्टिपरिग्रहात् । मिथ्याश्रुतस्य सम्यक्त्वं सम्यग्दृष्टिमहादतः ॥ १२ ॥ लौकिकान्यपि वाक्यानि प्रमाणानि श्रुतार्थतः। तात्पर्यार्थे प्रमाणं तु सप्तभङ्गात्मकं वचः ॥ १३ ॥ नाप्रमाणं प्रमाणं वा स्वतः किन्त्वर्थतः श्रुतम् । इति यत् कल्पभाष्योक्तं तदित्थमुपपद्यते ॥ १४ ॥ तात्पर्य स्खल्वपेक्षा नय इति च समं स्थापितं शास्त्रगर्भे, तत्कल्लोलैर्विचित्रः समयजलनिधौ जायते चिद्विवत्तः। यत्त्वेकं निस्तरङ्गं परमसुखमयं ब्रह्म सर्वातिशायि, स्थायिज्ञानस्वभावं तदिह दहतु बोऽनल्पसङ्कल्पजालम्॥१५
निक्षेपा वा नया वा तदुभयजनिताः सप्तभनात्मका वा,
शृङ्गाराः सार्ववाचः परगुणरचनाजातरोचिष्णुभावाः । ___ ननु शुकवचने वक्तुः शुकस्य तात्पर्य नास्तीति कस्य तात्पर्यस्य ज्ञानं तत्र कारणं स्यादित्यत आह- वक्तुरिति । "वक्तुं तात्पर्य" इत्यस्य स्थाने “वक्तुस्तात्पर्य" इति पाठो युक्तः, वक्तुः शुकस्य, तात्पर्यस्यैवाभावात् तज्ज्ञानं न सम्भवतीत्यतस्तात्पर्यमझात्वा तात्पर्यमगृहीत्वा, अपि, वास्तवं पारमार्थिकम् । एतत् तात्पर्यम् , यत्र चक्तुस्तात्पर्य नास्ति शुकादेस्तत्र तदध्यापयितुस्तात्पर्यमन्ततः सर्वज्ञस्यैव शुकाधुचरितं वाक्यमेतदर्थ बोधयत्वित्याकारकं समस्त्येव पारमार्थिकम् । तदुन्नीय यथार्थश्रुतस्यैकान्ताद्यात्मकस्याघटमानत्वादेतत्तदपेक्षयवमेतदित्यत्रयोक्तवाक्यतात्पर्यमित्येवं ज्ञात्वा । अप्रमाणेऽपि वाक्ये अप्रमाणभूतेऽपि तीर्थान्तरीयागमवाक्ये । प्रामाण्यं सम्यग्दृशां सम्यग्दृष्टीनाम् । मतं सम्मतमित्यर्थः ॥ ११॥
तात्पर्यग्रहस्य सम्यगर्थविषयकस्य मिथ्यार्थविषयकस्य च वैचित्र्यात् तत्तात्पर्यविषयीभूतार्थप्रतिपादकत्वेन सम्यक्श्रुतस्यापि मिथ्यादृष्टयुन्नीतातथाभूतार्थविषयकत्वेन मिथ्यात्वम् , मिथ्याश्नुतस्यापि सम्यग्दृष्टयुनीतसम्भवदर्थप्रतिपादकत्वेन सम्यक्त्वमित्युपदर्शयति- सम्यकुश्रुतस्येति । अतः तात्पर्यप्रवैचित्र्यात् । अन्यत् स्पष्टम् ॥ १२॥
श्रुतार्थानुसार्यर्थप्रतिपादकानि लौकिकान्यपि प्रमाणानि तात्पर्यविषयीभूतसम्यगर्थप्रतिपादकत्वात् , सप्तमा यात्मक वाक्यं पुनः प्रमाणमेवेत्याह- लौकिकान्यपीति- अपिना अलौकिकवाक्यस्य प्रामाण्यं समुचितम् । श्रुतार्थतः श्रुतार्थानुसारेण । तात्पर्याथै इति च देहलीदीपन्यायेन पूर्वोत्तरत्र चान्वेति, अन्यत् स्पष्टम् ॥ १३ ॥
प्रामाण्या-ऽप्रामाण्ययोः सम्यक्तात्पर्या. सम्यक्तात्पर्यापेक्ष्यत्वमित्यभिप्रायत एवं कल्पभाष्योक्तिसञतिरित्याह-नाप्रमाणमिति । श्रुतम् आगमः । स्वतः स्वरूपतः । अप्रमाणं प्रमाणं वा न भवति, किन्वर्थतः प्रमाणमप्रमाणं वा भवति, इति एवम् , यत् कल्पभाष्योकं तत् कल्पभाष्योक्तम्, अनन्तरोपदर्शितप्रकारेण, उपपद्यते घटते, अन्यथा यस्मिन्नर्थे प्रमाण तस्मिन्नर्थेऽप्रमाणमिति न सजतं स्यादिति ॥ १४ ॥
तात्पर्यमिति । खलु निश्चयेन । सममिति - एकमित्यर्थः । तात्पर्यमेवापेक्षा, सैव नय इत्येवं शास्त्रगर्भे सिद्धान्तमध्ये । स्थापितं निर्णीतम् । विचित्रैः अनेकप्रकारैः । तत्कल्लोलेः नयविचारलक्षणतरजैः । समयजलधौ जैनागमसमुद्र ! चिद्विवर्तः चितश्चैतन्यलक्षणज्ञानस्य विवर्तः परिणामः । जायते उत्पद्यते । एवं सत्यपि यत्तु तत् पुनः । निस्तर वस्तुगत्या निरुपाधिकत्वेन सोपाधिकधर्मरहितत्वात् तत्तदोपाधिकधर्मावलम्बनेन प्रवर्तमानानेकप्रकारकविशिष्टबुद्धधात्मकतरजविकलम् । परमसुखमयम् ऐकान्तिकात्यन्तिक सुखैकस्वरूपमू । अत एव सर्वातिशायि सर्वापेक्षयोस्कृतम् । स्थायिज्ञानस्वभावं स्थिरात्मकं यज्ज्ञानं केवलं तत्स्वभावं तदात्मकम् । ब्रह्म परमात्मचैतन्यं समस्तीति शेषः । तत् निरुक्तस्वरूपं ब्रह्म। इह अस्मिन् नयविचारे संसारे वा। वः युधमाकम् , एतद्न्य विचारपर्यालोचनपरिपक्कसूक्ष्ममतीनां संसारासारताभावनापरिणतबुद्धीनां वा । अनल्पसंकल्पजालं बहुप्रकारमानसिकविचारात्मकतन्तुसङ्टननिष्पन्चबन्धन कार्यकारिजालम् । दद्दतु विनाशयत्वित्यर्थः ॥ १५ ॥
निक्षेपा वैति । सार्ववाचः शृङ्गारा यस्याने किञ्चिन्न भान्ति, स्वीयं तद्रूपं हे भगवन् ! उच्चैः प्रकटय, है आत्मन् । बाद प्रसीदेति सम्बन्धः । के सार्ववाचः शृङ्गारा इत्यपेक्षायामाह-निक्षेपा वा नया वा तदुभयजनिताः सप्तभना