________________
मयारततरशिया-सरङ्गिणीतरणिभ्यो समबहतो भयोपदेशः ।
त्रयमिधिकृत्य लोकलोकोत्तरपथभङ्गभयं न नाम शब्दात् । गुरुमतमिव चोपपत्तिकार्थे नहि परिपन्थि विरम्य बोधकत्वम् ॥ ८ ॥ अपि च नियतकृत् स्वजन्यबोधाविषमधियो विरहोऽत्र शाब्दबोधे । सति नियतमनुयायिनि तत्परत्वं तदिह मतस्तदतज्ज्ञबोधभेदः ॥ ९॥ न च शुकवचनादतत्परादप्यधिगमदर्शनतः प्रतीममेतत् । श्रुतमयमपहाय बोधिभागे, त इह तत्परताधियोऽनपेक्षाः ॥ १० ॥
यावन्तो मयास्तावन्ति मतानीति शतपदं सम्भवदहत्वसङ्खयोपलक्षकं तेनानल्पसंख्यकमतकृदित्यर्थः। एवम्भूतनयविचारणया द्वितीयो नयात्मकबोधः, स्वमतमदहरः कस्यचिजेनस्य इदमेव स्वमतमित्याकारको यो मदस्तस्य विनाशकः, सर्वनयमयस्याद्वादे सर्वेषामपि मतानां कथञ्चित् स्वमतत्वात् । पर: उत्कृष्टः । तृतीयः सप्तभनयात्मकमहावाक्यजन्यः प्रमाणबोधः । “काम्यया पवित्रः" इत्यस्य स्थाने "कामनापवित्रः" पाठो युकः, अशेषस्य जगतो हितं भवस्वित्या. कारिका या सकल जगद्वितकामना तया पवित्र इत्यर्थः ॥ ७॥
त्रयमिदमधिकृत्येति-निरुक्तक्रमिकबोधत्रयमाश्रित्येत्यर्थः । लोक-लोकोत्तरपथमनभयं लोकिकार्थबोधतो लोकिकमार्गस्य लौकिकव्यवहारस्य नयप्रमाणबोधाभ्यां लोकोत्तरमार्गस्य लोकोत्तरव्यवहारस्य चोपपत्तिरिति, शब्दाच्छब्दप्रमाणात् . नामेति कोमलामन्त्रणं, न नैव, लोकलोकोत्तरपथभङ्गमय भवतीत्यर्थः । शब्द-ज्ञानकर्मणां विरम्य व्यापाराभावादेकत्माच्छब्दात क्रमेण निरुक्तबोधत्रयं न सम्भवतीत्याशङ्कां मनसि कृत्य तदपनोदनायाह-गुरुमतमिवेति- कारकस्य क्रियया सहैवान्वयबोध इति नियमानीलं घटमानयेति वाक्यात प्रथमतो नीलकर्मकानयनघटकर्मकानयन योरेव बोधः. ततो घटभिन्नस्य नीलस्य निलाभिन्नस्य घटस्य चानयनं नात्र संबोध्यपुरुषकर्तृकमिति विचारणासहकृतादुक्त क्यादेव नीलाभिन्नघटानयनबोधः पार्टिक इत्येवं क्रमिकबोधद्वयाभ्युपगन्तृ प्राभाकरमते सोपपत्तिके यथा शब्दस्य विरम्य बोधकत्वं परिपन्थि प्रतिबन्धकं न भवति तथा सोपपत्तिकाथै प्रकृतेऽसीत्यर्थः ॥ ॥
अपि चेति। "विषमधियो" इत्यस्य स्थाने " विषयधियो" इति पाठः सम्यग् । अत्र शाब्दबोधविशेषविचारे, शाब्दबोधे शब्दजन्यान्वयबोधे । स्वजन्येति- स्वजन्य:- शब्दजन्यो यो बोधस्तस्य यो विषयो न भवति स तदविषय. स्तस्य धियः- मुद्धः, विरहो नियतकृत् नियतेन क्रियत इति नियतऋदिति व्युत्पत्त्या नियतजन्य इत्यर्थः । किं तन्नियत तस्कृतो निरुक्तविरह इस्यपेक्षायामाह-सतीति । अनुयायिनि अन्वययोग्ये । सति सम्भवति सति, एतेन यस्यार्थस्यान्वयो न सम्भवति तत्परत्वं नियत न भवतीत्यावेदितम् । तत्परत्वं शब्दस्य तदर्थतात्पर्यत्वम् , नियतं नियामकम् , यस्य शब्दस्य यस्मिन्नर्थे तात्पर्य सोऽर्थः स्वजन्यबोधस्य शब्दजन्योपस्थित्यात्मकबोधस्याविषयोऽपि शाब्दबोधे भासत इति शाब्दबोधे विषयप्रतिभासनियामकं भवति तत्परत्वम् , तत् तस्मात् । इह शाब्दबोधे । तदतज्ज्ञबोधभेदः तात्पर्यज्ञतात्पर्यानभिज्ञपुरुषयोः शाब्दबोधमेदः । मतः स्वीकृत इत्यर्थः ॥ ९ ॥
ननु शुकस्य पक्षिविशेषस्येदं वाक्यममुमर्थ बोधयस्वित्याकारकतात्पर्यस्याभावेन तज्ज्ञानस्य शुकोच्चरितवाक्यं शृण्वतः पुरुषस्याभावात् तदर्थतात्पर्यविकलादपि शुकोच्चरितवाक्याच्छ्रोतॄणां तत्तद्भिन्नार्थविषयकशाब्दबोधस्योत्पादेन व्यभिचारात् तत्परत्वं शाब्दबोधनियामकं न भवतीत्याशक्कय प्रतिक्षिपति-न चेति । "प्रतीममेतत्" इत्यस्य स्थाने " प्रतीपमेतत्" इति पाठो युक्तः । अतत्परादपि अभिमतार्थविषयकतात्पर्यरहितादपि । शुक्रवचनात् शुकोचरितवाक्यात् । अधिगमदर्शनतः तत्तदर्थविषयकशाब्दबोधस्योत्पाददर्शनेन, व्यतिरेकव्यभिचारात्, एतत् तत्परत्वस्य तत्तदर्थविषयकशाब्दबोधनियामकत्वपरिकल्पनम् , प्रतीपं विरुद्धमिति न चेत्यर्थः । निषेधे हेतुमाह-श्रुतमयमपहायेति- यथाश्रुतार्थविषयकयोधं परित्यज्येत्यर्थः. तत्तत्पदजन्योपस्थितितस्तत्तदर्थविषयकशाब्दबोधस्य तात्पर्यग्रहमन्तरेण भावेन यथाश्रुतार्थस्य शाब्दबोधे भाने तत्परतामहस्यानपेक्षणेऽपीत्यर्थः । बोधिभागे यदपेक्षानिमिसादिभानेन शाब्दबोधः सम्यक्त्वरूपतामञ्चति तदंशे। ते शुकवचनश्रोतारः। इह शाब्दबोधे । तत्परताधियः तदंशे तत्परत्वज्ञानस्य । अनपेक्षाः अपेक्षारहिता न भवन्तीत्यर्थः ॥ १०॥