________________
नयाद्युततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः 1
न च नयवचनेषु पक्षपातः, कचन समाकलित प्रमाणदृष्टेः । अभिमतविषये हि गोपनीया, अनभिमते यदभी विगोपनीयाः ॥ ४ ॥ व्रजति फलवति प्रमाणवाक्ये, नयवचनं बहुरूपभङ्गभावम् । तदिह सविधमोहिमा स्पृशेति, छलवदिदं न विशङ्कनीयमार्यैः ॥ ५ ॥ प्रथमत इह लौकिकोऽर्थबोधस्तदनु नयात्मक एवं मध्यमः स्यात् । तदुपरि परितः प्रसर्पिभङ्गव्यतिकरसंवलितः प्रमाणबोधः ॥ ६ ॥ श्रुतमय उदितः किलाथबोधो, मतहतकन्नयचिन्तया द्वितीयः । स्वमतमदहरः परस्तृतीयः, सकलजगद्धितकाम्यया पवित्रः ॥ ७ ॥
ܚ
न चेति । समाकलिता - समीचीनतयाऽऽलोचिता, प्रमाणदृष्टिर्येन स समाकलित प्रमाणदृष्टिस्तस्य समाकलित • प्रमाणदृष्टेः, मम, नयवचनेषु नयात्मकवचनेषु नयप्रभववचनेषु वा मध्ये, क्वचन कस्मिन्नपि नयवचने, पक्षपातः अयमेव इत्येवमभिनिवेशः, न च नैव, हि यतः, अभी नयाः, अभिमतविषये यद् वस्तु यदपेक्षया यथाभूतमभिमतं तथाभूते वस्तुनि, गोपनीयाः रक्षणीयाः, एवं यत् यस्मात्, अभिमते यद् वस्तु यद्रूपेणाभिमतं न भवति तथाभूते वस्तुनि विगोपनीयाः अप्रकटनीया इत्यर्थः ॥ ४ ॥
#4
व्रजतीति । फलवति निराकाङ्क्षसम्पूर्णार्थावबोधकत्वात् संशय-विपर्ययज्ञान निवर्तनलक्षणफलशालिनि । प्रमाणवाक्ये स्यादरस्येव घटः स्यान्नास्त्येव घट इति सप्तभङ्गात्मक प्रमाणवाक्ये | नयवचनम् अस्तित्वाद्येकधर्मप्रतिपादकं संप्रहादिनयसमुत्थवचनं नयात्मकवचनं वा । बहुरूपभङ्गभावम् अनेकप्रकारभङ्गतां व्रजति प्रत्येकनयप्रवृत्तवचनानां नयात्मकवचनानां वा परस्पर विभिन्न भङ्गरूपतागमनं युज्यत एव । तत् तस्मात् । इह नयनिरूपणे । सविधमोहि " इत्यस्य स्थाने " सुविधमेद्दि " इति पाठो युक्तः, सविधं निकटम्, पहि आगच्छ । मा स्पृश मत्स्पर्शनं न कुरु । इति एवं स्वरूपं वचनम् । छलवत् यथा छलं तथा, यो हि यन्निकटमागच्छति स तं स्पृशत्यपि, अतिसमीपागमनस्य तरसंयोगजनकत्वात्, तथा चाशक्यार्थप्रतिपादकत्वाद् भवति सविधमेहि मा स्पृशेति वचनं छलम् । एवं छलस्वरूपम् । इदम् अस्ति घटो नास्ति घट इति नयवचनम् । आर्यैः निर्मलमतिभिः । न शङ्कनीयम् एकनयसमुत्थं किश्चिदपेक्षयाऽस्ति घट इति वचनम्, अपरनयसमुत्थं निमित्तान्तरापेक्षया नास्ति घट इति, तयोर्द्वयोरपि परस्पराविरुद्धसम्भवदर्थकत्वेन छलत्वाभावादित्यर्थः ॥ ५ ॥
इत्थं पश्चभिः पद्यैः समूलां नयामृततरङ्गिणीं स्तुखा तज्जन्यबोधवैचित्र्यमुपदर्शयति- प्रथमत इद्देति । प्रथमतः निमित्तभेदालोचनतः प्रागेव । इद्द शब्दव्यवहारे । लौकिकः आपामरलोकसम्बन्धी आकाङ्क्षाऽऽसत्ति योग्यताज्ञानादिघटितसामग्रीप्रभवः । अर्थबोधः पदार्थश्यान्वयबोधः । तदनु तदनन्तरम् । नयात्मक एव निमित्तभेदापेक्षयै केक धर्मप्रकारकघटाद्यर्थविशेष्यकन यात्मकबोध एव । मध्यमः स्यात् लौकिकबोध प्रमाणबोधयोर्मध्यभावी बोधो भवेत्, तथा च लौकिकबोधोऽस्तित्वप्रकारकघटविशेष्यकः नयात्मकबोधश्च स्वद्रव्याद्यपेक्षयाऽस्तित्वप्रकारकघटविशेष्यकः । तदुपरि नयात्मकबोधानन्तरम् । परितः सर्वतोभावेन स्वस्वविषयधर्मावस्थान निमित्तापेक्षा भेदव्यापनेनेति यावत् । प्रसर्पिण:- प्रवर्तमानाः, मा:- स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यादयस्तेषां व्यतिकरः- परस्परसा का भावेनैकवाक्यतालक्षणः सम्बन्धः, तेन संवलितः- जन्यजनकभावसम्बन्धेन प्रतिबद्धः । प्रमाणबोधः प्रमाणात्मक बोधः सप्तभङ्गात्मक महावाक्यप्रभवः · प्रमाणात्मक तृतीयबोध इत्यर्थः ॥ ६ ॥
श्रुतमय इति यथा यथा श्रूयते शब्दस्तथैवार्थबोधो भवतीति श्रुतमनतिक्रम्य जायमानत्वाच्छ्रुतमयः । किल इतीत्येतिथे एवं वृद्धपरम्परयाऽवगम्यते । आद्यबोधो लौकिकोऽर्थबोधः । मतहृतकृदित्यस्य स्थाने मतहृतिकृदिति मतशतदिति वा पाठो भवितुमर्हति प्रथमपाठे एको नयः स्वप्रतिपक्षनयमतं विनाशयतीति मतहृतिकृदिति द्वितीयपाठे
५३