________________
नयामृततरङ्गिणी सरङ्गिणीतरणिभ्यां समस्तो नयोपदेशः ।
नयोपदेशटीकेयं नयामृततरङ्गिणी । सेव्यताममृतप्रायै मिथ्यात्वविषतापहृत् ॥ १ ॥
सबलविषयसन्निविष्टधर्मव्यतिकर-सङ्करशवयाऽऽबिलानाम् ।। जयति भगवतो नयोपदेशः, पटुरखिलाङ्गभृतां हितं विधातुम् ॥२॥ इह खलु न हि नः स्मयो न रोषो, न च परबुद्धिपराभवाभिलाषः । अपि तु पितुरिव प्रजाहितस्य प्रथमगुरोर्वचनादरो निमित्तम् ॥ ३ ॥
समाप्तिं विदधाति-- इतीति - एताभिरुपपत्तिभिरित्यर्थः। अनाविलः दोषकलङ्करहितः । अन्ते इति- शब्द: सिद्धमिति च शब्दो प्रन्थसमाप्तिसूचकः ॥
॥ अथ प्रशस्तिः ॥ पञ्चभिः श्लोकैनयोपदेशटीको समूला स्तौति-नयोपदेशटीयमिति- मिथ्यात्वविषता पहृद् नयामृततरङ्गिणीयं नयोपदेशटीकाऽमृतप्रायै सेव्यतामित्यन्वयः । आकसं जगति प्रसिद्धथै नयामृततरङ्गिणीत्यन्वर्थसंज्ञाभिधानम्, नान्या नयोपदेशटीकाऽन्वर्थनयामृततरङ्गिणीनाम्नी भवितुमईतीत्यवगतये- इयमिति। नामवत: स्वरूपावगतये-नयोपदेशटीकति । यत इयं मिथ्यात्वविषतापहृत् ततोऽमृतप्राय सेव्यतामित्येवं यत्तच्छन्दोपादानप्रयोजनमवसेयम्, मिथ्यात्वविषतापहृदित्यस्य मिथ्यास्वमेकान्ततत्त्वाभ्युपगमस्तच्छ्रद्धानं वा, तदेव विषं तबन्यो यस्तापो रागद्वेषादिलक्षणस्तं हरतीति तादृशतापहारिणी, न चेयं स्वरूपसती स्वरूपमात्रेण ज्ञाता वा मिथ्यात्वविषतापहारिणी किन्तु स्वजन्यस्वार्थतत्त्वज्ञानद्वारेति तत्वज्ञानजननीत्यपि ततो लभ्यते इत्यर्थः । नयामृततरङ्गिणीत्यस्य नय एवामृतं तस्य तरङ्ग उच्छ. लत्प्रवाहकलोलस्तती, नयनदीति यावत्, बङ्गा-यमुनाया नयो यथा जलसमुद्रमाविशन्ति तथेयमपि नदी समयसमुद्रादागता समयसमुद्रमाविशतीति समयसमुद्रान्तर्गततत्त्वरत्नसङ्घदकारिणी, तथाऽनया नद्या मनीषाप्रवहणमारुह्य बुद्धवराः समयसमुद्रमाविशन्तीत्यर्थः । नयोपदेशटीकेयस्यार्थः स्पष्ट एव । अमृतप्राप्त्यै अमृतस्य- मोक्षस्य नित्यानन्दात्मकात्मस्वरूपस्य प्रायै, यद्याप नित्यानन्दात्मकमोक्षस्वरूपमात्मनः सर्वदेव प्राप्तं तथापि कर्भपटलावृतत्वादप्राप्तमिव भवति, तत्वज्ञानेन कममलपटलापगमे तु स्वयं प्रकाशस्वरूपमाविर्भवति ततः प्राधिरेवास्य भवति न तूपत्तिः, यथा च जलनदीतो जलप्राप्तिरवश्यं भवति तथाऽमृतत्वेन नयामृत-मोक्षात्मकामृतयोरक्याध्यवसायानयामृतनदीतोऽवश्यं मोक्षात्मकामृतप्राप्तिरिति तदर्थमित्यर्थः। सेव्यतामिति- नहि जलनद्या दूरतो दर्शनमात्रेण जलप्राप्तिः किन्तु तत्तीरादिगमन-तदवगाहनादिलक्षणसेचया तथा नयामृततरङ्गिण्या भूयोभूयस्तदर्थावगमलक्षणसेवयेति तदात्मकसेवाकर्म क्रियतामित्यर्थः ॥ १ ॥ __ सबलेति-- भगवतो नयोपदेशः सबलविषयपन्निविष्टधर्मव्यतिकरसंकरशङ्कयाऽऽविलानामखिलाङ्ग भृतां हितं विधातुं पटुर्जयतीत्यर्थः । भगवतो ज्ञानातिशयादिशालिनो जिनस्य, नयोपदेशः, सबलोऽनन्तधर्मात्मको यो विषयः, तत्सन्निविष्टाः तत्स्वरूपप्रविष्टा ये धर्मास्तेषां व्यतिकर:- यद्रूपेण सत्वं तद्रूपेणासत्त्वं यद्रूपेण चासत्त्वं तद्रूपेण सत्वमित्येवं विनिमयः, यद्रूपेण सत्त्वं तद्रूपेणेव सत्त्वमसत्त्वं चेत्येवं सङ्करस्तयोः शङ्कया, आक्लिाना- व्याप्तानाम् , अखिलाङ्कभृतां सकलशरीरिणाम् , हितम् इष्टम् , विधातुं कर्तुम्, पटुः समर्थः, जयति सर्वोत्कर्षेण वर्तते इत्यर्थः ॥ २ ॥
इहेति- इह नयामृततरङ्गिणी करणे, खल निश्चयेन, नः अस्माकम् , स्मयः स्वमतोचत्वाभिमानः, नहि निमित्तं नैव कारणम् , रोषः परं प्रति क्रोधः, न निमित्तम्, परबुद्धिपराभिलाषः परकीयमत्यप्रामाण्यज्ञापनेच्छा, न च निमित्तं नैव कारणम्, तर्हि नयामृततरङ्गिणीकरणे किं निमित्तमिति पृच्छति- भपि विति। उत्तरयति-पितुरिवेतिसन्तानहितकारिणः पितुर्जनकस्यैव, प्रजाहितकारिणः, प्रथमगुरोः प्रथमतो धर्मदेशनादीक्षितस्य भगवतः श्रीऋषभदेवस्य प्रथमतीर्थङ्करस्य, अथवा सर्वेऽपि तीर्थ करा: स्वस्व तीर्थप्रवर्तका गुरव एवेति प्रथमगुरोरित्यस्य वर्तमानतीर्थाधिपतेश्वरमतीर्थङ्करस्य श्रीमहावीरस्येत्यप्यर्थः सम्भवति, वचनादरः वचनस्य- स्थाद्वादराद्धान्तस्य, आदर:- सम्यक्तया श्रद्धानम्, निमित्तं कारणमित्यर्थः, सनिमित्तकरवादियं नयामृततरङ्गिणी सर्वेरप्यवगाह्या इति भावः ॥३॥