________________
मयाक्षुततरनिणी-तरङ्गिणीतरणिभ्यां समढतो तयोपदेशः ।
क्षेपक कारणत्वरूप स्थूलापेक्षयैव तदेकान्ताभिधानोपपत्तेः, अत एव शैलेश्यन्तक्षणभावि धर्महेतुत्वमिति विशुद्धैवम्भूताभिप्रायेणैवास्माभिस्तत्र तत्र समर्थितम् । यत् तु मिध्यादृशो मिध्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेव मुक्तिहेतुरिति मन्यन्ते ते मिथ्याज्ञानोन्मूलनेऽपि तत्तन्मनः प्रणिधानरूपायाः क्रियाया हेतुत्वं कथं न पश्यन्ति, मिथ्याज्ञानवासनोन्मूलनत एवं कर्मनिरपेक्षं तत्वज्ञानं हेतुरिति चेत् ? तर्ह्यदृष्टपरिकल्पनमेतत् मिथ्याज्ञानवासनायाः स्मृत्येकनाश्यत्वात् तत्त्वज्ञानस्य तन्नाशकताया लोकेऽदृष्टत्वात्, अष्टकल्पने वाऽऽगमानुसारेण ज्ञानवत् कर्मणोऽपि मलयद्वारा मुक्तिहेतुत्वकल्पनमेत्र ज्यायः, तथा चाभ्यधादासुरोऽपि वासिष्ठे
४१५
93
" तन्दुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् ॥ १॥ [ ] इत्यादि । किन, विहितत्वेन पुण्यपापक्षयान्यतर हेतुत्वव्याप्तेस्तत्त्वज्ञानस्य कर्मतुल्यत्वम्, न च चिकित्सादावेव व्यभिचारः, मुमुक्षुविहितत्वेन व्याप्तौ व्यभिचाराभावादिति पुष्टिशुद्ध्यनुबन्धद्वारा ज्ञान- कर्मणोat तुल्यवदेव हेतुतया समुच्चयपक्ष एव अनाविल इति सिद्धम् ॥ * ॥
संचलित मुक्तिक्षणे ' इत्यादिना खण्डितत्वात् । निरासे हेतुमाह एकैकस्येति ऋजुसूत्राद्येकैकनयस्येत्यर्थः । तदेकान्ताभिधानेति - सदुज्जुसुआणमित्येकान्त संयम कारणत्वप्रतिपादकवचनेत्यर्थः । अत एवेत्यस्य समर्थितमित्यनेनान्वयः, शैश्यन्तक्षणभावी यो धर्मस्तस्यैव मुक्ति प्रति कारणत्वमित्यर्थः । अस्माभिः यशोविजयोपाध्यायैः । तत्र तत्र स्वनिर्मितानेकप्रन्थेषु । मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेवैकं मोक्षजनकमित्येकान्तवादिनां केषाञ्चिन्मतमुपन्यस्य दूषयतियेत्विति । 66 यत् तु इत्यस्य स्थाने " ये तु " इति पाठो युक्तः, अस्य मन्यन्त इत्यनेनान्वयः । भवतु मिथ्याज्ञानोन्मूलनद्वारा तवज्ञानं मोक्षहेतुः किन्तु मिथ्याज्ञानोन्मूलने यथा तत्त्वज्ञानं हेतुस्तथा तत्तन्मनः प्रणिधानरूपा क्रियाऽपि हेतुरिति तत्तन्मनः प्रणिधानक्रियाऽपि मिथ्याज्ञानोन्मूलनद्वारा मोक्षहेतुर्भवेदिति तदनालोचनं तेषामज्ञानविजृम्भितमेवेति तन्मतदूषणमुपदर्शयति - ते इति - अस्य कथं न पश्यन्तीत्यनेनान्वयः । ननु मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरित्येव नेष्यते, किन्तु मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा तत्वज्ञानं मोक्षहेतुरिति तत्र नोक्तदोष इति पराकूतमुद्भाव्य दूषयति- मिथ्याज्ञानवासनोन्मूलनत एवेति मिथ्याज्ञानजन्यवासनाया भावनाख्यसंस्काररूपायास्तस्वज्ञानाजन्यत्वाद् भावनात्वावच्छिन्न प्रतियोगिताकध्वंसत्वावच्छिन्नं प्रति स्मृतित्वावच्छिन्नस्यैव कारणत्वस्य दर्शनबलाद् व्यवस्थितेः, तस्वज्ञानस्य तु मिथ्याज्ञानजन्यवासनाध्वंसजनकत्वं लोके न दृष्टमिति तथाकल्पनाऽदृष्टचरी प्रामाणिकैरुपेक्ष्यैवेति दूषणं दर्शयति तति । एतत् मिथ्याज्ञानवासनोन्मूलनत एव कर्मनिरपेक्षं तत्त्वज्ञानं मोक्षहेतुरिति कल्पनम् । तस्करूपन
दृष्टपरिकल्पनत्वे हेतुमाह- मिथ्याज्ञानेति । स्मृत्ये नाश्यत्वात् स्मृतिमात्रजन्यनाशप्रतियोगित्वात् । तन्नाशकतायाः मिथ्याज्ञानजन्यवासनानाशजनकतायाः । ननु लोकेऽदृष्टमपि शास्त्रानुसारेण तत्त्वज्ञानस्य मिथ्याज्ञान जन्यवासनोन्मूलकत्वं मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा मोक्षजनकत्वं च परिकल्प्यते आगमवचनप्रामाण्यादिश्यत आइ- अकल्पने वेति । कर्मणो मलयहेतुत्वे वासिष्ठवचनं प्रमाणयति - तथा चेति । तण्डुलस्येति पद्यं स्पष्टम् । अपि च तत्त्वज्ञानं पुण्यपापक्षयाऽन्यतरकारणं विहितस्वात् कर्मवदित्यनुमानेन पापक्षयजनकतया सिद्धस्य तत्रज्ञानस्य तद्द्वारैव मोक्षजनकत्वमिति पुष्टिशुद्धचनुबन्धद्वारा मुक्तौ तुल्यवदेव हेतुत्वमिति समुच्चयपक्ष एवं दोषकलङ्करहित इत्याह- किश्चेति । ननु विहितत्वं चिकित्सादावस्ति न च तत्र पुण्यपापचयान्यतरजनकत्वमिति व्यभिचारिणा विहितत्वहेतुना न तत्त्वज्ञानस्य पुण्यपापक्षयान्यतरहेतुत्वं सिद्धयतीत्याशङ्कय- प्रतिक्षिपति- न चेति । प्रतिक्षेपहेतुमुपदर्शयति- मुमुक्षुविहितत्वेनेतितथा च मुमुक्षुविहितत्वमेव हेतु:, तस्याव्यभिचरितत्वात् प्रकृतसाध्यसाधकत्वं स्यादेवेति । समुच्चयपक्षमुपसंहरन् प्रन्थ