________________
नयाभूततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । प्रधानप्राहकज्ञाननयेन ज्ञानोत्कर्षः सुवच एव ॥ ११॥१२॥ दृष्टान्तौ चात्र पवन्धौ, तयोरन्यतरस्याकिश्चित्करत्वेन संयोगपक्ष एव श्रेयान् , न च कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्रमेव मुक्तिरूपफलोपधायकत्वेन विशिष्यत इत्यपि शङ्कनीयम् , कुर्वद्रुपलक्षणस्य सहकारिसमवधाननियतत्वेन तत्कालीनज्ञानक्षणस्यापि मुक्तिहेतुत्वात् । पुञ्जात् पुञ्जोत्पत्तिपक्षे बीजपाथः पवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन हेतुत्वमिति चारित्रक्षणस्य मुक्तावुपादानत्वेन हेतुत्वाद् विशेष इत्यप्यसाम्प्रतम् , ज्ञानादिसंवलितमुक्तिक्षणे संवलितक्षणस्यैव हेतुत्वात् तश्चातघ्यावृत्त्या शक्तिविशेषादिना वेत्यन्यदेतत् , कथं तर्हि " सदुज्जुसुआणं पुण निव्वाणं संजमो चेव " [
] इति नियुक्तिवचनश्रद्धानवतां तेषां कुर्वद्रूपक्षणावगाहित्वात् तत्र चैकान्तस्यानुपदमेव निरस्तत्वादित्याशङ्कनीयम् , एकैकस्य शतभेदत्वेनावरणस्य प्राधान्येऽन्धो दृष्टान्त इत्याह- दृष्टान्तौ चात्र पविन्धाविति । ज्ञानवानपि पॉर्गन्तव्यग्राममार्ग पश्यन्नप्यको गन्तव्यग्रामं नासदयति, क्रियावानपि अन्धो गन्तव्यग्राममार्गदर्शनादभीष्टं ग्रामं न शक्नोति प्राप्तुं किन्तु मिलितो तावभीष्टदेशं प्राप्नुत एवेत्येवं संयुक्त ज्ञानचरणे मोक्षं जनयत इति समुच्चयवाद एवादरणीय इत्याह-तयोरिति- परवन्धयोरित्यर्थः । न चेयस्य शङ्कनीयमित्यनेनान्वयः । कुर्वदूपत्वनय इति- अङ्कुरादिकं प्रति बीजादीन! बीजवादिना न कारणत्वं किन्त्वङ्कुरकुर्वद्रूपत्वेन बीजादीनामङ्कुररादिकं प्रति कारणत्वम् , धूमकुर्वद्रूपत्वने वह्नयादीनां धूमं प्रति कारण. स्वमित्येवं तत् तत् कार्य प्रति तत्तत्कार्यकुर्वपत्वेन तत्ताकार्यकारणानां कारणत्वमित्यभ्युपगन्तृनय इत्यर्थः। निषेधे हेतुमाह-- कुर्वपक्षणस्येति । तत्कालीनेति - शैलेश्यन्त्यक्षणभाविचारित्रकालीनेत्यर्थः । चारित्रस्य प्रकारान्तरेण ज्ञानाद् विशेषस्योपदर्शनपुरस्सरमयुक्तत्वमावेदयति- पुञ्जात् पुजोत्पत्तिपक्ष इति - पूर्वक्षणवर्तिरूप-रस गन्ध स्पर्शाणुपुत्रादुत्तरक्षणे रूप-रस-गन्ध-स्पर्शाणुपुञ्जमुत्पद्यते, तत्र पूर्वक्षणवर्तिरूपाणोरुत्तरक्षणवर्तिरूपाणु प्रत्युपादानविधया कारणत्वम्, रसावा. . दीनां तत्र सहकारिविधया कारणत्वम् , एवं पूर्ववर्तिरसाधणूनामुत्तरक्षणवर्तिरसाधणून प्रत्युपादानविधया कारणत्वं रूपादीनां च तत्र सहकारिविधया कारणत्वमित्यभ्युपगन्तमते इत्यर्थः । बीजेति- शाल्यवरान् प्रति शालिबीजादय उपादानविधया कारण पाथः-पवनादयश्च तत्र सहकारिविधया कारणम् , एवं पाथः- पवनादीन् प्रति पाथःपवनादय उपादानविधया कारणं बीजादयश्च सहकारिविधया निमित्तत्वेन कारणमित्येवं बीज-पाथः-पवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन कारणत्वमिति बोध्यम् । इति कार्यविशेषापेक्षयोपादानव-निमित्तत्वव्यवस्थितौ । विशेषः निमित्तत्वेन मोक्षं प्रति कारणात् तत्त्वज्ञानाचारित्रक्षणस्य वैलक्षण्यम् । असाम्प्रतम् अयुक्तम् । तत्र हेतुमाह-शानादीति- मुक्तिक्षणे ज्ञानादिकमपि विद्यत इति पुछात् पुजोत्पत्तिपक्षे ज्ञानादिसंवलितमुक्तिक्षणात्मकपुले ज्ञान-दर्शन-चारित्रपुञ्जस्यैव कारणत्वात् तत्रोक्तविशेषस्य विनिगन्तुमशक्यत्वाचारित्रस्यैव हेतुत्वमित्यतनोपपद्यत इत्यर्थः । ननु ज्ञान-चारित्रादिसमुच्चयवृत्त्येकधर्माभावात् कथं संवलितस्यैव कारणत्वमित्यत आह-तञ्चेति- संवलितक्षणस्य कारणत्वं चेत्यर्थः । अतद्वयावृत्या ज्ञान मिलत्वे सति दर्शनभिन्नत्वे सति चारित्रभिन्नो यस्तद्भिन्नत्वेन । शक्तिविशेषादिना ज्ञान-दर्शन-चारित्रेषु संवलितेष्वेव मोक्षानुकूलैकशक्तिविशेषः कल्प्यते, धर्मान्तरमेव वा किञ्चित् कल्प्यते, तद्रूपेण एवं चातया वृत्तेरन्यतमत्वस्वरूपायाः प्रत्येकमपि ज्ञानादौ सत्त्वेनैकैकस्मादपि ज्ञानादितो न मुक्तिप्रसङ्गः । अन्यदेतत् वादान्तरम् । “कथं तहिं" इत्यस्य स्थाने " न चैवं कथं तहि" इति पाठो यक्तः. . निर्यक्तिवचनश्रद्धावत" इत्यस्य स्थाने च "नियुक्तिवचनं, तच्छद्धानवतां" इति पाठो युक्तः । न चेत्यस्याशङ्कनीयमित्यनेनान्वयः। कथं तीत्यस्य नियुक्तिवचनमित्यनेनान्वयः । सददज्ज० इति-" शब्द सूत्राणां पुनः निर्वाणं संयमादेव" इति संस्कृतम्, एतद्वचनं पुजातू पुलोत्पत्तिरित्यभ्युपगन्तऋजुसूत्रनये मुक्ति प्रत्येकान्तेन संयमस्यैव कारणत्वमवबोधयति, तत् कथं सकतमित्याक्षेपः। तत्र हेतुमाह- तच्छ. द्धानवतामिति-- उक्तनियुक्तिवचनश्रद्धानयतामित्यर्थः । तेषाम् ऋजुसूत्रनयानुसारिणाम् ! कुर्वद्रूपक्षणावगाहित्वात् उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य तत्तत्क्षणकुर्वद्रूपक्षणत्वत्वेन कारणत्वस्याभ्युपगन्तृत्वात् । तत्र च निरुक्तपक्षे च । एकान्तस्य मुक्ति प्रति संयमस्यैव कारणत्वमित्येकान्तस्य । अनुपदमेव अनन्तरमेव । निरस्तत्वात् 'ज्ञानादि