________________
मयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो भयोपदेशः ।
-
-
-
अनन्ता र ]कारणग्राहकनयेन तत्र चारित्रमेव हेतुरिति चेत् ? न- उत्पत्तावन्तरत्वस्य यथाख्यातचारित्रापेक्षया केवलज्ञान एव सम्भवात् , व्यापारानन्तर्यस्य च कल्प्यमानस्योभयत्राप्यविनिगमात् ॥ ३ ॥ एतेनाक्षेपककारणप्राहकनयेन " जम्हा सण-नाणा" [
] इत्यादिवचनाचारित्रमेव मुक्तिहेतुरित्यपि निरस्तम् , आक्षेपकत्वं हि स्वेतरस कलकारणसमवधाननियतसमवधानकत्वम् , तब यथास्यात इव केवलज्ञानेऽपीत्यविशेषात् , क्षयोपशमदशायामप्य पुनर्बन्ध कादिचारित्रव्यावृत्तजातिविशेषवतश्चारित्रस्येव विषयप्रतिभासात्मपरिणामज्ञानोदप्रभाविततत्वज्ञानस्यापेक्षकत्वाविशेषात् ।। ४॥ मुख्यैः कशेषनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न-तत्र मुख्यत्वस्यैव विनिगन्तुमशक्यत्वात् ॥ ५॥ पुमर्थग्राहकनयेन क्रियायामेव मुख्यत्वं विनिगम्यत इति चेत् ? न- परमभावग्राहकनयेन ज्ञान एष तद्वि. निगमनामाः सुवचत्वात् "जं सम्मति पासहा तं मोणति पासहा " [
] इत्यादिवचनात् ॥ ६ ॥ ७ ॥ कारकसम्यक्शरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न- “जं अमाणी कम्म खवई " [
] इत्यादिवचनात् सभ्यक्क्रियाशरीरनिर्वाहकत्वनयेन जानेऽप्युत्कर्षस्य वक्तुं शक्यत्वात् ।। ८ ॥ ९ ॥ एतेन " णिच्छयणयस्स चरणस्सवघाएण नाण-दसणवहो वि" [
] इत्यादिवचनाद् ज्ञाननाशव्याप्यनाशप्रतियोगित्वग्राहकशुद्धनयेन ज्ञानातिशयस्याप्यदुर्वचत्वात् ॥ १०॥ व्यापारप्राधान्यमाहकक्रियानयेन चारित्रोत्कर्ष इत्युक्तावपि दर्शन
विभागेन फलबुद्धिप्राहको यो नयस्तेनेत्यर्थः । तत्र मुक्तौ । " चारित्र हेतुत्वाभ्युपगम्यमानो" इत्यस्य स्थाने " चारित्रहेतुताऽभ्युपगम्यमाना " इति पाठो युक्तः, चारित्रस्य कारणता स्वीक्रियमाणा ज्ञान हेतुतामपि मुक्तौ ज्ञानस्य कारणतामपि नव्याहन्ति नैवायाकरोति । शङ्कते- अजारेति- कार्यस्य यदव्यवहितपूर्ववति तदेव कारणमित्यभ्युपगन्त. नयेनेत्यर्थः । तत्र मुक्तौ । प्रतिक्षिपति- नेति । उत्पती मुक्त्युत्पत्तौ । उभयत्रापि ज्ञाने चारित्रे च । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । आक्षेपककारणग्राहकनयेन यत् स्वेतरसकल कारणाक्षेपकं तत् कारणमित्यभ्युपगन्तृनयेन । एतेनेत्यतिदिष्टं निरासहेतुमुपदर्शयति- आक्षेपकत्वं हीति। तच्च निरुक्तस्वरूपमाक्षेपकत्वं च । निरुक्तस्वरूपमाक्षेपकत्वं क्षयोपशमदशायामपि चारित्रविशेषस्येव तत्त्वज्ञानविशेषस्याप्यस्त्यैव सम्भव इत्याह- क्षयोपशमशायामपीति । शङ्कतेमस्यैकशेषनयेनेति- यकाय ययोर्द्वयोर्मध्ये यदेव मुख्यं तदेव कारणमित्यभ्युपगन्तृनये नेत्यर्थः । समाधते-नेति । तत्र मुक्ती झान चारित्रयोर्मध्ये । शङ्कते- पुमर्थग्राहकनयेनेति- ययोईयोर्मध्ये यः पुमर्थः पुरुषप्रयत्नसाध्यस्तमेव गृह्णातीति तप्राहको नयस्तेनेत्यर्थः । क्रियायामेवेति- क्रियायाः पुरुषप्रयत्नसाध्यत्वेन तस्यामेवेत्यर्थः । समाधत्ते नेति । परमभावग्राहकनयेनेति-यो यस्य परमो भावः स एव तस्य स्वभाव इति ग्राहकनयेनेत्यर्थः । तद्विनिगमनायाः मुख्यत्वसाधकयुक्तः। अत्रागमवचनं प्रमाणयति-जं ति- शकते-कारकेति- न केवलं निर्विशेषितं ज्ञानं मोक्षकारक किन्तु सम्यग्ज्ञानमिति कारकं यत् सम्यग्ज्ञानं तस्य यत् सम्यक्त्वं तन्चारित्रसहचरितत्वादेवेति तच्छरीरनिर्वाहकत्वं चारित्रस्यैवं प्राहकनयेनेत्यर्थः । समाधत्ते- नेति । सम्यक्त्वेति- सम्यक्रिया सैव या ज्ञानसहचरितेति सम्यकक्रियाशरीरनिर्वाहकत्वं ज्ञाने इत्येवंग्राहिनयेनेत्यर्थः । एतेनेत्यस्यादुर्वचत्वादित्यनेन सुवच एवेत्यनेन चान्वयः । णिच्छयणयस्स इति “ निश्चय नयस्य चरणस्यावघातेन ज्ञान-दर्शनवधोऽपि" इति संस्कृतम् । ज्ञानेति- ज्ञाननाशव्याप्यो यो नाशस्तत्प्रतियोगित्वं चरणस्येत्येवं ग्राहको यः शुद्धनयो निश्चयनयस्तेनेत्यर्थः । अदुर्ववत्वात सुवचत्वात् । व्यापारेति- व्यापार व्यापारिणोर्मध्ये व्यापारस्य प्राधान्यमित्येवं ग्राहको यः क्रियानयस्तेनेत्यर्थः । दर्शनेति-कियादर्शनयोर्मध्ये दर्शनं प्रधानमित्येवं ग्राहक ज्ञानगयेनेत्यर्थः, तथा च केनचिन्नयेन ज्ञानस्य प्राधान्यं केनचिन्नयेन चरणस्य प्राधान्यमित्येकस्यैव प्राधान्यमित्यस्य नियन्तुमशक्यत्वेन तयोः समुश्चय एव इति भावः । ज्ञानस्य प्राधान्ये पदृष्टान्त