________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नबोपदेशः ।
न्तेऽपि नाशार्थिप्रवृत्तौ नाश्यनिश्चयविधयैव केवलज्ञानस्य कर्महेतुत्वमनपायम्, तदुक्तं नियुक्तौ समुद्घाताधिकारे -
" णाऊण वेयणिज्जं अइबहुअं आऊयं च थोबागं । कम्मं पडिलेहेडं वञ्चति जिणा समुग्धायं " ||
[
1
કાર
अत्र तत्वाप्रत्ययबलादेव नियतपौर्वापर्यस्यार्थाच्चानन्यसिद्धत्वस्य प्रतीतेः कारणत्वलाभ: । अन्यदव्याभोगवीर्यस्यैव केवलिनः कर्मक्षयहेतुत्वादाभोगान्वितवीर्यत्वेन वीर्यान्विताभोगत्वेनापि हेतुत्वादुक्तार्थसिद्धिः, यत् पुनः—
" दोषपक्तिर्मतिज्ञाना अकिञ्चिदपि केवलात् । तमः प्रचय निःशेषविशुद्धिफलमेव तत् ॥ १ ॥
[
1
इत्यनेन केवलज्ञानस्याकिञ्चित्करत्वमुच्यते तद्दोषपत्तिरूपकार्यापेक्षया, न तु पकानां भवोपप्राहिणां क्षपणरूपकार्यमाश्रित्य तत्तव्यापारस्य तदा जागरूकत्वात्, यदि च स्वरूप शुद्धिप्राहकनयेन केवलज्ञानस्य निर्व्यापारत्वं स्वीक्रियते तदा यथाख्यातचारित्रात्मकक्रियाया अपि तथात्वमेवाभ्युपगन्तुं युक्तम्, समुद्घातादिना कर्मक्षपणव्यापारस्य योगविशेषेणैव वक्तुं शक्यत्वात् ॥ १ ॥ मुक्तिबन्धहेतुविवेकेन फलशुद्धिप्राहकनयेन तत्र चारित्रहेतुत्वाभ्युपगम्यमानो ज्ञानहेतुतामपि न व्याहन्ति ॥ २ ॥ प्रतिक्षेप हेतुमाह- कर्मप्रागभावासहवृत्तीति- स्वसमानाधिकरणकर्मप्रागभावा धिकरणकालावृत्तीत्यर्थः, न तु स्वसमानाधिकरणकर्म प्रागभावाधिकरण कालवृत्तीत्यर्थः, तथा सति संसारदशा कालीन कर्मनाशस्यापि स्वसमानाधिकरणकर्म प्रागभावानधिकरणमुक्तिकालवृत्तित्वेन निरुक्तकार्यतावच्छेदकाऽऽकान्ततया तस्य तत्त्वज्ञानं विनैव व्यतिरेकव्यभिचारस्तदवस्थः स्यादिति बोध्यम्, कायव्यूहद्वारा युगपद्भोगस्तत्त्वज्ञानादेव भवति, तत्र तत्त्वज्ञानस्य कारणत्वे व्यतिरेकव्यभिचाराभावादित्यर्थः । अस्मत्सिद्धान्तेऽपि जनै सिद्धान्तेऽपि । कर्महेतुत्व" इत्यस्य स्थाने कर्मनाशहेतुत्व " इति पाठो युक्तः । अनपायं निर्विघ्नम् । उक्तार्थे नियुक्तिवचनं प्रमाणयति तदुक्तमिति । गाउण० इति " ज्ञात्वा वेदनीयमतिब हुकमायुष्कं च] स्तोकम् । कर्म प्रतिलेखितुं व्रजन्ति जिनाः समुद्घातम् ॥ इति संस्कृतम् । अत्र उक्तनिरुक्तिवचने । क्तत्वाप्रत्ययबलात् णाउण- ज्ञात्वेति त्वाप्रत्ययबलात, अस्य प्रतीतेरित्यनेनान्वयः, एवं नियतपौर्वापर्यस्येत्यस्यापि तेनैवान्वयः । " नत्यसिद्धत्वस्य " इत्यस्य स्थाने " नन्यथासिद्धत्वस्य " इति पाठो युक्तः । कारणत्वलाभः । अनन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वस्वरूपं कारणत्वं तस्य घटकयोरनन्यथासिद्धत्व-नियतपूर्ववर्तित्वयोः प्रतीत्या लाभः । अन्यदपीतियुक्तयन्तरमपि तत्र प्रमाणमित्यर्थः । युक्तयन्तरमेव दर्शयति- आभोगवीर्यस्यैवेति- आभोगः- उपयोगात्मक ज्ञानस्वरूपः, तद्वीर्यस्य कर्मक्षयं प्रति कारणत्वे ज्ञानस्य कर्मक्षयं प्रति कारणत्वमायातमेवेत्याशयः । यत्पुनरित्यस्य अकिञ्चित्करत्वमुच्यते ' इत्यनेन सम्बन्धः । ज्ञाना अ इत्यस्य स्थाने ज्ञानाद " इति पाठो युक्तः । तमः प्रचयेत्यत्र तम:पदमज्ञानार्थकम् । तत् केवलज्ञानम् । तत् केवलज्ञानस्य किश्चित्करत्व वचनम् । 66 " तन्तद्व्यापारस्य इत्यस्य स्थाने " तत्र तद्वयापारस्य " इति पाठो युक्तः । तत्र पक्कभवोपग्राहिकर्मक्षये । तद्व्यापारस्य तत्त्वज्ञानव्यापारस्य । सदा भवोपप्राह्निकर्मणां पक्वतादशायाम् । जागरूकत्वात् अवश्यम्भावात्, यो हि स्वकार्यमवश्यमेव सम्पादयति स तत्र समर्थस्तस्मिन् कार्ये जागरूको न तु तत्र सुप्तः, एवं तयापारोऽपि तथा जागर-स्वापादीनां ज्ञानाज्ञानाद्यवस्थाविशेषाणां वस्तुगत्या चेतनधर्माणां व्यापारे वस्तुतोऽभावादुपचारादेव तत्तत्कार्येऽवश्यम्भावमुपादाय तथा व्यपदेश इति बोध्यम् । स्वरूपशुद्धिग्राहक नयेनेति - केवलज्ञानं स्वरूपतः शुद्धमेव न तु किञ्चिद्धर्मकलङ्कितमित्येव स्वरूप शुद्ध केवलग्राहिनयेनेत्यर्थः । तथात्वमेव निर्व्यापारत्वमेव । ननु यदि यथाख्यात चारित्रात्मिका किया निर्व्यापारा तदा समुद्घातादिना कर्मक्षपणव्यापारः केन भवेदित्यपेक्षायामाद्द- समुद्घातादिनेति । मुक्ति-बन्ध हेतुविवेकेनेति - अयं मुक्तिहेतुरयं च बन्धहेतुरित्येवं
6.
"
ܕܕ
"
ܕܕ
"