________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो मयोपदेशः ।
४११
भोगनाश्यत्वेन ज्ञानस्य तदनाशकत्वान्नान्यथासिद्धिः, नहि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात् , तेन विनापि कर्मण एव तदुत्पत्तेश्च, न च वासुदेवादीनां कायन्यूहश्रवणात् तत्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इत्यपि साम्प्रतम् , तपःप्रभावादेव तत्त्वज्ञानानुत्पादेऽपि कायव्यूह सम्भवात् , भोगजननार्थ कर्मभिरवश्यं तत्सकार्यनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः, योगपद्यं च कागानां तज्जनककर्मस्वभावात् तपःप्रभावाद् इति, न च " तावदेवास्य चिरं यावन्न विमोक्षोऽथ सम्पत्स्यते कैवल्येन" [
] इति श्रुतौ तावदेवास्य- उत्पन्नतत्त्वज्ञानस्य, चिरं विलम्बो, यावन्नोत्पन्नकर्मणो विमोक्षः, अथ सम्पत्स्यते कैवल्येन भोगेना( न ) क्षपयित्वेति शेषः, इति व्याख्यानाद् भोगस्य तत्त्वज्ञानव्यापारत्वं युक्तमेव, न च शेषदाने मानाभावः सत्यपि ज्ञाने कर्मावस्थाने क्लप्तसामान्यस्य भोगस्यैव नाशकत्वेनाक्षेपादिति वाच्यम् , तत्वज्ञाने सति तत्त्वज्ञानदशायां न मोक्षः किन्तु तदपि म्रक्षण इत्यर्थेनाप्युपपत्तेरिति चेत् ? मैवम् , कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम्, भोगस्य तत्त्वज्ञाना( न )व्यापारत्वात् , न च तत्त्वज्ञानं विनापि भोगेन कर्मनाशे व्यभिचारः, कर्मप्रागभावासहवृत्तिकर्मनाशे युगपद्भोगे वा व्यभिचाराभावादिति मणिकतैवोक्तत्वात् , अस्मसिद्धा. तत्त्वज्ञानस्याप्यन्यथासिद्धत्वमापादयितुं शक्यम् , न चैवम् , कर्मणो भोगनियंत्वेन तत्त्वज्ञाननिवर्त्यत्वाभावे तत्त्वज्ञाना. जन्यायाः प्रतिबन्धककर्मनिवत्तस्तत्त्वज्ञानव्यापारवाभावादित्याशङ्कते- अथेति । तदनाशकरवात कर्मनाशकत्वाभावात् । ननु भोगद्वारैव मोक्ष प्रति तत्त्वज्ञानं कारणमिति भोगेनैव तत्त्वज्ञानस्यान्यथासिद्धत्वमापादनीयमित्यत आह- नहीति । तत्र हेतु:-तथाऽश्रवणादिति- तत्त्वज्ञान व्यापारतया भोगस्यागमवचनाप्रतिपाद्यत्वादित्यर्थः। भोगस्य तत्त्वज्ञानजन्यत्वे सति तत्त्वज्ञानव्यापारत्वं कल्पयितुं शक्यम् , न च भोगस्य तत्त्वज्ञान जन्यत्वं कर्मण एव भोगोत्पत्तेरित्याह- तेन विनापीतितत्त्वज्ञानमन्तरेणाऽपीत्यर्थः । तदुत्पत्तेः भोगोत्पत्तेः। न चेत्यस्य साम्प्रतमित्यनेमान्वयः। "तत्कार्यनिष्पादन " इत्यस्य स्थाने "तरकायनिष्पादन” इति पाठो युक्तः, तत्कायनिष्पादनं भोगजनक कायसम्पादनम् । तत्र भोगजनककायनिष्पादने । नन्वेवं कर्मभिस्तत्तद्धोगजनककायानां क्रमेण भवनं भवेत् न योगपद्येन, युगपदुत्पद्यमानानामेव कायानां कायब्यूहशब्दव्यपदेश्यत्वम्, न कमोत्पन्नानामिति युगपत्कायसमूहलक्षणकायव्यूहस्तत्त्वज्ञानादेव, तत्र तत्वज्ञानोपयोग इत्यत आह-योगपद्यं चेति-- युगपत्कायजनकेत्यर्थः। अचिन्त्य शक्तिश्च तपसामिति तत्प्रभावात् तत्सामाग्रुगपदनेककायोत्पत्तिरित्यतावता तत्वज्ञानमन्तरेणापि कायथ्यूहः सम्भवतीत्याह-तपःप्रभावाद वेति । भोगस्य तत्त्वज्ञानध्यापारत्व. माशय प्रतिक्षिपति- न चेति- अस्य धाच्यमित्युत्तरेण सम्बन्धः । तावदेवेति श्रतेस्तत्त्वज्ञाने भोगव्यापारकत्वावेद. कत्वस्पष्टप्रतिपत्तये तयाख्यानमाह- तावदेवेति- यावदित्युत्तरापेक्षं तावदिति । अस्येत्यस्य विवरणमुत्पन्नतत्व. झानस्येति । चिरमित्यस्य विवरण- विलम्ब इति । न विमोक्ष इत्यस्य विवरणं- नोत्पनकर्मणो विमोक्ष इति । अथ सम्पत्स्यते इत्यत्र केन सम्पत्स्यते ? कथं सम्पत्स्यते? इति प्रकारकर्तव्यताकालयोनिवृत्यर्थमाह-कैवल्येन भोगेन क्षपयित्वात शेष इति-भोगन प्रारब्धकर्म क्षपयित्वा कंवल्येन स्वस्वरूपमात्रावस्थानलक्षणमाक्षण सम्पत्स्य मुक्को भवतीति यावत् । इति व्याख्यानात् एवं स्वरूपव्याख्यानात् । शेषकरणे मानाभावमाशय प्रतिक्षिपति-न चेति । शेषदाने शेष करणे। प्रतिक्षेपहेतुमाह- सत्यपीति । भोमस्य तत्त्वज्ञान व्यापारवाशङ्काप्रतिक्षेपहेतुमुपदर्शयति-तत्त्वज्ञाने सतीति । " तदपि म्रक्षणे" इत्यस्य स्थाने " तदपगमक्षणे" इति पाठो युक्तः, तस्य तत्वज्ञानविनाशक्षणे इत्यर्थः । भथ कर्मणो भोगनाश्यत्वेनेत्याद्याशङ्का प्रतिक्षिपति-मैवमिति । "ज्ञानस्य कर्मनाशकत्वं, भोगस्य" इत्यस्य स्थाने "ज्ञानस्य कर्मनाशकत्वे भोगस्य " इति पाठो युक्तः, यथा कमेंणो भोगनाश्यत्वं श्रुत्या प्रतिपादितं तथा तत्त्व झानस्य कर्मनाशकत्वमपि श्रुत्या प्रतिपादितम्, तत्र श्रुतिप्रतिपादिते ज्ञानस्य कर्मनाशकत्वे भोगस्य तत्त्वज्ञानव्यापारत्वाभावाद् मोगमदारीकृत्यैव तत्त्वज्ञानेन कर्मणो नाशसम्भवादित्यर्थः । ननु तत्त्वज्ञानत्वेन कर्मनाशत्वेन च कार्यकारणभावो न भवति, तत्त्वज्ञानाभावेऽपि भोगात् कर्मनाशस्य सम्भवेन तत्र व्यतिरेकम्यभिचारादित्याशय प्रतिक्षिपति-न चेति ।