________________
नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेश । कस्यापि न्यूनत्वं पराभिमत द्वारस्थाने एव फलाभिषेकात् , एकपुरस्कारेणान्यनिराकरणवचनं च तत्तदर्थवाद एवेति न कर्मकारणताबोधकवचनेऽनुकूलत्वमात्रमर्थः, कारणताशक्तपदस्यानुकूलत्वे लक्षणायां न्ताभावत्वावच्छिन्नप्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतेत्येवं प्रतिबध्य प्रतिबन्धकभाव उपेयते तदा घटवभूतलमिति बुद्धि प्रति तद्धटाभाववद्भुतलमिति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् , तद्धटाभावस्यापि घटनिष्ठप्रतियोगिताकत्वेन तद्वत्तानिश्चयस्यापि निरुकप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वावच्छिन्न प्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपितघटत्वावच्छिन्न प्रतियोगिताकारयन्ताभावस्वावच्छिन्न प्रकारतानिरूपितभूतलत्वाधवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेत्येवमेव प्रतिबध्य-प्रतिबन्धकभाव इति तद्धटात्यन्तामावस्य घटत्वावच्छिन्नप्रतियोगिताकत्वाभावेन निरुक्तप्रतिबन्धकत्वस्य तद्धटाभाववत्तानिश्चये वारणं सम्भवतीत्येवं प्रतिबध्य-प्रतिबन्धकभावानुरोधेनात्यन्ताभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वं स्वीक्रियते; तथा घटत्ववत्ताबुद्धिं प्रति घटभेदवत्तानिश्चयस्य प्रतिबन्धकत्वम् तत्रापि घटत्वत्वेतरधर्मानवच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितघटनिष्ठप्रतियोगिकभेदत्वावच्छिन्न प्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकमायो यद्यपेयते तदाऽयं घट इति बुद्धि प्रति नायं तद्धट इति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् तद्धटभेदस्यापि घटनिचप्रतियोगिताकत्वेन तद तानिश्चयस्यापि निरुक्तप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वेतरधर्मावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपिते इन्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिवध्यतानिरूपितघटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रकारतानिरूपितेदनस्वाद्यांच्छन्नविशेष्यताकनिश्चयत्वाद्यवच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकभावो वाच्यः, तद्भटभेदस्य घटत्वावच्छिन्न प्रतियोगिताकत्वाभावान तद्वत्तानिश्चयस्य प्रतिबन्धकत्वापत्तिः, घटत्वनिष्ठप्रकारताया घटत्वत्वेतरधर्मानच्छिन्नत्वेन निवेशादयं घट इति घटत्ववानिति च बुद्धयोः प्रतिबध्यत्वोपपत्तिः, सामान्यवानयमिति बुद्धश्च नायं घट इति निश्चयप्रतिबध्यत्वानापत्तिश्चेत्येवं प्रतिबध्यप्रतिबन्धकभावानुरोधेन भेदस्यापि सामान्यधर्मावच्छिन्न प्रतियोगिताकत्व. मुपेयते; वंस-प्रागभावौ चेकैकप्रतियोगिकावेव, न त्वेक्रघटध्वंसप्रागभावावन्य घरप्रतियोगिको स्तः, तौ च स्वप्रतियोगिसमवायिवर्तिनाविति यत्रय कपाले तद्धटो वर्तते तत्रवतद्धटोत्पत्तितः प्राकाले एतद्धटप्रामभावो वर्तते, एतद्धटाधिकरणचरमसमयानन्तरसमये चैतद्धटध्वंसो वर्तत इत्येवस्वरूपतः स्वप्रागभाव-ध्वंसाभ्यां समं नास्त्येतद्धटस्य विरोधः, किन्तु यद्येसमयावच्छेदेनैतद्धटयंस प्रागभावौ तत्तत्समयावच्छेदेन तदधिकरणीभूतकपाले नैतद्घट इति पूर्वोत्तरसमयावुपादायैव विरोध इति तत्समयावच्छिन्नसमवायेन तद्धटवत्ताबुद्धिं प्रति तत्समयावच्छिन्नस्वरूपेण तद्धटपागभाववत्तानिश्चयस्य तत्समयावच्छिन्नस्वरूपेण तद्घधंसवत्तानिश्चयस्य च प्रतिबन्धकत्वमिति तत्र तत्तघटनिष्ठप्रतियोगिताकत्वेन प्रागभाव-ध्वंसयोः प्रवेशेऽपि घटान्तरध्वंस घटान्तरप्रागभावयोस्तद्घटनिष्टप्रतियोगिताकत्वाभावादेव न तद्वत्तानिश्चयस्य प्रतिबन्धकत्वापत्तिरिति प्रतिवध्यप्रतिबन्धकभावस्य धस-प्रामभावयोः किश्चिद्धर्मावच्छिन्नप्रतियोगिताकत्वस्वीकारमन्तरेणाप्युपपत्तेः किञ्चिद्धर्मावच्छिन्न प्रतियोगि. ताकत्व एव तयोर्भानं नास्ति, किमु वक्तव्यं तयोः सामान्यधर्मावच्छिन्न करवे इति विवादसूचनायोक्तं सामान्यावच्छिन्नवसनय इति- घट-घटप्रागभावानधिकरणसमयवृत्तित्वावच्छेदेन तद्घटध्वंसे घटस्वावच्छिन्न प्रतियोगिताकत्वं घर भाषाधिकरणसमयवृत्तित्वावच्छेदेन घटत्वावच्छिन्न प्रतियोगिताकत्वभाव इत्येवमव्याप्यवृत्तिघटत्वावच्छिन्नप्रतियोगिताकत्वं ध्वंसे, यथा विशेषाभावकूटातिरिक्तसामान्याभावानभ्युपगन्तृनये विशेषाभावकूटत्वावच्छेन सामान्यधर्मावच्छिन्न प्रतियोगिताकत्वं तत्तद्विशेषाभावत्वावच्छेदेन सामान्यधर्मावच्छिन्न प्रतियोगिकत्वाभाव इति ध्वंसे सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वाभ्युप. गन्तुरभिप्रायः । कर्मत्वावच्छिन्नध्वंसे कर्मत्वावच्छिन्न प्रतियोगिताकध्वंसे तत्पुरुषीयकर्मतत्प्रागभावानधिकरणसमयवृत्तिस्वोपलक्षिते कर्मत्वावच्छिन्नप्रतियोगिताकध्वंस इति यावत् , ज्ञानस्य हेतुतेति प्रकरणालभ्यते । वा अथवा । " तत्समयावत्" इत्यस्य स्थाने "तत्समययावत्" इति पाठो युक्तः, तत्समयः- क्षायिकसुखत्वावच्छिन्नसमयवृत्तिः केवलज्ञानसमयवृत्तिा यो यावत्कर्मक्षयस्तत्समनियतं यत् सुखत्वावच्छिन्नं तंत्र ज्ञानस्य हेतुतेत्यर्थः । इति एवं स्वीकारे । न कस्यापि न्यूनत्वं न किञ्चिदपि होयते, यग्ज्ञानकर्मणोरितयाऽभिमतं ज्ञाननैर्मल्यायपूर्व वा तत्स्थान एव फलस्य क्षायिकस्य सुखस्याभिषेकात्- स्थापनादित्यर्थः । यच झानमेव कारणं न कर्मेति कमैव कारणं न ज्ञानमिति वचनं तज्ज्ञानस्य