________________
मयाहृततरहिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशाः ।
त्येकतरपक्षपातो न श्रेयान् ज्ञाने केवलज्ञानस्वरूपस्य कर्मणि च यथाख्यात चारित्रस्वरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशमिकस्थले च तदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वादिति, एतेन कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरिति ज्ञानं कर्मसहिकारित्वं मिथ्याज्ञानोन्मूलने, कर्मविनाकृतस्यैव तस्य दिग्मोहादौ हेतुत्वावधारणादिति निरस्तम्, मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वान्मध्याज्ञानप्रागभावाऽसहवृत्तिमिथ्याज्ञानध्वंसे च हेतुताया लोकप्रमाणाविषयत्वेन ज्ञान- कर्मणोद्वयोरेव कल्पनौचित्यात् वस्तुत अर्थसमाजसिद्धत्वात् तद्रूपावच्छिन्नेऽपि न हेतुता, किन्तु सामान्यावच्छिन्नध्वंसनये कर्मत्वावच्छिन्नध्वंसे तत्समयावत्कर्मक्षय समनियतक्षायिक सुखत्वावच्छिन्ने वेति न
दुःखध्वंसः सम्भवत्येव नेत्यसम्भवितस्य तस्य सुतरामेवासाध्यत्वादतः पुरुषार्थत्वाभावान्न दुःखध्वंसो मोक्ष इत्यर्थः । तत्र च दुःखसाधनध्वंसरूपमोक्षे च । वैजात्येनेत्यस्य हेतुत्वमित्यनेनान्वयः, विजातीयज्ञानत्वेन विजातीयकर्मत्वेन कारणत्वम् । वा अथवा | मुमुक्षविद्दतत्वादिना मुमुक्षविहितज्ञानत्वेन मुमुक्षविहितकर्मत्वेन कारणत्वम्, तुल्यमेव समानमेव । इति एतस्मात् कारणात् । एकतरपक्षपातः ज्ञानमेव कारणं न कर्मेति कर्मैव कारणं न ज्ञानमित्येवमेकतरपक्षपातः । न श्रेयान् नातीवरमणीयः । ज्ञान इति- क्षायिकस्थले ज्ञाने केवलज्ञानस्वरूपस्य वैजात्यस्य कर्मणि यथाख्यात चारित्रस्वरूपस्य वैजात्यस्य च कल्पनायाः, क्षायोपशमिकस्थले तु तदनुकूलतामात्रस्य मोक्षानुकूलतामात्रस्य द्वयोः ज्ञानकर्मणोः कल्पनायास्तुल्ययोगक्षमत्वादित्यन्वयः, अर्थस्तु व्यक्तः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । कारणोच्छेदक्रमेणेति - "दुःख- जन्म-प्रवृत्ति दोष- मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायान्मोक्षः " इति गौतमसूत्रम्, तत्र मिथ्याज्ञानं रागद्वषलक्षणदोषस्य कारणमिति मिथ्याज्ञानरूपकारणोच्छेदाद् दोषरूपकार्यस्योच्छेदः, रागद्वेषलक्षणदोषच प्रवृत्तेः कारणमिति दोषरूपकारणोच्छेदात् प्रवृत्तिरूपकार्यस्योच्छेदः, प्रवृत्तिश्व विहितनिषिद्धकर्मविषयिणी अदृष्टद्वारा जन्मनः कारणमिति प्रवृत्तिरूपकारणोच्छेदाज्जन्मलक्षणकार्यस्योच्छेदः, जन्म च दुःखस्य कारणमिति जन्मलक्षणकारणोच्छेदाद् दुःखध्वंसो भवति, स एव मोक्ष इत्येवं कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरित्यर्थः । इति एतस्मात् कारणात् । 46 ज्ञानं कर्म सहकारित्वं मिथ्यानानोन्मूलने ” इत्यस्य स्थाने " ज्ञाने कर्मसहकारित्वं न ज्ञानोन्मूलने " इति पाठो युक्तः । कथं न ज्ञाने कर्मसहकारित्वमित्यपेक्षायामाह - कर्मविनाकृतस्यैवेति- कर्म र द्दितस्यैवेत्यर्थः । तस्य ज्ञानस्य । हेतुत्वावधारणात् निवृत्तिहेतुत्व निर्णयात् । एतेनेत्यदिष्टमेव निरासहेतुं प्रकटयति- मिथ्याज्ञाननाशेऽपीति । मिथ्याज्ञानप्रागभावासहवृतीति- यन्मिथ्याज्ञानध्वंसानन्तरं मिथ्याज्ञानं तत् पुरुषस्य न भविष्यति, स एव मिथ्याज्ञानध्वंसः स्वसमानाधिकरणमिथ्याज्ञानप्रागभावासह वृत्तिः, स्वसमानाधिकरणत्वं च मिथ्याज्ञानप्रागभावविशेषणमवश्यमुपादेयम्, अन्यथेदानीं मुक्तस्य कस्यचित् पुंसो दुःखध्वंसोऽपि बद्धपुरुषीयदुःखप्रागभाव समानकालीन एवेति दुःखप्रागभावासह वृत्तित्वेन तबरमदुःखध्वंसस्यापि मुक्तित्वं न स्यादिति बोध्यम् । हेतुतायाः तत्त्वज्ञानस्य हेतुतायाः । लोकप्रमाणाविषयत्वेनेति- नहि लौकिकप्रमाणानि प्रत्यक्षानुमानादीनि बरमदुःखध्वंसं प्रति तत्त्वज्ञानं कारणमित्येवं विषयीकुर्वन्तीत्यतश्चरमदुःखध्वंसं प्रति तत्वज्ञानस्य कारणताया लोकप्रमाणाविषयत्वेनेत्यर्थः तथा चालौकिकागमप्रमाणेन तम्मूलकसामान्यतो दृष्टानुमानेन च चरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणत्वं कल्पनीयमिति तदलौकिकप्रमाणस्य ज्ञान- कर्मणोर्द्वयोरपि चरमदुःखध्वंसं प्रति कारणत्वे प्रवृत्तेरिति द्वयोरपि चरमदुःखध्वंसं प्रति हेतुत्वकल्पनमुचितमित्यर्थः । किम्व, स्वसामानाधिकरण्य मिथ्याज्ञानप्रागभावा सद्दवृत्तित्व-मिथ्याज्ञानध्वंसत्वरूप विभिन्नसामग्री प्रयोज्याने कधर्मं घटितत्वेन स्वसमानाधिकरण दुःखप्रागभावासह वृतिदुःखध्वसत्वस्यानेकसामग्री नियम्यत्व लक्षणार्थसमाजसिद्धत्वान्न किञ्चिन्निरूपित कार्यतावच्छेदकत्वमिति न तदवच्छिन्ने तत्वज्ञानस्य हेतुता सम्भवतीत्याह- वस्तुत इति तद्रूपावच्छिन्नेति - स्वसमानाधिकरणदुःखप्रागभावासद्वृत्तिदुःखध्वंसत्वाच्छिन्नेऽपि । न हेतुता न तत्त्वज्ञानस्य कारणता । तर्हि कस्मिन् कार्ये तत्त्वज्ञानस्य कारणतेति पृच्छति किन्त्विति । उत्तरयति - सामान्यावच्छिन्नध्वंसनय इतिसामान्यधर्मावच्छिन्न प्रतियोगिताकध्वसंस्वीकारपक्षे इत्यर्थः, घटवत्ताबुद्धिं प्रति घटाभाववत्ता निश्चयस्य प्रतिबन्धकत्वम्, तत्र यदि घटत्वावच्छिन्नप्रकार तानिरूपित भूतलत्वाद्यवच्छिन विशेष्यता कबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपित घटनिष्ठप्रतियोगिताकात्य