________________
नयामृततरहिणी-तरङ्गिणीतरणिया समतो गपोपण।
%
-
-
-
किञ्च, कर्मकारणताग्रहानुपजीवनेन लौकिकान्वय-व्यतिरेकावधृतमिध्याज्ञाननिवर्त[ न ]भावसम्भावितस्य मोक्षसाधनत्वस्य "ज्ञानादेव तु कैवल्यम्" [
]"तरति शोकमात्मवित्" [छां० ७.१.३.] "ब्रह्मविदाप्नोति परं" [तैत्ति० २. १. १+भस्मजा २. ७.] " ब्रह्मविद् ब्रह्मैव भवति" [
] इत्यादि श्रुतिस्मृतिशतेन तत्त्वज्ञानस्येष्टतया प्रहणात् तदेव मोक्षसाधनम् , कर्माणि तु तत्रैवा. न्यथासिद्धानीत्युक्तम् , यथा च न तत्रापि व्यापारस्तथोक्तमेव, अत एवार्थावबोधपर्यन्तताऽध्ययनविधेः, न तु तेन क्रत्वनुष्ठानेन स्वर्गादिफलकत्वमिति सम्प्रदायः । न च तत्त्वज्ञानस्य कर्मणां निःश्रेसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एवं तात्पर्यात् , श्रुत्यन्तरसिद्धेऽन्यथासिद्धत्वे तदनन्यथासिद्धताया बोधयितुमशक्यत्वात् , तावतैव श्रुतेः 'कर्मप्रवृत्तिपरतानिर्वाहा' इत्याहुः। अत्र वयं वडामः- मोक्षस्तावत् पुरुषार्थत्वाद् दुःखसाधनध्वंस एव, न तु दुःखध्वंसः, उत्पन्ना-ऽनुत्पन्नविवेकेन तद्ध्वंसस्थासाध्यत्वात् , तत्र च ज्ञान-कर्मणो_जात्येन मुमुक्षुविहितत्वादिना वा हेतुत्वं तुल्यमेवे. सिद्धानीत्युपपादकं प्रकारान्तरं दर्शयति- किञ्चेति । कर्मेति- मोक्षं प्रति कर्मणां कारणत्वं नोपजीवति तत्त्वज्ञानस्य मोक्षं प्रति कारणत्वमिति कर्मकारणतानुपजीवनेन, अस्य मोक्षसाधनत्वस्येत्यनेनान्वयः । लौकिकेति- लौकिकौ- लौकिकप्रत्यक्षादिप्रमाणसिद्धौ, यावन्वय-व्यतिरेको ताभ्यामवधृतं- निश्चितं यत् तत्वज्ञानेन मिथ्याज्ञानस्य निवर्तनम् , यथा शुक्तित्वरूपशुक्तितत्त्वज्ञानेन शुक्तौ रजतत्वज्ञानलक्षणमिध्याज्ञानस्य निवर्तनम्, तद्भावसम्भावितस्य मोक्षसाधनत्वस्य, तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिरन्यत्र दृश्टेति प्रकृतेऽप्यात्मतत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिस्ततश्च मोक्ष: सम्भवतीत्येवं सम्भावितस्य मिथ्याझाननिवृत्तिद्वारा तत्त्वज्ञाने मोक्षसाधनत्वत्येत्यर्थः । इत्थं सम्भावनात्मकं तत्त्वज्ञाने इष्टसाधनत्वस्य ग्रहणमुपदर्य स्पष्टमपि तङ्ग्रहणं श्रुति-स्मृतिप्रभवमुपदर्शयति-शानादेवेति । "तत्वज्ञानस्येष्टतया" इत्यस्य स्थाने “ तत्त्वज्ञाने स्पष्टतया" इति पाठो युकः, मोक्षसाधनत्वस्य तत्त्वज्ञाने स्पष्टतया प्रहणादित्येवमन्वयो बोध्या, अर्थस्तु स्पष्टः । तदेव मोक्षसाधनं तत्वज्ञानमेव मोक्षसाधनम्, एवकारेण कर्मणां मोक्षसाधनत्वस्य व्यवच्छेदः । तत्रैव तत्त्वज्ञान एव । तत्रापि तत्त्वज्ञानेऽपि । यथा च येन प्रकारेण । न व्यापारः कर्मणो न व्यापारः । तथोक्तमेव तथापूर्वमभिहितमेव । उक्तार्थे संप्रदायसंवादमुपदर्शयति-अत एवेति-अन्यथासिद्धत्वादेवेत्यर्थः । अर्थावबोधपर्यस्तता अर्थावबोधमात्रफलकता। अध्ययनविधेः स्वाध्यायोऽध्येतव्य इति विधेः । न त्विति- अध्ययनविधितोऽर्थान्वयबोधस्तेन त्वनुष्ठानं वेन चादृष्टद्वारा स्वर्गादिफलमिस्येवं स्वर्गादिफलकत्वं नाध्ययनविधेरन्यथासिद्धत्वात् । इति एवं स्वरूपः। सम्प्रदायः सङ्गच्छते इत्यर्थः । " न च तत्वज्ञानस्य" इत्यस्य स्थाने "न च श्रुतिस्तत्वज्ञानस्येव कर्मणामपि मोक्षजनकरवं बोधयतीति वाच्यम्, श्रतेः" इति पाठो भवितुमईति, यथा श्रुतिस्तत्वज्ञानस्य मोक्षजनकत्वप्रतिपादिका समस्ति तथा कर्मणामपि मोक्षजनकत्वप्रतिपादिका श्रुतिः समस्ति, एवं च श्रुतिस्तत्त्वज्ञानस्य यथा मोक्षजनकत्वं बोधयति तथा कर्मणामपि मोक्षजनकत्वं गोधयतीति श्रतिसिद्धं कर्मणां मोक्षजनकत्वमिति न च वाच्यम्, कर्मणां मोक्षजनकत्वप्रतिपादकतयाऽभिमतायाः श्रुतमोक्षप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षानुकूलत्वबोधन एव तात्पर्यात, एवकारेण अनन्यथासिद्धत्वे सति निःश्रेयस प्रागभावव्याप्यप्रागभावप्रतियोगित्वलक्षणनिःश्रेयसजनकत्वबोधने तात्पर्यस्य व्यवच्छेदः, अनन्यथासिद्धत्वोक्तस्वरूपकारणत्वावबोधने कुतो न तात्पर्यमित्यपेक्षायामाह-श्रुत्यन्तरसिद्ध इति । तावतैव कर्मणामुक्तस्वरूपानुकूलत्वबोधनेनैव । ज्ञान-कर्मणोद्धयोरेव समकक्षतया मोक्षजनकत्वस्वीकर्तृणां जनानां मतमुपदर्शयति- अत्रेति- निरुक्तविचार इत्यर्थः । वयं स्यावादिनः । वदामः कथयामः । कथं दुःखध्वंसो न मोक्षस्तस्यापि पुरुषायत्वादिल्याकालायामाहउत्पन्नेति- उत्पन्नदुःखध्वंसो मोक्षोऽनुत्पन्नदुःखध्वसो वा, तत्र दुःखस्य साक्षात्कारनियमादुत्पन्नदुःखस्यस्वोत्तरोत्पन्नस्वसाक्षात्कारेणैव निवृत्तेस्तदात्मकस्य मोक्षस्य पुरुषप्रयत्नासाध्यस्वान्न पुरुषार्थत्वम् , प्रतियोगितासम्बन्धेन ध्वंसं प्रति तदात्मसम्बन्धेन प्रतियोगिनोऽपि कारणत्वमित्यनुत्पन्न दुःखरूपप्रतियोगिनः पूर्वममावेन तद्रूपकारणाभावादनुत्पन्न.