________________
४०६
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । [मुण्ड० १. २. १२.] " कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतया पारदर्शिनः" ॥ [१ सं० सो० २८] इत्यादि श्रुतिस्मृतिशतेन निषेधात् कर्मजन्यवाभावाच " तपसा कल्मषं हन्ति अविद्यया मृत्युं तीत्वा ततस्तु तं पश्यति निष्कलं ध्यायमानः कषायपतिः कर्मभ्यः” इत्यादिभिस्तत्त्वज्ञानोत्पत्तिप्रतिबन्धदुरित निवृत्त्यैवान्यथासिद्धेः प्रदर्शनाद् न च “ विविदिषन्ति यज्ञेन" [
]" सर्व कर्माखिलं पार्थ! ज्ञाने परिसमाप्यते" [भ० गी० ४. २३ ] इत्यादिभिः कर्मजन्यताऽपि प्रतीयत इति वाच्यम् , सा हि न अपूर्वद्वारा प्रतिबन्धकदुरितानुच्छेदे अपूर्वसहस्रस्यापि अकिश्चित्करत्वात् , तदुच्छेदेन तज्जनने तु प्रमान्तराधृतकारणभावेन प्रतिबन्धकाभावेनैवान्यथासिद्धेः । न चैवं यागादेरप्यपूर्वेणान्यथासिद्धिः स्यात् , तस्य यागकारणतामहोत्तरकल्प्यत्वेनोपजीव्यापरिपन्थिस्वात् , इह तु प्रतिबन्धकाभावस्य कार्यमात्रे कार[ग]तायाः प्रागेवावधारणादिति विशेषात् । अत एव मङ्गलकारीर्योः प्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम्, वृष्टि-समाप्ती तु स्वकारणादेवेति सिद्धान्तः ।
निरुकनिषेधावबोधकम् , " नास्त्यकृतः कृतेन" इत्यादितृतीयश्रुतिवचनं तदावेदकम् , “कर्मणा बध्यते जन्तुः" इत्यादि. वचनं तु स्मृतिः। निषेधात् मुक्ति प्रति कर्मणां जनकत्वस्य निराकरणात् । तज्जन्यत्वे सति तज्जन्यजनकत्वं तद्पापारत्वम्, तत्त्वज्ञानस्य तु कर्मजन्यत्वमेव नास्तीत्येतावताऽपि तत्त्वज्ञानस्य कर्मव्यापारत्वं न सम्भवतीत्याह- कर्मजन्यस्वाभावाश्चेति- तत्त्वज्ञानस्य कर्मजन्यत्वाभावाचेत्यर्थः। तत्त्वज्ञानस्य कर्मजन्यत्वमेव कुतो नेत्याकालायामाह- तपसेति । इत्यादिभिरित्यस्यानन्तरं श्रुतिभिरिति दृश्यम्, अस्य प्रदर्शनादित्यनेनान्वयः। ननु तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितनिवृत्तिस्तत्त्वज्ञाने जननीये कर्मणां व्यापार इति व्यापारेण व्यापारिणी कर्मणां नान्यथा सिद्धिरिति चेत् ? न- यत्र व्यापारस्य व्यापारिनिष्ठप्रमाणान्तरसिद्धकारणत्वान्यथानुपपत्यैव कारणतया कल्पनं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धयभावेऽपि यत्र व्यापारस्य प्रमाणान्तरत एवं कारणत्वं क्लुप्तं तत्र व्यापारण व्यापारिणोऽन्यासिद्धरङ्गीकारात्, प्रकृतेऽपि तत्वज्ञानोत्पत्तिप्रतिबन्धकरितनिवृतेः प्रतिबन्धकामावविधया तत्त्वज्ञानं प्रति कारणत्वस्थ क्लतत्वेन तया कर्मणामन्यथासिद्धेरवश्यम्भावादिति । न चेत्यस्य वाच्यमित्य ने नान्वयः । निषेधे हेतुमाह-सा हीति-हि- यतः, सा- तत्त्वज्ञाने कर्मता । न अपूर्वद्वारा अदृष्टद्वारा न सम्भवति । तत्र हेतुः- प्रतिबन्धकेति- तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितानुच्छेदे प्रतिबन्धकाभाव. रूपकारणामावात् तत्त्वज्ञानोत्पत्तिर्न स्यादेवेत्यदृष्टसहस्रस्याप्यकिश्चित्करत्वात् तत्त्वज्ञानानुत्पादकत्वादित्यर्थः । तदुच्छेदेन तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितोच्छेदेन । तजनने तु तत्त्वज्ञानजनते तु । "प्रमान्तरा" इत्यस्य स्थाने "प्रमाणान्तरा" इति पाठो युक्तः, प्रमाणान्तरेण-कर्मकारणत्वान्यथानुपपत्तिव्यतिरिक्तप्रमाणेन, अवधृतः-निश्चितः, प्रमाणान्तरा. वधृतः, कारणमाव:- कारणस्वं यस्य स प्रमाणान्तरावधृतकारणमावस्तेन प्रतिबन्धकाभावेनैव तत्त्वज्ञान प्रति कर्मणोऽन्यथा. सिद्धेरित्यर्थः । यदि व्यापारेण व्यापारिणोऽन्यथासिद्धिस्तदाऽपूर्वेण यागस्यान्यथासिद्धिः स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । एवं व्यापारेण व्यापारिणोऽन्यथासिद्धरुपगमे । निषेधहेतुमाह- तस्येति- अपूर्वस्येत्यर्थः । यागेति- दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रुत्या यो दर्शपूर्णमासादियागस्य स्वर्ग प्रति कारणत्याहस्तदुत्तरकाले अपूर्वमन्तरेण यागस्य चिरध्वस्तस्य स्वर्ग प्रति कारणत्वमनुपपन्नामित्यनुपपत्तिप्रतिसन्धानतः करुप्यत्वेनोपजीव्यं यद् यागस्य स्वर्ग प्रति कारणत्वं तस्याविरोधित्वादित्यर्थः । इह त तत्त्वज्ञानस्थले तु । प्रागेव कर्मकारणत्वाहतः पूर्वमेव । अवधारणात् निश्चयात् । इति विशेषात् एवम्भूतविशेषस्य सद्भावादपूर्वेण यागादेन न्यथासिद्धिः दुरितनिवृत्त्या च कर्मणोऽन्यथासिद्धिः स्यादेवेत्यर्थः । अत पवेत्यस्येति सिद्धान्त इत्यनेनान्वयः, अत एव-सिद्धकारणभावेन व्यापारेण व्यापारिणोऽन्यथासिद्धत्वादेव । मालेति- मङ्गलस्य समाप्तिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वं कारीरीयागस्य वृष्टिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम् , मात्रपदेन समाप्तिफलकत्व-वृष्टिफलकत्वयोर्यवच्छेदः । यदि मजलात् समाप्तिर्न भवति कारीरीयागाद् वृष्टिश्च न भवति तर्हि समाप्तियष्टी कुतो भवत इत्यपेक्षायामाह-वृष्टि-समाप्ती स्विति । तत्त्वज्ञानमेव मोक्षसाधनं कर्माणि तु तत्रान्यथा