________________
नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समक
J
योगेन कर्मनाशार्थं वा तत्, इदमेव च द्वारि-द्वारयोः कर्म-तत्वज्ञानयोः कारणस्वं तुल्यकांतया समु नेष्ट इत्यनेन विवक्ष्यते, यद्यपि च तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वं न शाब्दम्, तथापि ' तीर्थ विशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि मोक्षजनककर्मत्वात् यमादिवत्' इत्यनुमानात् तथात्वसिद्धिः, न च योगत्वमुपाधिः " कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् " [ इत्यादिपुराणात् " रुद्रस्तारकं ब्रह्म व्याचष्टे " [ ] इति श्रुते काशीप्रायागादेस्तत्त्वज्ञानव्यापारकत्व सिद्धौ तत्र साध्याव्यापकत्वाद् इत्याहुः । स्वतन्त्रास्तु- " तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म. णामपूर्वद्वारा जनकत्वं दुरितध्वंसकल्पनातो लघुत्वात् वस्तुतः कर्मणां निःश्रेयसहेतुत्वे तज्जन्यनिःश्रेयसजनकतया तत्त्वज्ञानस्य कर्मव्यापारत्वं वाच्यम्, तदेव तु न युक्तं " कर्मणा न प्रजया धनेन " ] " नान्यः पन्था विद्यतेऽयनाय " [ श्वेता० ३. ८६. १५. ] " नास्त्यकृतः कृतेन
"
39
[
नाशेऽपि प्रारब्धकर्मणां भोगादेव क्षयो ' नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । [ ] इति वचनात् तत्र कर्मपदस्य प्रारब्धकर्मपरत्वात् एवं च तत्त्वज्ञानिनो यद् दुःखजनकं प्रारब्धं कर्म तद् दुःखमदत्त्वा न नश्यति, यावन्न तनाशस्तावन्न तन्मुक्तिरित्यभिसंपालन प्रयासोत्पन्न दुःखोपभोगेन कर्मनाशार्थमभिसंपालनं कर्तव्यकक्षामा स्कन्दतीति कल्पान्तरमाह - तत्तदुःखयोगेनेति । तत् आरब्धानि संपालनम् । तथा चोक्तदिशा तत्त्वज्ञानद्वारा कर्म मुर्ति जनयतीति मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति भवत्येवेत्याशयेनाह - इदमेव वेति- अनन्तरोपदर्शितस्वरूपमेवेत्यर्थः । तुल्यकक्षतया समप्रधानतया मुक्ति प्रति कारणत्वेन । समुच्चयः तत्त्वज्ञान- कर्मणोः समुच्चयः । नेष्टः नाभिमतः । न शाब्दं न शब्दप्रमाणम्यम् । तथाऽपि तीर्थविशेषस्नानादीनां तत्वज्ञानव्यापारकत्वस्य शब्दप्रमाणागम्यत्वेऽपि । तथात्वसिद्धिः तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वसिद्धिः । ननु यत्र यत्र तत्त्वज्ञानव्यापारकत्वं तत्र तत्र योगत्वमित्येवं तत्त्वज्ञानव्यापारकत्नलक्षणसाध्यव्यापकत्वाद् यत्र यत्र मोक्षजनककर्मत्वं तत्र तत्र योगत्वमिति नास्ति तीर्थविशेषस्नानादीनां मोक्षजनककर्मत्वेऽपि योगत्वाभावादित्येवं मोक्षजनक कर्मत्वलक्षणसाधनाव्यापकत्वाद् योगत्वमुपाधिरिति सोपाधिकत्वाद् व्याप्यत्वासिद्धिदोष प्रस्तो मोक्षजनककर्मत्वलक्षणहेतुर्न तीर्थविशेषस्नानादीनां तत्र ज्ञानद्वारकत्वलक्षण साध्यसाधनाय प्रभुरित्याशङ्कय प्रतिक्षिपति न चेति । काशी मरणादेस्तत्त्वज्ञानद्वारा मोक्षजनकत्वस्य शास्त्रसिद्धत्वेन तत्र तत्त्वज्ञानव्यापारकत्वलक्षणं साध्यमस्ति योगत्वं च तत्र नास्तीत्येवं साध्यव्यापकत्वाभावेन योगत्वस्योपाधित्वासम्भवादिति निषेधहेतुमुपदर्शयति कथयतीति । भगवान् सदाशिवः । इह काश्याम् | अन्तकाले मरणाव्यवहितपूर्वकाले । भवभयकातरतारकं भवः संसारः, तस्माद् यन्नर• कादिदुःखप्राप्तिभयं तेन कातरा ये जनास्तेषां तारकं - संसारसमुद्रोत्तारं पुनः संखारागमननिबन्धनम् । प्रबोधं तत्त्वज्ञानक तारकमन्त्रं कर्णे कथयति उपदिशतीत्यर्थः । रुद्र इति- सदाशिवः, तारकं ब्रह्म ब्रह्मज्ञानजनकं मन्त्रं कथयतीत्यर्थः । " काशीप्रायागादे " इत्यस्य स्थाने " काशीमरणादे " इति " काशीप्रमापणादे" इति वा पाठो युक्तः, प्रमापर्ण मृत्युः । तत्र काशीमरणादौ । साध्याव्यापकत्वात् साध्यं तत्त्वज्ञानद्वारकत्वं तत्रास्ति योगत्वं च नास्तीत्येवं साध्याव्यापकत्वात् । इति एवम् आहुः उदयनानुसारिणो वदन्ति । स्वतन्त्राणां मतमुपदर्शयति- स्वतन्त्रास्त्वितिभस्य ' आहु:' इत्यनेनान्वयः । तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म तत्त्वज्ञानस्यानं कारणमिति पक्षे । कर्मणामपूर्व द्वारा जनकत्वं नित्य नैमित्तिककर्मणामदृष्टद्वारा तत्त्वज्ञानजनकत्वम् । लघुत्वात् लाघवात् तत्त्वज्ञानं प्रति तत्त्वज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारा कर्मणां जनकत्वे तत्त्वज्ञानप्रतिबन्धकं दुरितं कल्पनीयं तन्नाशश्च कल्पनीय इत्येवं द्वितयकल्पनापेचयैका पूर्वकल्पने लाघवादित्यर्थः । यश्वोदयनाचार्यानुसारिभिस्तत्त्वज्ञानद्वारा कर्मणां निःश्रेयसं प्रति हेतुत्वमित्युच्येत तस्यायुक्तत्वमावेदयति- वस्तुत इति । तज्जन्येति कर्मजन्येत्यर्थः । कर्मजन्यत्वं यदि निःश्रेयसे भवेत् तदा कर्मजन्यनिःश्रेयसजनकत्वात् तत्त्वज्ञानव्यापारकत्वं कर्मणां युज्येतापि न चैवमित्याह तदेव स्थिति- नि. श्रेयसे कर्मजन्यत्वमेव त्वित्यर्थः । . युक्तत्वाभावे हेतुमुपदर्शयति- न कर्मणेति- " न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः " इत्येकं श्रुतिवचनं कर्मणो मोक्षजनकत्वनिषेधोपदर्शकम्, " तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " इति द्वितीयं श्रुतिवचनं
ܐܕ