________________
४००
किणीतरणिय समग्रतो मयोपदेशः ।
" स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥
35
नयाततरक्रि
विष्णुपुराणेऽप्युक्तम्-
[
1
तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते ! | "
हारीत
f
]
“ उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान - कर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥
"
[
]
92
श्रुतिश्च - " सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण ||
एतन्मूलकमेव
46
[
] इति,
" परिज्ञानाद् भवेन्मुक्तिरेतदालक्षणं परम् । कार्य (य) केशभयाच्चैव कर्म नेच्छन्ति पण्डिताः ॥ १ ॥ ज्ञानं प्रधानं न तु कर्महीनं, कर्मप्रधानं न तु बुद्धिहीनम् ।
तस्माद् द्वयोरेव भवेत् प्रसिद्धिर्नोकपक्षो विहगः प्रयाति ||२||" [
[] इत्यादि ॥
न च काम्य-निषिद्धनैमित्तकाभ्यां कर्मभ्यां न समुच्चयः तयोस्त्यागात्, न निमित्तिक नित्येन, एकैको व्यभिचारात्, साकल्येनासम्भवात् नापि यत्याश्रमविहितेन ।
33
66 न्यायागतधनस्तवज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ १ ॥
[
1
66
तत्प्राप्तये मोक्षप्राप्यर्थम्, मोक्षश्च परमानन्दस्वरूपं ब्रह्मैव तस्य पूर्वमपि सत्त्वात् तदुत्पत्तये इत्यनुक्त्वा तत्प्राप्तये इत्युक्तम् | तस्प्राप्तिहेतुः मोक्षप्राप्तिसाधनम्। हारीतवचनमपि समुच्चये प्रमाणमित्याह- हारीत इति । सत्येनेत्यादि स्पष्टम् । एतन्मूलकमेव तत्त्वज्ञान-कर्मसमुचयमोक्ष कारणस्थ प्रतिपादको पदर्शितप्रमाणमूलकमेव । रेतदालक्षणं " इत्यस्य स्थाने “ रेतदालस्यलक्षणं " इति पाठो भवितुमर्हति । " कार्य " इत्यस्य स्थाने " काय " इति पाठो युक्तः । द्वयोरेव ज्ञान- कर्मणोरुभयोरपि, एवकारस्याप्यर्थकत्वात् अथवाऽस्तु व्यवच्छेदार्थक एवैवकारः, तेन ज्ञानमात्रस्य कर्ममात्रस्य च व्यवच्छेदः । न चेत्यस्य वाच्यमित्यनेनान्वयः । काम्येति काम्यं च निषिद्धनैमित्तिकं च काम्यनिषिद्धनैमित्तिके, ताभ्यां काम्यनिषिद्ध- नैमित्तिकाभ्यां कर्मभ्यां सह ज्ञानस्य न समुच्चय इत्यर्थः । तत्र हेतुः - तयोस्त्यागादितिकाम्य- निषिद्धनैमित्तिककर्मणोः संन्यासिना परित्यागादित्यर्थः । " न निमित्तिकनित्येन " अस्य स्थाने " न नैमित्तिकनित्ये " इति पाठो युक्तः, नैमित्तिकं च तन्नित्यं च नैमित्तिकनित्यं तेन नैमिसिकनित्येन सह तत्त्वज्ञानस्य समुच्चयोऽपि न युक्त इत्यर्थः । नैमित्तिक नित्य कर्मणामनेकविधत्वेन तत्रैकनैमित्तिकनित्यकर्मणो यत्याश्रमविहितस्य सहकारेऽपि तत्त्वज्ञानतो मुक्तेरनुदयेनान्वयव्यभिचारस्य यत्याश्रमविहितयत्किञ्चिचैमित्तिकनित्य सहकृततत्त्वज्ञानस्याप्यभावेऽपि तदन्ययत्किञ्चिनैमित्तिकनित्य सद्दकृततत्त्वज्ञानतो मुक्तेर्भावेन तत्तन्नैमित्तिकनित्यकर्म सद्दकृततत्त्वज्ञानस्य मुक्ति प्रति कारणत्वे प्रत्येकं व्यतिरेकव्यभिचारस्य सद्भावादिति निषेधहेतुमुपन्यस्यति - एककैकशो व्यभिचारादिति । सकलनैमित्तिकनित्यकर्म सह कृततत्वज्ञानस्य मुक्ति प्रति कारणत्वं तु सकलनैमित्तिक कर्मणामेकदाऽसम्भवेन तत्सहकारस्यापि तत्त्वज्ञानेऽसम्भवादेव न सम्भवतीत्याहसाकल्येनासम्भवादिति । यत्याश्रमविहितेन कर्मणा समुचयोऽपि तत्वज्ञानस्य न सम्भवति गृहस्थस्यापि तत्त्वज्ञानतो मुकेः सम्भवस्यागमे प्रतिपादिततया गृहस्थनिष्ठतत्त्वज्ञानस्य यस्याश्रमविहितकर्मसकृतत्वाभावादित्याह - नापि यत्याश्रम विद्दितेनेति । निषेधे हेतुमाह- न्यायागतधन इति न्यायागतधन इत्यादि प्रथमान्तपञ्चकं गृहस्थोऽपीत्यस्य विशेषणम्, न्यायेनागतं धनं यस्य स न्यायागतधनो न्यायोपार्जितधनवानित्यर्थः, तत्वज्ञाने निष्ठा - श्रद्धा यस्य स तत्वज्ञाननिष्ठः, अतिथिः प्रियो यस्य सोऽतिथिप्रियः यः कश्चिदतिथिः स्वगृहमागच्छति भक्त्या तस्मै यो भोज्यान्नपानाच्छादनवस्त्रादिदानेन स्वात्मानं कृतार्थं मन्यमान इति यावत् देवपितृश्राद्धकारी श्राद्धकृत् सत्यं वदितुं शीलं यस्य स सत्यवादी, इति पच