________________
तरणियां समग्रतो मयोपदेशः ।
इत्यागमेन गृहस्थस्यापि मोक्षश्रवणात् इत्युपपत्तिविरोधादेव न समुच्चय इति वाच्यम्, यत्राश्रमे यानि मोक्षहेतुतया विहितानि तैरेव तदाश्रमित्वज्ञानस्य समुच्चयोपपत्तेः न च कर्मणां परस्परव्यभिचारान्निःश्रेयसे च स्वर्गाद् वैचित्रयाभावान्न तत् प्रति कारणत्वमिति वाच्यम्, स्वाभाविक विशेषविरहेऽपि प्रतियोगिभेदेन बिशेषस्य निःश्रेयसेऽप्यविरोधात्, तत्तत्पुरुषीय मुमुक्षुविहितकर्मत्वेन तत्तत्पुरुषीयविजातीयदुःखध्वंसे हेतुत्वसम्भवात्, अवश्यं चाभावरूपे कार्ये प्रतियोगिभेदेन विशेषोऽभ्युपेयः, कथमन्यथा आश्रयनाश- पाकयो रूपनाशकारणत्वमिति, न च ज्ञानस्य विहित्वाददृष्टजनकत्वेनादृष्टस्यैव प्राधान्यम्, न च रागाद्यभावाद् योगिनोऽदृष्टोत्पत्त्यसम्भवः, मुक्तिविरोध्यपूर्वोत्पत्तावेव रागादेः सहकारवात्, arata मोक्षफलक विध्यनुपपत्तिपरिहारादिति वाच्यम्, शुकादितत्त्वज्ञान साध्यतया क्लृप्तेन
3
नयासुततर
**
विशेषणविशिष्टो गृहस्थो गृहस्थाश्रमे वर्तमानोऽपि विमुच्यते - मुक्तो भवति । इत्यागमेन एवं स्वरूपागमेन । इति एवंप्रकारेण । उपपत्तिविरोधादेव असमुच्चयसाधक युक्तिततिविरोधादेव । निषेधे हेतुमुपदर्शयति- यत्राश्रम इति- “ तैरेव तदाश्रमित्वज्ञानस्य " इत्यस्य स्थाने " 'तैरेव तदाश्रमितत्त्वज्ञानस्य " इति पाठो युक्तः, स्वस्वाश्रमविहितकर्मभिस्तत्तदाश्रमिणस्तत्त्वज्ञानस्य समुचयोपपत्तेरित्यर्थः । नन्वेकस्य कर्मणोऽभावेऽपि कर्मान्तरेण मोक्षस्योत्पत्तेर्व्यभिचारेण न कर्मणां मोक्षं प्रति कारणत्वं सम्भवति, यथा स्वर्गे वैजात्यं समस्तीति विजातीयस्वर्गं प्रति यागविशेषस्य कारणत्वम्, तदन्यविजातीयस्वर्ग प्रति तयागान्ययागविशेषस्य कारणत्वम्, एवं तीर्थविशेषस्नानादेरपि तत्तद्विजातीयस्वर्गं प्रति कारणत्वमिति न तत्र व्यभिचारः, तथा मोक्षेऽपि यदि तत्तत्कर्मजन्ये वैजात्यं स्यात् तदा विजातीयमोक्षं प्रति तत्कर्मणः कारणत्वं तदन्यकर्मणस्तु तन्मोक्षगतवैजात्यभिन्नवैजात्याकलितमोक्षं प्रति कारणत्वमित्युपगमे व्यभिचारो न भवेत्, न चैवम्, मोक्षे दुःखध्वंसात्मकत्वेनाभावस्वरूपे वैजात्याभावादित्याशङ्कय प्रतिक्षिपति न चेति- अस्य वाच्यमित्यनेनान्वयः । तत् प्रति निःश्रेयसं प्रति । निषेधहेतुमुपदर्शयति- स्वाभाविकविशेषविरद्देऽपीति- अभावात्मके मोक्षे अवान्तरजात्यात्मकस्वाभाविकविशेषस्याभावेऽपीत्यर्थः । दुःखध्वंस लक्षणस्य मोक्षस्य प्रतियोगिनो दुःखस्य वैजात्यसम्भवाबू विजातीयदुःखप्रतियोगिकत्वलक्षणविशेषस्य निःश्रेयसेऽप्यविशेष इत्याह- प्रतियोगिमेदेनेति । प्रतियोगिभेदेन निःश्रेयसे विशेषस्य सम्भवे विशिष्य कार्यकारणभावो यथा सम्भवति तथोपदर्शयति तत्तत्पुरुषीयेति । कार्यकारणभावोपपादनाय प्रतियोगिभेदप्रयुक्तस्याभावे विशेषस्यावश्याभ्युपगन्तव्यत्वं दर्शयति- अवश्यं वेति- अस्याभ्युपगन्तव्यं इत्यनेनान्वयः । कथमित्यस्य रूपनाशकारणत्वमित्यनेनान्वयः । अन्यथा अभावे विशेषानभ्युपगमे, आश्रयनाशादपि रूपस्य नाशः, पाकादपि रूपस्य नाशः, तथा चाश्रयनाशाभावेऽपि रूपनाशस्य भावेन व्यभिचारेण रूपनाशस्य कारणत्वं न भवेत् एवं पाका भावेऽपि रूपनाश आश्रयनाशाद् भवतीति व्यभिचारेण पाकस्य कारणत्वं न स्यात्, अभावे विशेषाभ्युपगमे तु विलक्षणरूपनाशं प्रति आश्रयनाशत्वेन कारणत्वम् तद्विलक्षणरूपनाशं प्रति पाकत्वेन कारणत्वमित्येवं कार्यकारणभाव: सम्भवतीत्यर्थः । न वेत्यस्य वाच्यमित्यनेनान्वयः, यद् विहितं तददृष्टद्वारा कार्यजनकं यथा दर्शपूर्णमासादिकं विहितमतस्तदप्यदृष्टद्वारेव मोक्षजनकमिति तत्त्वज्ञानस्य विहितमदृष्टद्वारा स्वर्गात्मक कार्यजनकं तत्त्वज्ञानं च विहितत्वाद् द्वारीभूतादृष्टजनकत्वेनादृष्टस्यैव प्राधान्यं स्यादित्यर्थः । उक्ताशङ्कायाः प्रतिविधानमाशङ्कय प्रतिक्षिपति न चेति तत्वज्ञानं योगिन एव भवति, तत्र च रागादिकं नास्ति, रागादिकं चादृष्टस्य कारणमिति रागादिरूपकारणाभावान्न तत्रादृष्टमुत्पद्यते, ततश्च विहितत्वमप्रयोजकत्वान तत्वज्ञानस्यादृष्टजनकत्वसाधनायालमित्यदृष्टस्याभावान्न तस्य मोक्षजनकत्वमिति न तस्य प्राधान्यमिति न चेत्यर्थः । तत्र हेतुमाह- मुक्तीति- मुक्तिविरोधि यदपूर्वमदृष्टं तदुत्पत्तावेव रागादे: सहकारिविधया कारणत्वात् तत्त्व. ज्ञानाद् यददृष्टं भवति तन्मोक्षानुकूलमेव न तु मोक्षविरोधीति तदुत्पत्तौ न रागादिकं कारणमिति तदभावेऽपि योगिन्यइष्टोत्पतिः सम्भवतीत्यदृष्टस्य प्राधान्यं स्यादेवेत्यर्थः । तावतैव अदृष्टस्य कारणत्वेनैव मोक्षफलकतत्वज्ञानविधैरनुपपत्तिविरहादित्यर्थः । उक्काशङ्काप्रतिक्षेप हेतुमुपदर्शयति- शुकादीति - शुको व्यासपुत्रस्तस्य तत्वज्ञानान्मिथ्याध्वंसादेव मुक्तिरिति
५१